#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00073 Uniform title: prāṇatoṣiṇī kamyakāṇḍa Author : rāmatoṣaṇa compiler Description: Compiled by rāmatoṣaṇa bhaṭṭācārya Originally published by kalikātā in Bengali script in the tantrasārādivividhatantrasaṃgraha Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski . Revision 0 : Dec. 11, 2007 . Publisher : kalikātā Publication year : Pre-1900 Publication city : Publication country : India #################################################### टित्ले पगे || श्रीः || प्राणतोषिणी श्रीरामतोषण भट्टाचार्येण तन्त्रशास्त्रात् संकलयय विरचिता Vइ, ए उपाधिधारिणा पण्डितकुलपतिना स्रीजीवानन्दविद्यासागरभट्टाअचर्ययेण प्रकासिता | Kअलिकातानगरे Kअलिकातायन्त्रे मुद्रिता १८९८ आड् ४) काम्यकाण्ड प्. ४१६) नित्यानन्दमयी नितान्तनिपुणा भक्तेष्टसिद्ध्यै निराकारा नूतननूतनोल्लिखितकृत् प्रज्ञास्वरूपा कवेः | शब्दार्थोभयरूपिणी शतसुधांशूद्दीप्तशोचिः सदा ध्याता चेतसि मे चकास्तु रुचिरा वागीश्वरी निर्मला || श्रीयुक्तः प्राणकृष्णो गुरुचरणसरोजातसंलीनचेता दता ख्यातः प्रमाता सुविहितकृतिको ब्रह्मसंस्थापकः स्तात् | भोगाढ्यो दीर्घजीवी यदनुमतिवशादुद्गतेयं विपश्चिद्वृन्दं श्रीप्राणतोषिण्यतिमृदुललता ह्लादयत्वद्रिकाण्डैः | आदेष्ट्रत्यन्तशीघ्रत्वहेतुना दोषराशयः | अत्र जाता बुधैः शोध्या इति भूयो निवेदनम् || काम्यकाण्डस्य निर्घण्ट आदौ चैतन्यमेव च | सर्वसामेव विद्यानां मन्त्रार्थस्तदनन्तरम् | कुल्लुका च तथा सेतुर्महासेतुस्ततः परम् | निर्वाणं मुखशुद्धिश्च प्राणयोगस्ततः परम् | दीपनीसूतकोन्मुक्तिजपक्रमनिरूपणम् | कुल्लुकादेस्तथा स्थानं पुरश्चर्या ततः परम् | वारमासपुरश्चर्यारहस्यादिपुरस्क्रिया | ग्रहणकालपुरश्चर्या तत्र सङ्कल्पवारणम् | मालाप्रकरणमिति प्रथमच्छेद उच्यते || १ || साधनस्थाननिर्णीतिमहापीठनिरूपणम् | महापीठानि पीठानि तथैव पीठदेवताः | पूजाकालस्तद्विशेषस्तथा देवार्चनाविधिः | एकाहादिक्रमाद्बाधे कर्तव्यनिर्णयस्ततः | प्रायश्चित्तमितिच्छेदद्वितीयस्य समापनम्|| २ || कृकलासाखुमार्जारशृगालखादिसाधनम् | इष्टसाधनभेदाश्च त्रिवाटादेश्च साधनम् | कार्तवीर्यप्रयोगस्तत्कवचं तदनन्तरम् | परिच्छेदतृतीयस्य समापनमतः परम् || ३ || कुक्कुटस्य प्रयोगश्चोच्छिष्टचाण्डालिनी ततः | धूमावती ततः कृत्या परिमालात्मिका ततः | जयदुर्गादिरिति वै तुर्यच्छेदसमापनम् || ४ || दुर्गोत्सवस्य षष्ठ्यादिकल्पतत्कालनिर्णयः | पूजाधारश्च मृण्मयया निषेधविधिकीर्तनम् | ब्राह्मणादिवर्णभेदे विल्वयुग्मस्य निर्णयः | पूर्वादिदिश्यमालूरयुग्मस्य फलकीर्तनम् | प्. ४१७) बिल्वयुग्मस्य मृण्मययाश्चात्र दोषश्चुक्तौ तथा | तत्प्रायश्चित्तकथनमुत्सवादिनिरूपणम् | तत्रान्यकर्मत्यागश्च पूजाकर्म ततः परम् | देशभेदे मूर्तिभेदो मण्डपन्तु ततः परम् | षष्ठीकृत्यञ्च दिक्पालास्तन्त्रपूजाविधिरेव च | बलिदानादि च ततो बिल्ववृक्षनिमन्त्रणम् | ततश्च सप्तमीकृत्यं कार्तिकादेः प्रपूजनम् | पत्रिकापूजनं स्तोत्रमष्टमीकृत्यमेव च | निशीथकृत्यं नवमीकृत्यञ्च दशमीक्रिया | परिच्छेदपञ्चमस्य समाप्तिरिति कीर्तितम् || ५ || दुर्गामन्त्रस्तस्य ऋषिः पुरश्चर्या च यन्त्रकम् | ध्यानं स्तुतिस्ततो दुर्गानाममहात्म्यकीर्तनम् | दुर्गायाः शतनामाख्यस्तोत्रं गीतावलिस्ततः | होमप्रकरणं तस्य द्रव्यस्य परिमाणकम् | मानाध्याय इदं षष्ठपरिच्छेदसमापनम् || ६ || मासकृत्यं ततः खञ्जरीटदुष्टिश्च तत्फलम् | कोजागराख्यकृत्यञ्च कृत्यं कार्तिकमासिकम् | अग्रहायणकृत्यानि पौषकृत्यं ततः परम् | माघकृत्यं फाल्गुनस्य कृत्यानि तदनन्तरम् | वर्षकृत्यं हृतराज्यराज्याप्तिसाधनं ततः | देवीषोडशयात्रा च मासिमासि यथादितः | वैशाखे मञ्जुयात्रा च प्रथमा परिकीर्तिता | ज्यैष्ठे महास्नानयात्रा रथयात्रादिका शुचौ | श्रावणे जलयात्रा च भाद्रे च धूननं तथा | आश्विने च महापूजा कार्तिके दीपयात्रिका | मार्गे नवान्नयात्रा च पौषेऽङ्गरागरूपिणी | माघे यात्रा रटन्त्याख्या फाल्गुने दोलयात्रिका | दूतीयात्रा रासयात्रा वासन्तीनीत्ययात्रिका | एताश्चतस्रश्चैत्रे तु षोडशीयात्रिका मता | दिग्दर्शनार्थं सङ्घेपान्निर्घण्टो विहितो मया | अन्यान्यपि यथास्थानं वेदितव्यानि पण्डितैः || इदं ग्रन्थिशाखाप्रशाखासुपत्रैस्तथा तारकैः सुप्रसूनैः फलैश्च | सदाशां जनानां बुधोपासकानां प्रपूर्णां विधाता द्रुतं काम्यकाण्डम् || कालि हृदब्जे शङ्करि ! नित्यम् | राजतु देवाधीश्वरपूज्ये ! | अथ चैतन्यम् | प्. ४१८) कुब्जिकायन्त्रे पञ्चमपटले || श्रीपार्वत्युवाच || भगवन् ! सर्वदेवेश ! लोकानां हितकारक ! | चतुर्वर्गप्रदं देव ! चैतन्यं मे प्रकाशय || शङ्कर उवाच || शृणु देवि ! प्रवक्ष्यामि चैतन्यं परमाद्भुतम् | रहस्यं परमं पुण्यं गोपनीयं त्वया पुनः | चिच्छक्त्या ध्वनितं देवि ! परिणामक्रमेण तु | वर्णभावं समात्यज्य निर्मलं विमलात्मकम् | षट्चक्रञ्च तथा भित्त्वा शब्दरूपं सनातनम् | नादबिन्दुसमायुक्तं चैतन्यं परिकीर्तितम् | अथ वान्यप्रकारेण श्रूयतां पद्मलोचने ! | विना येन न सिध्येत्तु जपपूजादि किञ्चन | अनाहतस्य मध्ये तु ग्रथितं वर्णमुत्तमम् | सुषुम्नावर्त्मना देवि ! कण्ठदेशं विनिर्गतम् | चैतन्यञ्च महेशानि ! योगिनां योगरूपकम् | सहस्रारे वर्णरूपं परिणामक्रमेण तु | कर्णिकामध्यसंस्थे तु नादबिन्दुसमन्वितम् | एवं सञ्चिन्तयेद्देवीं चैतन्यञ्च पुनः पुनः | मन्त्राक्षराणि चिच्छक्तौ ग्रथितानि महेश्वरि ! | तानि सञ्चिन्तयेद्देवि ! सहस्रारदले तथा | चैतन्यमन्त्ररूपा च चैतन्यानन्ददायिनी | चैतन्यनादशक्तिश्च चैतन्यवर्णरूपकम् | मणिपूरे सदा चिन्त्यं मन्त्राणां प्राणरूपकम् | अथवान्यप्रकारेण श्रूयतां वरवर्णिनि ! | कामबीजं रमाबीजं शक्तिबीजं सुरेश्वरि ! | एतानि पूर्वमुच्चार्य मातृकां तदनन्तरम् | पुटितं मूलमन्त्रञ्च शतमष्टोत्तरं जपेत् | कोटिकोटिगुणञ्चैव लभते नात्र संशयः | अथवान्यप्रकारेण चैतन्यं शृणु पार्वति ! | येन विज्ञानमात्रेण परमं पश्यति ध्रुवम् | सूर्यमण्डलमध्यस्थं चिन्तयेन्मूलमन्त्रकम् | अष्टोत्तरशतं जाप्यं मूलविद्यास्वरूपकम् | गुरुं सञ्चिन्तयेत्तत्र शिवरूपं सनातनम् | शक्तिञ्च चिन्तयेत्तत्र ब्रह्मरूपां सनातनीम् | एवं सञ्चिन्तयेद्यस्तु जपेद्वा सुरसुन्दरि ! | नासाध्यं तस्य लोकेऽस्मिन् मुक्तिर्देवि ! करे स्थिता | तथा प्रथमपटले || मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः | प्. ४१९) न सिध्यति वरारोहे ! कल्पकोटिशतैरपि | शतकोटिजपेनापि तस्य विद्या न सिध्यतीति सरस्वती तन्त्रे पाठः || कथयामि महामन्त्रं मन्त्रार्थञ्च महेश्वरि ! | येन विज्ञानमात्रेण सर्वसिद्धीश्वरो भवेत् | केवलं भावबुद्ध्या च मन्त्रार्थं प्राणवल्लभे ! | केवलं ज्ञानयोगेन जीवन्मुक्तो भवेद्ध्रुवम् | कालीतारा महाविद्या षोडशी भुवनेश्वरी | भैरवी छिन्नमस्ता च विद्या धूमावती प्रिये ! | बगला चैव मातङ्गी कमला च प्रकीर्तिता | ब्रह्मविष्णुमहेशाद्यैश्चतुर्वेदैर्नमस्कृता | भोगदा मोक्षदा देवि ! कोटिब्रह्माण्डगोपिता | अस्या ग्रहणमात्रेण जीवन्मुक्तस्तु साधकः || वरदातन्त्रे षष्ठपटले | शिव उवाच || मन्त्रार्थं कथयाम्यद्य शृणुष्व परमेश्वरि ! | विना येन न सिध्येत्तु साधनैः कोटिशः शिवे ! | आदौ प्रासादबीजस्य मन्त्रार्थं शृणु पार्वति ! | सिववाची हकारस्तु औकारः स्यात् सदाशिवः | शून्यं दुःखहरार्थन्तु तस्मात्तेन शिवं यजेत् || हौं || द दुर्गावाचकं देवि ! | उकारश्चापि रक्षणे | विश्वमाता नादरूपः कुर्वर्थो बिन्दुरूपकः | तस्मात्तेनैव बीजेन दुर्गामाराधयेच्छिवे ! || दूं || क काली ब्रह्म र प्रोक्तं महामायार्थकश्च ई | विश्वमातार्थको नादो बिन्दुर्दुःखहरार्थकः | तेनैव कालिकादेवीं पूजयेद्दुःखशान्तये || क्रीं || हकारः शिववाची स्यात् रेफः प्रकृतिरुच्यते | महामायार्थ ईशब्दो नादो विश्वग्रसूः स्मृतः | दुःखहरार्थको बिन्दुर्भुवनां तेन पूजयेत् || ह्रीं || महालक्ष्म्यर्थकः शः स्याद्धनार्धो रेफ उच्यते | ईस्तुष्ट्यर्थोऽपरो नादो बिन्दुर्दुःखहरार्थकः | लक्ष्मीदेव्या बीजमेतत्तेन देवीं प्रपूजयेत् || श्रीं || सरस्वत्यर्थ ऐशब्दो बिन्दुर्दुःखहरार्थकः | सरस्वत्या बीजमेतत्तेन वाणीं प्रपूजयेत् || ऐं || क कामदेव उदिष्टोऽप्यथवा कृष्ण उच्यते | ल इन्द्र ई तुष्टिवाची सुखदुःखप्रदञ्च अं | कामबीजार्थं उक्तस्ते तव स्नेहान्महेश्वरि ! | क्लीं || ह शिवः कथितो देवि ! उ भैरव इहोच्यते | परार्थो नादशब्दस्तु बिन्दुर्दुःखहरार्थकः | वर्मबीजत्रयो ह्यत्र कथितस्तव यत्नतः || हूं || गणेशार्थो ग उक्तस्ते बिन्दुर्दुःखहरार्थकः | गं बीजार्थन्तु कथितं तव स्नेहान्महेश्वरि ! | गं || ग गणेशव्यापकार्थो लकारस्तेज औ मतः | दुःखहरार्थको बिन्दुर्गणेशं तेन पूजयेत् || ग्लौं || क्षणृसिंहो व्रह्मा रश्च ऊर्द्धदन्तार्थकश्च औ | दुःखहरार्थको बिन्दुर्नृसिंहं तेन पूजयेत् | क्ष्रौं || नामादिवर्णः सर्वेषां नाम उक्तं स्वयम्भु वा | तेनैवार्थन्तु जानीयादर्थलभ्यन्तु चिन्तयेत् | यथायथं विभक्त्यन्तं मन्त्रार्थे चिन्तयेच्छिवे ! | तत्तद्वर्णादियोगेन संक्षेपात् कथितं त्वयि | दुर्गोत्तारणवाच्यः स तारकार्थस्तकारकः | मुक्त्यर्थो रेफ उक्तोऽत्र महामायार्थकश्च ई | विश्वमातार्थको नादो बिन्दुर्दुःखहरार्थकः || वधूबीजार्थ उक्तोऽत्र तव स्नेहान्महेश्वरि ! || स्त्रीं || यत्र बिन्दुद्वयं मन्त्रे एकं दुःखहरार्थकम् | अन्यत् सुखप्रदं देवि ! ज्ञात्वा चार्थं विचिन्तयेत् | यत्र बिन्दुद्वयं मन्त्रे अन्यत् पूर्णार्थकं मतम् | स्वाहामात्रार्थका देवि ! परार्था वां प्रकीर्तिता | शक्रमाता वषट् प्रोक्ता हरिप्रियार्थका गिरा | सुरार्था फट् हयग्रीवे विव्रिंबीजं विनिर्दिशेत् | यं बीजं वायुवाची स्यात् लमैन्द्रं परिकीर्तितम् | अनेकाक्षरबीजे च स्वस्वबीजं स्वनामकम् | एवं ज्ञात्वा महेशानि ! मन्त्रार्थं परिचिन्तयेत् | एकबीजद्वयं यत्र पृथगर्थं प्रकल्पयेत् | वीप्सार्थं वा महेशानि ! ज्ञात्वा मन्त्रं जपेद्धिया | इति ते कथितो देवि ! मन्त्रार्थः परमेश्वरि ! | ईं बीजेनैव पुटितं मूलमन्त्रं जपेद् यदि | तदेव मन्त्रचैतन्यं भवत्येव सुनिश्चितम् || सरस्वतीतन्त्रे प्रथमपटले || ईश्वर उवाच || मन्त्रार्थं परमेशानि ! सावधानावधरय | मूलाधारे मूलविद्यां भावयेदिष्टदेवताम् | शुद्धस्फटिकसङ्काशां भावयेत् परमेश्वरीम् | प्. ४२१) धारयेदक्षरश्रेणीमिष्टविद्यां सनातनीम् | मुहूर्तार्द्धं विभाव्यैतां पश्चाद्ध्यानपरो भवेत् | ध्यानं कृत्वा महेशानि ! मुहूर्तार्द्धं ततः परम् | ततो जीवो महेशानि ! मनसा कमलेक्षणे ! | स्वाधिष्ठानं ततो गत्वा भावयेदिष्टदेवताम् | बन्धूकारुणसङ्काशां जवासिन्दूरसन्निभाम् | विभाव्य अक्षरश्रेणीं पद्ममध्यगतां पराम् | ततो जीवः प्रसन्नात्मा पक्षिणा सहसुन्दरि ! | मणिपूरं ततो गत्वा भावयेदिष्टदेवताम् | विभाव्य अक्षरश्रेणीं पद्ममध्यगतां पराम् | शुद्धस्फटिकसङ्काशां शिरःपद्मोपरिस्थिताम् | ततो जीवो महेशानि ! पक्षिणा सह पार्वति ! | हृत्पद्मं प्रययौ शीघ्रं नीरजायतलोचने ! | इष्टविद्यां महेशानि ! भावयेत् कमलोपरि ! विभाव्य अक्षरश्रेणीं महामरकतप्रभाम् | ततो जीवो वरारोहे ! विशुद्धं प्रययौ प्रिये ! | हृत्पद्मगहनं गत्वा पक्षिणा सह पार्वति ! | इष्टंविद्यां महेशानि ! आज्ञांशे परिचिन्तयेत् | पक्षिणा सह देवेशि ! खञ्जनाक्षि ! सुचिस्मिते ! | इष्टविद्यां महेशानि ! साक्षाद्ब्रह्मस्वरूपिणीम् | विभाव्य अक्षरश्रेणीं हरिद्वर्णां वरानने ! | आज्ञाचक्रे महेशानि ! षट्चक्रे ध्यानमाचरेत् | षट्चक्रे परमेशानि ! ध्यानं कृत्वा सुचिस्मिते ! | ध्यानेन परमेशानि ! यद्रूपं समुपस्थितम् | तदेव परमेशानि ! मन्त्रार्थं विद्धि पार्वति ! || अथ कुल्लुकादि | सरस्वतीतन्त्रे तृतीयपटले || तारायाः कुल्लुका देवि ! महानीलसरस्वती | पञ्चाक्षरी कालिकायाः कुल्लुका परिकीर्तिता | काली कूर्चं बधूर्माया फट्कारान्ता महेश्वरि ! | छिन्नायास्तु महेशानि ! कुल्लुकाष्टाक्षरी भवेत् | वज्रवैरोचनीये च अन्ते वर्म प्रपूजयेत् | सम्पत्प्रदायाः प्रथमं भैरव्याः कुल्लुका भवेत् | श्रीमत्त्रिपुरसुन्दर्याः कुल्लुका द्वादशाक्षरी | प्. ४२२) वाग्भवं प्रथमं बीजं कामबीजमनन्तरम् | लज्जाबीजं ततः पश्चात्त्रिपुरेति ततः परम् | भगवतीति तत्पश्चादन्ते ठद्वयमुद्धरेत् | अथवा कामबीजञ्च कुल्लुका परिकीर्तिता | प्रासादबीजं शम्भोश्च मञ्जुघोषे षडक्षरम् | एकार्णा भुवनेश्वर्या विष्णोः स्यादष्टवर्णकम् | नमो नारायणायेति प्रणवाद्यञ्च कुल्लुका | मातङ्ग्याः प्रथमं बीजं माया धूमावतीं प्रति | बालायाश्च बधूबीजं लक्ष्म्याश्च निजबीजकम् | सरस्वत्या वाग्भवञ्च अन्नदाया अनङ्गका | अपरेषाञ्च देवानां मन्त्रमात्रं प्रकीर्तितम् | इयं ते कथिता देवि ! सङ्क्षेपात् कुल्लुका मया | अज्ञात्वा कुल्लुकामेतां यो जपेदधमः प्रिये ! | पञ्चत्वमाशु लभते सिद्धिहानिस्तु जायते | तथा जपादिकं सर्वं निष्फलं नात्र संशयः | तस्मात् सर्वप्रयत्नेन धारयेन्मूर्द्ध्नि कुल्लुकाम् || तथा | विप्राणां प्रणवः सेतुः क्षत्रियाणां तथैव च | वैश्यानाञ्चैव फट्कारो माया शूद्रस्य कथ्यते | अजप्त्वा हृदि देवेश ! यो वै मन्त्रं समुच्चरेत् | सर्वेषामेव मन्त्राणामधिकारो न तस्य हि | महासेतुश्च देवेशि ! सुन्दर्या भुवनेश्वरी | कालिकायाः स्वबीजञ्च तारायाः कूर्चबीजकम् | अन्यासान्तु बधूबीजं महासेतुर्वरानने ! | आदौ जप्त्वा महासेतुं जपेन्मन्त्रमनन्यधीः | धने धनेशतुल्योऽसौ वाण्या वाणीश्वरोपमः | युद्धे कृतान्तसदृशो नारीणां मदनोपमः | जपकालो भवेत्तस्य सर्वकालो न संशयः | अथ वक्ष्यामि निर्वाणं शृणुष्वावहितानघे ! | प्रणवं पूर्वमुच्चार्य मातृकाद्यं समुद्धरेत् | ततो मूलं महेशानि ! ततो वाग्भवमुद्धरेत् | मातृकास्तु समस्तास्तु पुनः प्रणवमुद्धरेत् | एवं पुटितमूलन्तु प्रजपेन्मणिपूरके | एवं निर्वाणं महेशानि ! यो न जानाति पामरः | कल्पकोटिसहस्रेण तस्य सिद्धिर्न जायते || अथ मुखशोधनम् || पञ्चमपटले || ईश्वर उवाच || अपरैकं प्रवक्ष्यामि म्त्खशोधनमुत्तमम् | प्. ४२३) यत्र कृत्वा महादेवि ! जपपूजा वृथा भवेत् | अशुद्धजिह्वया देवि ! यो जपेत् स तु पापकृत् | तस्मात् सर्वप्रयत्नेन जिह्वाशोधनमाचरेत् | महात्रिपुरसुन्दर्या मुखस्य शोधनं शुभे ! | श्रीबीजं प्रणवो लक्ष्मीस्तारः श्रीप्रणवस्तथा | इमं षडक्षरं मन्त्रं सुन्दर्या दशधा जपेत् | शृणु सुन्दरि ! श्यामाया मुखशोधनमुत्तमम् | निजबीजत्रयं देवि ! प्रणवत्रितयं पुनः | कामत्रयं वह्निबिन्दुरतिचन्द्रयुतं पृथक् | एषा नवाक्षरी विद्या मुखशोधनकारिणी | तारायाः शृणु चार्वङ्गि ! अपूर्वमुखशोधनम् | जीवनं मध्यमं लज्जां भुवनेशीं ततः प्रिये ! | त्र्यक्षरीयं महाविद्या विज्ञेयाऽमृतवर्षिणी | दुर्गायाः शृणु चार्वङ्गि ! मुखशोधनमुत्तमम् | द्वादशस्वरमुद्धृत्य बिन्दुयुक्तं त्रयं तथा | अपरैकं प्रवक्ष्यामि बगलामुखशोधनम् | वाग्भवं भुवनेशीञ्च वाग्बीजं सुरवन्दिते ! | मातङ्ग्याः शोधनं देवि ! अङ्कुशं वाग्भवं तथा | बीजञ्चाङ्कुशमेतद्धि विज्ञेयं त्र्यक्षरीयकम् | लक्ष्म्याश्च शोधनं देवि ! श्रीबीजं कमलानने ! | दुर्गायाः शोधनं माया वाग्बीजपुटिता भवेत् | दुर्गे ! स्वाहापुनर्माया वाग्बीजञ्च पुनश्च वाक् | प्रणवं दान्तमुद्धृत्य वामकर्णविभूषितम् | पुनः प्रणवमुद्धृत्य धनदामुखशोधनम् | एवं मन्त्रं महेशानि ! धूमावत्या भवेदपि || प्रणवो बिन्दुमान् देवि ! पञ्चान्तको गणेशितुः | वेदादिगगनं वह्निमनुयुग्मन्तु चन्द्रवत् | द्व्यक्षरं परमेशानि ! विष्णोश्च मुखशोधनम् | अन्यासां प्रणवं देवि ! बालादीनां प्रकीर्तितम् | स्त्रीणाञ्च शूद्रतुल्यं हि मुखशोधनमीरितम् | मुखशोधनमात्रेण जिह्वाऽमृतमयी भवेत् | अन्यथा मुखविड्युक्ता जिह्वा भवति सर्वदा | भक्षणैर्दूषिता जिह्वा मिथ्यावाक्येन दूषिता | कलहैर्दूषिता जिह्वा तत्कथं प्रजपेन्मनुम् | तच्छोधनमनाचर्य न जपेत् पामरः क्वचित् | प्. ४२४) शैवशाक्तवैष्णवादेः सर्वस्यावश्यमेव वा | अन्यथा प्रजपेन्मन्त्रं मोहेन यदि भाविनि ! | सर्वं तस्य वृथा देवि ! मन्त्रसिद्धिर्न जायते | अन्ते नरकवासी च भवेत् सोऽपि न चान्यथा | देवो यदि जपेन्मन्त्रमकृत्वा मुखशोधनम् | पतनं तस्य देवेशि ! किं पुनर्मर्त्यवासिनाम् || षष्ठपटले || ईश्वर उवाच || अथ वक्ष्यामि देवेशि ! प्राणयोगं शृणुष्व मे | विना प्राणं यथा देहः सर्वकर्मसु न क्षमः | विना प्राणं तथा मन्त्रः पुरश्चर्याशतैरपि | मायया पुटितो मन्त्रः सप्तधा जपतः पुनः | सप्राणो जायते देवि ! सर्वत्रायं विधिः स्मृतः | तथैवं दीपनं वक्ष्ये सर्वमन्त्रे च भाविनि ! | अन्धकारे गृहे यद्वन्न किञ्चित् प्रतिभासते | दीपनीरहितो मन्त्रस्तथैव परिकीर्तितः | वेदादिपुटितं मन्त्रं सप्तवारं जपेत् पुनः | दीपनीयं समाख्याता सर्वत्र परमेश्वरि ! | वेदादिपुटितं कृत्वा प्रयत्नेन सुरेश्वरि ! | दशधा प्रजपेन्मन्त्रं सूतकद्वयमुक्तये | अथोच्यते जपस्यात्र क्रमश्च परमाद्भुतः | यं कृत्वा सिद्धसङ्घानामधिपो जायते नरः | नतिर्गुर्वादिनामादौ ततो मन्त्रशिखां भजेत् | ततोऽपि मन्त्रचैतन्यं मन्त्रार्थभावना ततः | गुरुध्यानं शिरःपद्मे हृदीष्टध्यानमाहरन् | कुल्लुकाञ्च ततः सेतुं महासेतुमनन्तरम् | निर्वाणञ्च ततो देवि ! योनिमुद्राविभावना | अङ्गन्यासं प्राणायामं जिह्वाशोधनमेव च | प्राणयोगं दीपनीञ्च अशौचभङ्गमेवं च | भ्रूमध्ये वा नसोरग्रे द्रष्टिसेतुं जपं पुनः | सेतुमशौचभङ्गञ्च प्राणायाममिति क्रमाः || चतुर्थपटले || कुल्लुकां मूर्द्ध्नि सञ्जप्य हृदि सेतुं विचिन्तयेत् | महासेतुं विशुद्धौ च कण्ठदेशे समुद्धरेत् | मणिपूरे तु निर्वाणं महाकुण्डलिनीमधः | स्वाधिष्ठाने कामबीजं राकिणीमूर्द्ध्निसंस्थितम् | विचिन्त्य विधिवद्देवि ! मूलाधारान्तिकां शिवे ! | विशुद्धान्तं स्मरेद्देवि ! विसतन्तुतनीयसीम् | वेदिस्थानं हि जीवान्तं मूलमन्त्रावृतं मुहुः || प्. ४२५) अन्यस्तु बीजचिन्तामण्यादावनुसन्धेयोऽत्र ग्रन्थगौरवभिया न लिखितः || पुरश्चरणन्तु तन्त्रसारकारेणैव धृतम् | पुरश्चरणविशेषो लिख्यते | कङ्कालमालिनीतन्त्रे || अथवान्यप्रकारेण पुरश्चरणमुच्यते | अष्टम्याञ्च चतुर्दश्यां नवम्यां वीरवन्दिते ! | सूर्योदयं समारभ्य यावत् सूर्योदयान्तरम् | तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् | अथवान्यप्रकारेण पुरश्चरणमुच्यते | अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि | अस्तमारभ्य सूर्यस्य यावत् सूर्यास्तमं भवेत् | तावज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् | अथवा विजनस्थश्च अस्थिशययासमश्च वा | उदयास्तं दिवा जप्त्वा सर्वसिद्धीश्वरो भवेत् | तेनासने च वा देवि ! अस्तमारभ्य भास्वतः | जपित्वोदयपर्यन्तं सर्वसिद्धीश्वरो भवेत् | अथवान्यप्रकारेण पुरश्चरणमुच्यते | सूर्योदयात् समारभ्य घटिकादशकं क्रमात् | ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने | वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः | वसन्तश्चापि पूर्वाह्णे ग्रीष्मो मध्याह्न उच्यते | अपराह्णः प्राविषः स्युः प्रदोषः शरदः स्मृतः | अर्द्धरात्रे च हेमन्तः शेषे च शिशिरं स्मृतम् | सूर्योदयात् समारभ्य वसन्तान्तं समाहितः | तावज्जपेन्महेशानि ! पुरश्चर्या हि सिध्यति | ततः पूजादिकं कृत्वा शक्तियुक्तश्च साधकः | गुरवे दक्षिणां दत्त्वा सर्वसिद्धीश्वरो भवेत् || अथवान्यप्रकारेण पुरश्चरणमुच्यते | ग्रीष्मादिषु महेशानि षडृतुषु च साधकः | पृथग्जप्त्वा वरारोहे ! पुरश्चर्या हि सिध्यति | पूर्वोक्तविधिना सर्वं कर्तव्यं वीरवन्दिते ! | ऋतौ जप्त्वा तु ऋत्वन्ते शक्तितः पूजयेच्छिवाम् | एवमाचर्य कृत्यं वै धनानामीश्वरो भवेत् || अथ वारपुरश्चरणं स्वतन्त्रतन्त्रे || रविवारादिसर्वेषु वारसंख्यसहस्रकम् | जप्त्वा मन्त्रं सदा देवि ! साधकः सिद्धिभाग्भवेत् | प्. ४२६) पुरश्चरणमेतद्धि नात्र कार्या विचारणा | एवंविधं समाचर्य दशांशन्तु तदाचरेत् | गुरवे दक्षिणां दत्त्वा सर्वकाममवाप्नुयात् || अथ तिथिपुरश्चरणं तत्रैव || प्रतिपत्तिथिमारभ्य कुहुर्यावद्भवेत् प्रिये ! | तिखिसंख्याक्रमेणैव वर्द्धयेच्च सहस्रकम् | एवं जप्त्वा तदा मन्त्री सर्वकाममवाप्नुयात् | पुरश्चरणमेतद्धि कथितञ्च वरानने ! | प्रतिपत्तिथिमारभ्य राका यावद्भवेत् प्रिये! | तावन्मन्त्रं प्रजातितिथिसंख्याक्रमेण तु | सर्वभावसमायुक्तो जायते भुवि साधकः | एतेनैव समृद्धिः स्यान्नात्र कार्या विचारणा || अथ मासनियतकार्यम् || अद्येत्यादिवैशाखे कार्तिके माघे वा मासि अमुकराशिस्थे भास्करे अमुकपक्षेऽमुकतिथावारभ्य अमुकगोत्रः श्रीअमुकदेवशर्मा अमुकदेवताया अमुकमन्त्रसिद्धिकामोऽमुकसंक्रान्त्यामारभ्य मेषतुलामकरस्थरविं यावत् प्रत्यहममुकदेवताया अमुकमन्त्रसहस्रसंख्यकजपमेषादावनन्तरतद्दशांशहोम- तद्दशांशतर्पणतद्दशांसाभिषेकतद्दशांश- ब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये इति सङ्कल्प्य मासं व्याप्य हविष्यान्नभुक् नियमस्थः प्रत्यहं सहस्रकृत्वो जपेत् || ततः सौरज्यैष्ठसौरमार्गशीर्षसौरफाल्गुनप्रथमदिनेषु होमादिकं कृत्वा दक्षिणां कुर्यात् यथा | अद्येत्यादि कृतैतत् अमुके मासि अमुकराशिस्थे भास्करे अमुके पक्षे अमुकतिथौ अमुकगोत्रः श्री-अमुकदेवशर्मा अमुकराशिस्थरविकालीनामुकदेवताया अमुकमन्त्र इयत्संख्यकजपतद्दशांशहोमतद्दशांश- तर्पणतद्दशांशाभिषेकतद्दशांश-ब्राह्मणभोजनरूपपुरश्चरणकर्मणः साङ्गतार्थं दक्षिणामिदं काञ्चनं वह्निदैवतम् अमुकगोत्राय श्रीअमुकदेवशर्मणे गुरवे तुभ्यमहं सम्प्रददे | ततोऽच्छिद्राववारणं कुर्यात् || अथ वारादिपुरश्चरणसङ्क्ल्पमाह || अद्येत्यादि अमुके मासि प्. ४२७) अमुकराशिस्थे भास्करे अमुके पक्षे अमुकतिथावारभ्य अमुकगोत्रः श्री- अमुकदेवशर्मा अमुकदेवताया अमुकमन्त्रसिद्धिकामः रविवारादिसर्ववारेषु अमुकदेवताया अमुकमन्त्रस्य वारसंख्यकसहस्रजपरूपपुरश्चरणमहं करिष्ये | इति सङ्कल्पयेत् | ततः शेषदिने तत्परदिने वा अद्येत्यादि कृतैतत् अमुकदेवताया अमुकमन्त्रस्य रविवाराद्यधिकरणकवारसंख्यकसहस्रजप- तद्दशांशहोमतद्दशांशतर्पणतद्दशांशाभिषेकतद्द- शांशब्राह्मणभोजनकर्माण्यहं करिष्ये | ततो दक्षिणा | अद्येत्यादि कृतैतत् रविवाराद्यधिकरणकवारसंख्यक- सहस्रजपतद्दशांशहोमतद्दशांशतर्पणतद्दशांशाभि- षेकतद्दशांशब्राह्मणभोजनरूपपुरश्चरणकर्मणः साङ्गतार्थं दक्षिणामिदमित्यादि || तिथिपुरश्चरणे सर्वेमेवं सर्वत्र वारशब्दस्थाने तिथिशब्दप्रयोगः | अथ ऋतुपुर्श्चरणसङ्कल्पः || अद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्मा अमुकदेवताया अमुकमन्त्रसिद्धिकामः सूर्योदयं समारभ्य वसन्तान्तं यावत् अमुकदेवताया अमुकमन्त्रस्य जपरूपपुरश्चरणमहं करिष्ये || अन्यत्र ग्रीष्म-ऋतुव्यापकजपरूपपुरश्चरणमहं करिष्ये एवं सर्वत्र || जपान्ते पूजां कृत्वा दक्षिणां कुर्यद् यथा | अद्येत्यादि अमुकदेवताया अमुकमन्त्रस्य वसन्त-ऋतुव्यापकजपरूपपुरश्चरणकर्मणः साङ्गतार्थं दक्षिणामिदमित्यादि | एवं सर्वत्र || तर्पणाभिषेकप्रयोगो यथा | आचम्य सामान्यार्घ्यं कृत्वा आसनशुद्धिं कृत्वा प्राणायामं ऋष्यादिन्यासकराङ्गन्यासौ च कृत्वा ध्यात्वा मानसैः सम्पूज्य पुनर्ध्यात्वा जले देवं समावाह्य इदमुदकात्मकं पाद्यम् अमुकदेवतायै नमः | इदमुदकात्मकमर्घ्यम् | इत्यनेन उदकात्मकैरुपचारैः सम्पूज्य सन्ध्योक्तविधिना परिवारान् सन्तर्प्य मूलमुच्चार्य अमुकदेवतां तर्पयामि नमः | इत्यनेन सन्तर्प्य आत्मानं देवतारूपं ध्यात्वा नमोऽन्तमूलमुच्चार्य अमुकदेवतामहमभिषिञ्चामि इति कुम्भमुद्रया मूर्द्धानमभिषिच्य संहारमुद्रया देवतां विसर्जयेत् || प्. ४२८) अथ श्रीदुर्गाया रहस्यपुरश्चरणं स्वतन्त्रतन्त्रे || श्रीपार्वत्युवाच || कथयस्व महादेव ! सिद्धिकारणमुत्तमम् | येन सिद्धिं समयान्ति सर्वे मन्त्राश्च सिद्धिदाः | येषु येषु च कालेषु पुरश्चरणं भवेद्ध्रुवम् || शिव उवाच || कथयामि समासेन श्रूयतां पर्वतात्मजे ! | मेषे दशसहस्रञ्च प्रजपेन्मन्त्रमुत्तमम् | पुरश्चरणमेतद्धि जायते हरवल्लभे ! | वृषराशौ यदा मन्त्रमयुतं प्रजपेत् सुधीः | तेन तत्र सुसिद्धिः स्यान्नात्र कार्या विचारणा | मिथुने च तथा मन्त्री अयुतं मन्त्रमुत्तमम् | प्रजपेत् प्रयतो नित्यं पुरश्चरणमुच्यते | कर्कटे च यदा मन्त्री सहस्रं प्रत्यहं जपेत् | तेन सर्वार्थसिद्धिः स्यात् पुरश्चरणकृद्भवेत् | सिंहे च सर्वमन्त्राणामयुतानां द्वयं जपेत् | धर्मार्थकाममोक्षाणां फलभाग् भवति ध्रुवम् | कन्यायाञ्च यदा मन्त्री मन्त्रं मन्त्रपरायणः | सहस्रद्वादशञ्चैव जपेन्नियतमानसः | पुरश्चरणमेतद्धि सर्वकामार्थसाधनम् | इह लोके सुखं भुक्त्वा चान्ते देवीपुरं व्रजेत् | तुलायां प्रत्यहं मन्त्री सहस्रं साधको जपेत् | अनेन विधिना देवि ! पुरश्चरणकृद्भवेत् | वृश्चिके चायुतं मन्त्रं शययायां प्रजपेत् सुधीः | तेन सर्वार्थसिद्धिः स्यात् पुरश्चर्याफलं लभेत् | धनुषि च यदा मन्त्रं जपेदयुतमादरात् | इहैव कन्दर्पसमो धनवान् बलवान् सुखी | मकरे च यदा मन्त्रं जपेत् साधकसत्तमः | अयुतानि च चत्वारि प्रत्यहं यतमानसः | धमार्थं भावयेन्नित्यं पुरश्चरणमुच्यते | कुम्भे चैव यदा मन्त्रं जपेदयुतमादरात् | तेन सर्वार्थसिद्धिः स्यात् पुरश्चरणकृद्भवेत् | मीने चैव यदा देवि ! प्रजपेदयुतद्वयम् | पुरश्चरणमित्याहुः सर्वागमविशारदाः | सर्वत्रजपनं कार्यं रात्रौ वा मैथुनेऽपि वा | प्. ४२९) शययायाञ्च विशेषेण परयोषित्समागमे | हविष्याशी तदा देवि ! जपेन्नियतमानसः | एवंविधं जपं कृत्वा दशांशञ्च तदाचरेत् | दक्षिणां गुरवे दत्त्वा सिद्धिभाग्भवति ध्रुवम् | येषु येषु नक्षत्रेषु जायते सिद्धिरुत्तमा | कथयामि समासेन श्रूयतां पर्वतात्मजे ! | अश्विन्यां प्रजपेन्मन्त्रं साधकश्च सहस्रकम् | तेनास्मिन् सिद्धिमाप्नोति साधको नात्र संशयः | द्विसहस्रं यदा मन्त्रं भरण्याञ्च जपेत् सुधीः | यमलोकं परित्यज्य धनेन च धनाधिपः | कृत्तिकायां जपेन्मन्त्रं द्विसहस्रञ्च साधकः | रोहिण्याञ्च यदा मन्त्रं जपेत् साधकसत्तमः | सहस्रं वा शतं वापि सर्वकाममवाप्नुयात् | मृगशीर्षे यदा मन्त्रं नियतं प्रजपेत् सुधीः | सहस्रपञ्चकञ्चैव वृहस्पतिसमो भवेत् | आर्द्रायां जप्यते मन्त्रं साधकैः सुसमाहितैः | षट्सहस्रं यदा देवि ! सर्वकामार्थसिद्धये | पुनर्वसुसमायोगे सहस्रं मन्त्रमुत्तमम् | जपनात् साधको नित्यं लभते च सुरोत्तमम् | पुण्यायाञ्च जपेन्मन्त्रं सप्तानाञ्च सहस्रकम् | तेन सर्वसुसिद्धिः स्यात् पुरश्चर्याधिको विधिः | अश्लेषायां यदा मन्त्रं मन्त्री देवि ! समाहितः | सहस्रषट्ककञ्चैव जपेत् सर्वार्थसिद्धये | दशसहस्रं मघायाञ्च जप्त्वा मन्त्रं समाहितः | पुरन्दरसमो भूत्वा साधको विचरेद्भुवि | एकादशसहस्रन्तु पूर्वात्रये जपेत् सुधीः | कुबेर इव वित्ताढ्यो जायते साधको भुवि | उत्तरात्रितये देवि ! सहस्रद्वादशं तथा | जप्यते साधकैर्नित्यं सर्वकामार्थसिद्धये | हस्तायाञ्च जपेद्देवि ! त्रयोदशसहस्रकम् | सूर्यस्वेव समो भूत्वा विचारेद्भुवि साधकः | चित्रायाञ्च जपेन्मन्त्रं द्विसहस्रञ्च साधकः | नानाभोगसमायुक्तो भवेद्भुवि पुरन्दरः | स्वात्यां सर्वार्थसिद्धिः स्यद्विसहस्रस्य जापनात् | साधकोऽव्याहतगतिर्जायते नात्र संशयः | विशाखायां यदा मन्त्रं चतुःसाहस्रकं प्रिये ! | प्. ४३०) जपेच्च साधको नित्यं सोमवत् प्रियदर्शनः | अनुराधायां यदा देवि ! मन्त्री मन्त्रं सदा जपेत् | पुत्रपौत्रसमायुक्तः खेचरो जायते ध्रुवम् | ज्येष्ठायाञ्च यदा मन्त्रं द्विसहस्रं विचक्षणः | जपनाल्लभते सिद्धिं नात्र कार्या विचारणा | मूलायाञ्च जपेन्मन्त्रं सहस्रपञ्चकं प्रिये ! | नानासिद्धिमवाप्नोति साधको नात्र संशयः | श्रवणायां यदा मन्त्रं द्विसहस्रं जपेत् सुधीः | अष्टसिद्धिर्भवेत्तस्य नात्र वै संशयः प्रिये ! | धनिष्ठायां जपेन्मन्त्रं द्विसहस्रं समाहितः | वरुणेन समो भूत्वा जायते साधको भुवि | शतभिषायां यदा मन्त्रं द्विसहस्रं जपेत् सुधीः | स महापातकान्मुच्येत् फलभाग्भवति ध्रुवम् | रेवत्याञ्च महामन्त्रं चतुःसाहस्रकं तथा | जप्त्वा स्तुत्वा सदा देवि ! सोमलोकमाप्नुयात् | रात्रौ वा मैथुने वापि शययायाञ्च व्यवस्थितः | प्रजपेत् साधको नित्यं साधयेदात्मनो हितम् | सर्वदा प्रजपेन्मन्त्रं हविष्याशी दिवा शुचिः | दक्षिणां गुरवे दद्याद्यथाविभवविस्तरम् | अथवान्यप्रकारेण पुरश्चरणमुच्यते | ववादिकरणेनैव पुरश्चरणमुच्यते | विष्कुम्भादिषु योगेषु यो जपेद्योगसंख्यया | सहस्रं साधको नित्यं सर्वसिद्धिपरायणः | पुरश्चरणमेतद्धि तन्त्रे तन्त्रे निरूपितम् | संक्रान्तिषु च सर्वासु विषुवादिषु पार्वति ! | संक्रान्तेरनुसारेण वर्द्धयेच्च सहस्रकम् | पूर्वमुखो जपेन्मन्त्रं धनार्थी सर्वदा प्रिये ! | शत्रुनाशाय सततं प्रजपेत् पश्चिमामुखः | लोकानां वश्यहेत्वर्थं मुक्त्यर्थं वा यदा प्रिये ! | उत्तराभिमुखो भूत्वा जपेन्मन्त्रं समाहितः | शत्रुनाशाय सततं दक्षिणाभिमुखो जपेत् || इति हरगौरीसंवादे रहस्यपुरश्चरणम् || अथ ग्रहणपुरश्चरणम् || ग्रहणन्तु चक्षुषा राहोर्दर्शनम् | स तु चण्डालस्वरूप इति किंवदन्ती | तस्य दर्शनं कथं पुण्यजनकमिति सन्देहे मातृकाभेदतन्त्रे षष्ठपटले || प्. ४३१) चण्डिकोवाच || राहुश्चाण्डालविख्यातः सर्वत्र परमेश्वर ! | पुण्यं कालं कथं देव ! तस्य स्पर्शे दिवाकरे | निशाकरे तथा नाथ ! चेति मे संशयो हृदि | कथयस्व परानन्द ! पश्चादन्यं प्रकाशय || श्रीशङ्कर उवाच || शृणु सर्वाङ्गसुभगे ! ग्रहण~चोत्तमोत्तमम् | ग्रहणं त्रिविधं देवि ! चन्द्रसूर्याग्निसंयुतम् | सक्तेर्ललाटे नेत्रे च वह्निस्तिष्ठति सर्वदा | वामनेत्रे तथा चन्द्रो दक्षे सूर्यः प्रतिष्ठितः | शम्भुनाथेन देवेशि ! रमणं क्रियते यदि | तदैव ग्रहणं देवि ! शक्तियुक्तः सदाशिवः | वामनेत्रे चुम्बिते च शशाङ्कग्रहणं तदा | दक्षनेत्रे चुम्बिते च भास्करग्रहणं तथा | ललाटे चुम्बिते चाग्निग्रहणं परमेश्वरि ! | शिववीर्यं यतो वह्निरतो दृश्यः सुरेश्वरि ! | राहुः शिवः समाख्यातस्त्रिगुणा शक्तिरीरिता | शिवशक्त्योः समायोगाद् ग्रहणं परमेश्वरि ! | शिवशक्त्योः समायोगकालो ब्रह्ममयः प्रिये ! | अत एव महेशानि ! राश्यादीन् न विचारयेत् | तिथीनक्षत्रयोगे तु यद्योगं परमेश्वरि ! | तदैव परमेशानि ! राश्यादिगणनं चरेत् | शिवशक्तिसमायोगात् सर्वं ब्रह्ममयं जगत् | मासपक्षतिथीनाञ्च नोच्चार्यं परमेश्वरि ! | दृष्टिमात्रेण जप्तव्यं तदा सिद्धो भवेद् ध्रुवम् | तत्कालं परमं कालं विज्ञेयं वीरवन्दिते ! | तत्र यद् यत् कृतं सर्वं बहु किं कथ्यतेऽधुना | एतत् सुगुप्तभेदं हि तव स्नेहात् प्रकाशितम् | न वक्तव्यं पशोरग्रे प्राणान्तेऽपि सुरेश्वरि ! || अत्रानन्तफलकीर्तनात् जपदशांशहोमादिकमपि न कर्तव्यम् || तदुक्तं गायत्रीतन्त्रे प्रथमब्राह्मणपरिच्छेदे || चन्द्रसूर्योपरागे च जप्त्वा ब्रह्ममयो भवेत् | मन्त्रस्य परमेशानि ! न च होमादिकञ्चरेत् | कृते होमादिके भद्रे ! तज्जपं विफलं भवेत् | जपमात्रे महेशानि ! अनन्ततन्मनुर्यथा | अनन्तस्य महेशानि ! दशांशं केन जायते || प्. ४३२) शाक्तानन्दतरङ्गिणीद्वादशोल्लासधृतबीजार्णवतन्त्रीय-षोडशपटले || एकदा परमेशानि ! कामाख्यायां महेश्वरि !| दृष्ट्वोपरागं यत्कार्यं तच्छृणुष्व वरानने ! | कुतः स्नानं कुतः सन्ध्या प्राणायामः कुतः प्रिये ! | भूतशुद्धिः कुतो भद्रे ! कुतः पूजा वरानने !| कालातीतभयाद्देवि ! सर्वं सन्त्यज्य कामिनि ! | सङ्कल्पं मानसं कृत्वा जपं कृत्वा वरानने ! | पञ्चाङ्गैस्तु विहीनोऽपि सिद्धो भवति नान्यथा | मन्त्रं विद्या महेशानि ! कवचं स्तवमेव वा | ध्यानं वा परमेशानि ! न्यासं वा कमलेक्षणे ! | एकोच्चारेण गिरिजे ! तद्भवेद्दशकोटयः | असंख्यं तज्जपं देवि ! ग्रहणे चन्द्रसूर्ययोः | तत्कथं परमेशानि ! क्रियते जपसंख्यकम् | अत एव महेशानि ! होमो नास्ति शुचिस्मिते ! | अभिषेकञ्च देवेशि ! तथा तर्पणमेव च | भोजनञ्च महेशानि ! नास्त्यत्र कमलानने ! | चन्द्रसूर्यग्रहे देवि ! पञ्चाङ्गं नास्ति कामिनि ! | पञ्चाङ्गेन विहीनोऽपि सिद्धो भवति नान्यथा | सङ्कल्पं विधिवद्देवि ! मानसं यदुपस्थितम् | तत्सङ्कल्पं विजानीयाद्ग्रहणे चन्द्रसूर्ययोः | तस्मात्तु चपलापाङ्गि ! सङ्कल्पं नैव कारयेत् | सङ्कल्पं मानसं देवि चतुर्वर्गफलप्रदम् | ततो हि मानसं देवि ! मुख्यं सङ्कल्पमीरितम् | व्यर्थं हि स्थूलसङ्कल्पं ग्रहणे परिकीर्तितम् | सङ्कल्पेन विना देवि ! यत्किञ्चित् कुरुते नरः | व्यर्थमेव हि तत् सर्वं तस्मात्तन्मानसं परम् | प्रथमे प्रहरे देवि ! चन्द्रग्रासं यदा भवेत् || तदैव दिवसे भुक्त्वा सत्वरं नरकं व्रजेत् | निशीथे तु यदा देवि ! ग्रसेच्चन्द्रं यद तमः | तदैव दिवसे भुक्त्वा पीत्वानन्दमयो भवेत् | चन्द्रग्रहणकालेतु जपयज्ञादिकञ्चरेत् | रात्रौ भुक्त्वा च पीत्वा च जपयज्ञादिकं चरेत् | सर्वेषु विष्णुमन्त्रेषु सौरे गाणपते तथा | शक्तिमन्त्रे महेशानि ! प्रशस्तं सततं जप्म् | प्. ४३३) इति बीजार्णवे तन्त्रे शिवेन परिकीर्तितम् | एतत् कल्पं ज्ञानिनान्त्वज्ञानिनामपि चोच्यते || गान्धर्वे || अथवान्यप्रकारेण पुरश्चरणमुच्यते | ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः | नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः | ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः | दृष्ट्वा स्नात्वा सुसङ्कल्पो विमोक्षान्तं जपञ्चरेत् || जपस्य तु दशांशेन होमं कुर्याद् यथाविधि | होमार्थं तद् द्विगुणं जपेन्मन्त्रं समाहितः || होमस्य तु दशांशश्च तर्पणं समुपाचरेत् | अभिषेकदशांशेन ब्राह्मणान् भोजयेत्ततः | तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः | गुरवे दक्षिणां दत्त्वा भक्त्या विप्रांश्च तर्पयेत् || कालीतन्त्रे || अथवान्यप्रकारेण पुरश्चरणमिष्यते | चन्द्रसूर्यग्रहे चैव ग्रासावधिविमुक्तितः | यावत्संख्यं मनुं जप्त्वा तावद्धोमादिकं चरेत् | जामले || अपि शुद्धोदके स्नात्वा शुचौ देशे समाहितः | ग्रासाद्विमुक्तिपर्यन्तं जपेन्मन्त्रमनन्यधीः | एवं जप्त्वाप्यसन्दिग्धो जपस्य फलभाग्भवेत् || ग्रहणपूर्वाहे उपवासाशक्तस्य फलदुग्धादिभोजनाप्रामाण्यात् वरं हरिष्याचरणं शास्त्रं निमित्तानिश्चये तस्याङ्गत्वाभावादुपवासं विनैव पुरश्चरणमित् गुरवः | अत्र श्राद्धमकुर्वाणः पङ्के गौरवसीदतीति निन्दाश्रवणमुपदिष्टविषयम् | उपदिष्टस्य तु जपस्यावश्यकत्वं वैधहिंसावदिति मान्याः | सनत्कुमारीये | श्राद्धादेरनुरोधेन यदि जापं त्यजेन्नरः | स भवेद्देवताद्रोही पितॄन् सप्त नयत्यध इत्यारब्धपुरश्चरणविषयम् | त्यजेदिति श्रवणात् || अथ मालाप्रकरणम् || नित्यातन्त्रे नवमपटले || ईश्वर उवाच | अक्षमालां समाश्रित्य मातृकावर्णरूपिणीम् | अथ मुक्ताफलमयी भोगमोक्षप्रदायिनी | राजवश्यकरी सर्वसिद्धिदा नात्र संशयः | यथा मुक्ताफलमयी तथा स्फटिकनिर्मिता | प्. ४३४) रुद्राक्षमाला गिरिजे ! मोक्षदा च समृद्धिदा | प्रबालघटिता माला वश्यदा कर्मसाधिनी | माणिक्यरचिता माला साम्राज्यफलदायिनी | पुत्त्रञ्जीवकमाला तु विद्यालक्ष्मीप्रदायिनी | पद्मबीजाक्षमाला तु महालक्ष्मीप्रदायिनी | रक्तचन्दनबीजाक्षमाला वश्यफलप्रदा || मुण्डमालातन्त्रे द्वितीयपटले | स्फाटिकैर्मोक्षलाभः स्यात् रुद्राक्षैर्बहुपुत्रदा | जीवपुत्त्रैश्च धन्दा पाषाणैर्भोगमोक्षदा | शुद्धस्फटिकमाला तु महासम्पत्प्रदा प्रिये ! | श्मशानधूस्तुरैर्माला एका धूमावतीविधौ | तथा | मणिरत्नप्रबालैश्च हेमराजतसम्भवा | माला कार्या कुशग्रन्थ्या सर्वभोगफलप्रदा | समयाचारतन्त्रे द्वितीयपटले || पूर्वाम्नायादि सर्वेषां मालां शृणु यथाक्रमम् | जप्त्वा येनाशु लभते फलं देवैश्च दुर्लभम् | अक्षमाला प्रथमतो मातृकार्णस्वरूपिणी | अथ मुक्तामयी माला रतिमोक्षफलप्रदा | सर्वसिद्धिकरी माला सर्वराजवशङ्करी | प्रबालमाला वश्यार्थं सर्वकार्यफलप्रदा | माणिक्यरचिता माला साम्राज्यफलदायिनी | पुत्रञ्जीवकमाला सा लक्ष्मीविद्याप्रदायिनी | पद्माक्षरचिता माला यशोलक्ष्मीप्रदा सदा | सुवर्णरचिता माला स्फाटिकी सर्वकामदा | रक्तचन्द्रनमाला च भोगदा मोक्षदा भवेत् | रुद्राक्षरचिता माला सर्वकामफलप्रदा | सर्वमालां प्रपूज्याथ चन्दनेन विलेपिताम् | समाश्रित्य जपेन्नित्यं यथोक्तफलमाप्नुयात् | एता मालाश्च सुभगे ! पञ्चाम्नायेषु पूजिताः || मुण्डमालातन्त्रे || देव्युवाच || अक्षमाला तु कथिता यत्नतो न प्रकाशिता | अक्षमालेति किं नाम फलं वा किं वदस्व मे || ईश्वर उवाच अक्षमाला तु देवेशि ! काम्यभेदादनेकधा | भवन्ति शृणु तत्प्राज्ञे ! विस्तरादुच्यते मया | अनुलोमविलोमेन कॢप्तया वर्णमालया | आदिलान्तलादि आन्त क्रमेण परमेश्वरि ! | क्षकारं मेरुरूपञ्च लङ्घयेन्न कदाचन | मेरुलङ्घनदोषस्तु तत्रैव || प्. ४३५) मेरुहीना च या माला मेरुजङ्घा च या भवेत् | अशुद्धा प्रतिकाशा च सा माला निष्फला भवेत् | चित्रिणी विसतन्त्वाभा ब्रह्मनाडीगतान्तरा | तया संग्रथिआ माला सर्वकामफलप्रदा | अष्टोत्तरशतं जप्त्वा आदिक्लीवं समाचरेत् | ऋ ॠ ऌ ॡ द्वयं यत्तु तद्धि क्लीवं प्रचक्षते | वर्गाणामष्टभिर्वापि काम्यभेदात् क्रमेण तु | अकचटतपयशा अष्टौ वर्गाः प्रकीर्तिताः || मालया जपविशेषेण फलविशेषस्तु नित्यातन्त्रे || अक्षमालां प्रपूज्याथ चन्दनेन सुलोचने ! | समाश्रित्य जपेद्विद्वान् लक्षमात्रमनन्यधीः | योषितः सकला वश्याः सप्तद्वीपस्य पार्वति ! | ततो द्वितीयलक्षञ्च प्रजपेद्वीरवन्दिते ! | पातालतलनागेन्द्रकन्या वश्या भवन्ति हि | ततो लक्षत्रयं भद्रे ! प्रजपेत् साधकोत्तमः | देवाङ्गना भवन्त्येव वश्यास्तस्य महेश्वरि ! | महापातककोटिश्च नाशयेत् कमलेक्षणे ! | अभिमानेन सौभाग्यं सौख्यं सौन्दर्यमाप्नुयात् | चतुर्लक्षं प्रजप्याथ महायोगीश्वरो भवेत् | पञ्चलक्षजपाद्देवि ! कुबेरपदवीं व्रजेत् | षड्लक्षजपमात्रेण सर्वविद्यासु कोविदः | सप्तलक्षजपाद्देवि ! खेचरो भवति ध्रुवम् | अष्टलक्षं प्रजप्याथ देवपूज्यो भवेन्नरः | अणिमाद्यष्टसिद्धीनां नायको नात्र संशयः | राजानो वशगास्तस्य योषितश्च विशेषतः | नवलक्षं महादेवि ! यो जपेत् साधकोत्तमः | रुद्रमूर्तिः स्वयं साक्षात् कर्ता हर्ता न संशयः || समयाचारतन्त्रे || उत्तराम्नायेषु या माला भूयः शृणु वदामि ते | अथ वर्णमयी माला सर्वोत्कृष्टा च सा मता | महाशङ्खमयी माला वाञ्छितार्थफलप्रदा | उडुम्बरफलस्याथ सूक्ष्मस्याथ कृता मता || योगिनीतन्त्रे पूर्वखण्डे द्वितीयपटले || ईश्वर उवाच || वर्णमाला शुभा प्रोक्ता सर्वमन्त्रप्रदीपनी | तस्याः प्रतिनिधिर्देवि ! महाशङ्खमयी शुभा | महाशङ्खः करे यस्य तस्य सिद्धिरदूरतः | प्. ४३६) तद्भावे वीरवन्द्ये ! स्फाटिकी सर्वसिद्धिदा || मणिभेदेन फलभेदमाह मुण्डमालातन्त्रे || त्रिंशतैश्वर्यफलदा पञ्चविंशैस्तु मोक्षदा | चतुर्दशमयी मोक्षदायिनी भोगवर्द्धिनी | दशपञ्चात्मिका देवि ! मारणोच्चाटने स्थिता | स्तम्भने मोहने वश्ये बोधने अञ्जने तनोः | पादुकासिद्धिसङ्घे च शतसंख्या प्रकीर्तिता | अष्टोत्तरशतं कुर्यादथ वा सर्वकामदम् | योगिनीतन्त्रे || मणिसंख्यां महादेवि ! मालायाः कथयामि ते | पञ्चविंशतिभिर्मोक्षं पुष्ट्यै तु सप्तविंशतिः | त्रिंशद्भिर्धनसिद्धिः स्यात् पञ्चाशन्मन्त्रसिद्धये | अष्टोत्तरशतैः सर्वसिद्धिरेव महेश्वरि ! | एतत्साधारणं प्रोक्तं विशेषं कामिनां वद || श्रीशिव उवाच || दन्तमाला जपे कार्या गले धार्या नृणां शुभे ! | दशनैर्यदि कर्तव्या संख्या दन्तस्य ते प्रिये ! | सर्वसिद्धिप्रदा माला राजदन्तेन मेरुणा | अन्यत्रापि महेशानि ! मेरुत्वेनैवमादिशेत् | नित्यं जपं करे कुर्यान्न काम्यमवरोधनात् | काम्यमपि करे कुर्यान्मालाभावे प्रियंवदे ! | अत्राङ्गुल्या जपं कुर्यात् साङ्गुष्ठाङ्गुलिभिर्जपेत् | अङ्गुलेन विना कर्म कृतं तन्निष्फलं भवेत् || उत्पत्तितन्त्रे प्रथमपटले || नित्यं नैमित्तिकं काम्यं करे कुर्याद्विचक्षणः | करमाला महादेवि ! सर्वदोषविवर्जिता | छिन्नभिन्नादिदोषोऽपि करे नास्ति कदाचन | अक्षयस्तु करो देवि ! माला भवति तादृशी ! ग्रन्थिः सा कुण्डलीशक्तिः पञ्चाशद्वर्णरूपिणी | अत एव महेशानि ! करमाला महाफला || योगिनीतन्त्रे || तथा तथातो ग्रथनं मालानां तत्र बोधनम् | पूजां विधाय भक्त्या तु शुचिः पूर्वमुपोषितः | विजने ग्रथयेन्मौनी स्वयं मालाञ्च साधकः | कृतनित्यक्रियः शुद्धः शुद्धोऽक्षेषु च मन्त्रवित् | यथाकालं यथाकाममक्षाण्यानीय यत्नतः | अन्योन्यसमरूपाणि नातिस्थूलकृशानि च | कीटादिभिरदुष्टानि न जीर्णानि नवानि च | गव्यैस्तु पञ्चभिस्तानि प्रक्षाल्य च पृथक् पृथक् | प्. ४३७) पृथ्वी देवेन्द्रपुण्यस्त्रीनिर्मितं ग्रन्थिवर्जितम् | त्रिगुणं त्रिगुणीकृत्य पट्टसूत्रमथापि वा | शुक्लं रक्तं तथा पीतं शान्तिवश्यविचारके | सूत्रं सम्पातयेद्विद्वान् तत् प्रक्षाल्य च पूर्ववत् | मालामेकैकमादाय सूत्रे सम्पातयेत् सुधीः | मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु योजयेत् | गोपुच्छसदृशी कार्याथवा सर्पाकृतिर्भवेत् | तत्सजातीयमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् | एकैकमालामध्ये तु ब्रह्मग्रन्थिं प्रकल्पयेत् || उत्पत्तितन्त्रे षष्टिपटले || क्रमोत्क्रमाच्छतावृत्त्या पञ्चाशद्वर्णमालया | यो जपः स तु विज्ञेय उत्तमः परिकीर्तितः | इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे ग्रन्थिकथनरूपः प्रथमः परिच्छेदः | अथे साधनस्थानम् || शारदायां द्वितीयपटले || पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् | तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं महत् | उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः | देवतायतनं कूलं समुद्रस्य निजं गृहम् | साधनेषु प्रशस्यन्ते स्थानान्येतानि मन्त्रिणाम् | नदीतीरं पुण्यनदीतीरं सामान्यनदीतीरस्य निषिद्धत्वात् | विविक्तानि विजनानि || राघवभट्टधृतम् | प्रत्यङ्मुखः शिवस्थाने वृषभादिविवर्जिते | अश्वत्थबिल्वतुलसीवने पुष्पान्तरावृते | गवां गोष्ठेऽश्वत्थमूले पुण्यक्षेत्रेषु शस्यते || गोष्ठ इत्यनेनैव गोस्थाने लब्धे गवामिति यदुक्तं तत् तात्कालिकगोसम्बन्धज्ञापनाय तेन गोसमीपे जपादिकर्म प्रशस्तमतएव गवां समीप इत्युक्तम् || वायवीयसंहितायाम् | यथा | सूर्यस्याग्रे गुरोरिन्दोर्दीपस्य च जलस्य च | विप्राणाञ्च गवाञ्चैव सन्निधौ शस्यते जपः | अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति | मुण्डमालातन्त्रे तृतीयपटले च || नदीतीरे बिल्वमूले श्मशाने शून्यवेश्मनि | एकलिङ्गे पर्वते वा देवागारे चतुष्पथे | प्. ४३८) शवस्योपरि मुण्डे वा जले वा कण्ठपूरिते | संग्रामभूमौ योनौ वा स्थाने वा विजने वने | यत्र कुत्र स्थले रम्ये यत्र वा स्यान्मनोलयः || वृहन्नीलतन्त्रे द्वितीयपटले || एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे | हर्म्ये वा साधयेद्देवीं सर्वाभीष्टप्रदायिनीम् | एकलिङ्गलक्षणमाह || पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते | तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा | इति श्यामारहस्यधृतेनैकलिङ्गं ज्ञातव्यम् || तथा | उज्जटे पर्वते वापि निर्जने वा चतुष्पथे | देवागारे देवशून्ये बिल्वमूले नदीतटे | स्वगृहे निर्जनेऽरण्ये तथा चाश्वत्थसन्निधौ | इत्यपि श्यामारहस्ये नित्यातन्त्रे प्रथमपटले च || एकलिङ्गे श्मशाने वा शून्यागारे नदीतटे | पातालभवने वापि गिरौ वा दीर्घिकातटे | शक्तिक्षेत्रे महापीठे बिल्वमूले शिवालये | धात्रीवृक्षतलेऽश्वत्थमूले चैव तरोस्तले || पातालभवने भूमिमध्ये || समयाचरतन्त्रे द्वितीयपटलेऽपि || जपस्थानानि देवेशि ! सिद्धपीठानि यानि च | सिद्धपीठे च शययायां खट्टाशययाविशेषतः | चतुष्पथे सिद्धलिङ्गे गुरुदेवालये तथा | वटाश्वत्थबिल्वमूले रम्भाया विपिने तथा | नदीतीरे शिवागरे गुहापर्वतमस्तके | जपस्थानानि देवेशि ! कथितानि नगात्मजे ! | शृणु देवि ! विशेषेण उत्तराम्नायहेतवे | वेश्यागृहे श्मशाने वा गत्वा मैथुनमाचरेत् | ततो जपादिकं देवि ! कृत्वा च लभते फलम् | अथवा स्वगृहे रात्रौ भक्तिमान् सुसमाचरेत् | स प्राप्नोति फलं सर्वं चिन्तादिभयवर्जितः || पुरश्चरणरसोल्लासतन्त्रे चतुर्थपटले || गोष्ठं चतुष्पथञ्चैव त्रिपथञ्च वरानने ! | निर्जनञ्च तथारण्यं शून्यगेहं तथैव च | पर्वतञ्च नदीतीरं तथैव दीर्घिकातटम् | अश्वत्थवृक्षमूले च वटवृक्षतले तथा | धात्रीवृक्षतले देवि ! तथैव वकुलस्य च | प्. ४३९) यत्र पद्मवनं भद्रे ! शुक्लं रक्तं वरानने ! | द्रोणपुष्पस्य चार्वङ्गि ! यदि भाग्येन लभ्यते | अरुणादित्यसङ्काशं जपकालं परात्परम् | स्थानविशेषे अन्नदाकल्पे द्वितीयपटले || गोशालायां पुण्यभूमौ गुरोर्गेहे विशेषतः | बिल्वमूले नदीतीरे पर्वते शिवसन्निधौ | स्वगृहे पुण्यनिलये तथा साधकमन्दिरे | श्रीदुर्गाप्रतिमास्थाने युवतीनाञ्च सन्निधौ | एवमादिषु देशेषु दीक्षाकर्म प्रशस्यते || फलविशेषस्तु राघवभट्टेनोक्तो यथा || गृहे जपः समः प्रोक्तो गोष्ठे शतगुणस्तु सः | आरामे च तथारण्ये सहस्रगुण उच्यते | अयुतः पर्वते पुण्ये नद्यां लक्षगुणस्तु सः | कोटिर्देवालये प्राहुरनन्तं शिवसन्निधौ || अथ सिद्धपीठम् || कुब्जिकातन्त्रे सप्तमपटले || शिव उवाच || श्रूयतां सावधानेन सिद्धपीठं पतिव्रते ! | यस्मिन् साधनमात्रेण सर्वसिद्धीश्वरो भवेत् | मायावती मधुपुरी काशी गोरक्षकारिणी | हिङ्गुला च महापीठं तथा जालान्धरं पुनः | ज्वालामुखी महापीठं पीठं नगरसम्भवम् | रामगिरिर्महापीठं तथा गोदावरी प्रिये | नेपालं कर्णसूत्रञ्च महाकर्णं तथा प्रिये ! | अयोध्याञ्च कुरुक्षेत्रं सिंहनादं मनोरमम् | मणिपूरं हृषीकेशं प्रयागञ्च तपोवनम् | वदरीञ्च महापीठं अम्बिका अर्द्धनालकम् | त्रिवेणी च महापीठं गङ्गासागरसङ्गमम् | नारिकेलञ्च विरजा उड्डीयानं महेश्वरि ! | कमला विमला चैव तथा माहिष्मतीपुरी | वाराही त्रिपुरा चैव वाग्मती नीलवाहिनी | गोवर्द्धनं विन्ध्यगिरिः कामरूपं कलौ युगे | घण्टाकर्णो हयग्रीवो माधवश्च सुरेश्वरि ! | क्षीरग्रामं वैद्यनाथं जानीयाद्वामलोचने ! | कामरूपं महापीठं सर्वकामफलप्रदम् | कलौ शीघ्रफलो देवि ! कामरूपे जपः स्मृतः | अन्यत्र जपेऽलिकामाख्यावस्त्रयोगेन फलमुक्तं तत्रैव || प्. ४४०) कामाख्यावस्त्रमादाय जपपूजां समाचरेत् | पूर्णकामं लभेद्देवि ! सत्यं सत्यं न संशयः || तन्त्रचूडामणौ महापीठनिरूपणं यथा | ईश्वर उवाच || मातः ! परात्परे ! देवि ! सर्वज्ञानमयीश्वरि ! | कथ्यतां मे सर्वपीठं शक्तिर्भैरवदेवता || देव्युवाच || शृणु वत्स ! प्रवक्ष्यामि दयालो ! भक्तवत्सल ! | याभिर्विना न सिध्यन्ति जपसाधनतत्क्रियाः | एकपञ्चाशतं पीठं शक्तिर्भैरवदेवता | अङ्गप्रत्यङ्गपातेन विष्णुचक्रक्षतेन च | ममास्य वपुषो देवहिताय त्वयि कथ्यते | ब्रह्मरन्ध्रं हिङ्गुलायां भैरवो भीमलोचनः | कोट्टरीशो महादेवस्त्रिगुणा या दिगम्बरी || १ || करवीरे त्रिनेत्रं मे देवी महिषमर्दिनी | क्रोधीशो भैरवस्तत्र || २ | | सुगन्धायाञ्च नासिका | देवस्त्र्यम्बकनामा च सुनन्दा तत्र देवता || ३ || काश्मीरे कण्ठदेशश्च त्रिसन्ध्येश्वरभैरवः | महामाया भगवती गुणातीता वरप्रदा || ४ || ज्वालामुख्यां महाजिह्वा देव उन्मत्तभैरवः | अम्बिका सिद्धिदानाम्नी | ५ | स्तनं जालान्धरे मम | भीषणो भैरवस्तत्र देवी त्रिपुरमालिनी || ६ || हृद्यपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः | देवता जयदुर्गाख्या || ७ || नेपाले जानु मे शिव ! | कपाली भैरवः श्रीमान् महामाया च देवता || ८ || मानवे दक्षहस्तं मे देवी दाक्षायणी हर ! | अमरो भैरवस्तत्र सर्वसिद्धिप्रदायकः || ९ || उत्कले नाभिदेशस्तु विरजाक्षेत्रमुच्यते | विमला सा महदेवी जगन्नाथस्तु भैरवः || १० || गण्डक्यां गण्डपातश्च तत्र सिद्धिर्न संशयः | तत्र सा गण्डकी चण्डी चक्रपाणिस्तु भैरवः || ११ || वहुलायां वामबाहुर्बहुलाख्या च देवता | भीरुको भैरवस्तत्र सर्वसिद्धिप्रदायकः || १२ || उज्जयिन्यां कूर्परञ्च माङ्गल्यकपिलाम्बरः | भैरवः सिद्धिदः साक्षाद्देवी मङ्गलचण्डिका || १३ || चट्टले दक्षबाहुर्मे भैरवश्चन्द्रशेखरः | प्. ४४१) व्यक्तरूपा भगवती भवानी तत्र देवता | विशेषतः कलियुगे वसामि चन्द्रशेखरे || १४ || त्रिपुरायां दक्षपादो देवी त्रिपुरसुन्दरी | भैरवस्त्रिपुरेशश्च सर्वाभीष्टप्रदायकः || १५ || त्रिस्रोतायां वामपदो भ्रामरो भैरवेश्वरः || १६ || योनिपीठं कामगिरौ कामाख्या तत्र देवता | यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी | यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः | सर्वदा विहरेद्देवी तत्र मुक्तिर्न संशयः | तत्र श्रीभैरवी देवी तत्र न क्षेत्रदेवता | प्रचण्डचण्डिका तत्र मातङ्गी त्रिपुरात्मिका | बगला कमला तत्र भुवनेशी सधूमिनी | एतानि नव पीठानि शंसन्ति वरभैरवाः || १७ || अङ्गुलीवृन्दं हस्तस्य प्रयागे ललिता भव ! || १८ || जयन्त्यां वामजङ्घा च जयन्ती क्रमदीश्वरः | सर्वत्र विरला चाहं कामरूपे गृहे गृहे | गौरीशिखरमारुह्य पुनर्जन्म न विद्यते || १९ || भूतधात्री महामाया भैरवः क्षीरकण्ठकः | युगाद्या सा महामाया दक्षाङ्गुष्ठः पदो मम | नकुलीशः कालीपीठे दक्षपादाङ्गुलीषु च || २० || करतोयां समारभ्य यावद्दिक्करवासिनी | शतयोजनविस्तारं त्रिकोणं सर्वसिद्धिदम् | देवा मरणमिच्छन्ति किं पुनर्मानवादयः || इति कापरूपमाहात्म्यम् || भुवनेशी सिद्धिरूपा किरीटस्था किरीटतः | देवता विमलानाम्नी संवर्तो भैरवस्तथा || २१ || वाराणस्यां विशालाक्षी देवता कालभैरवः | मणिकर्णीतिविख्याता कुण्डलञ्च मम श्रुतेः || २२ || काल्याश्रमे च मे पृष्ठं निमिषो भैरवस्तथा | सर्वाणी देवता तत्र || २३ || कुरुक्षेत्रे च गुल्फतः | स्थाणुनाम्नी च सावित्री अश्वनाथस्तु भैरवः || २४ || मणिबन्धे च गायत्री सर्वानन्दस्तु भैरवः || २५ || श्रीशैले च मम ग्रीवा महालक्ष्मीस्तु देवता | भैरवः संवरानन्दो देशे देशे व्यवस्थितः || २६ || काञ्चीदेशे च कङ्कालो भैरवो रुरुनामकः | प्. ४४२) देवता देवगर्भाख्या || २७ || नितम्बः कालमाधवे | भैरवश्चासिताङ्गश्च देवी काली सुसिद्धिदा || २८ || दृष्ट्वा दृष्ट्वा नमस्कृत्य मन्त्रसिद्धिमवाप्नुयात् | शोणाख्ये भद्रसेनस्तु नर्मदाख्या नितम्बके || २९ || रामगिरौ तथा नाला शिवानो चण्डभैरवः || ३० || वृन्दावने केशजाल उमानाम्नी च देवता | भूतेशो भैरवस्तत्र सर्वसिद्धिप्रदायकः || ३१ || संहाराख्य ऊर्द्धदन्ते देवी नारायणी शुचौ || ३२ || अधोदन्ते महारुद्रो वाराही पञ्चसागरे || ३३ || करतोयातटे तल्पं वामे वामनभैरवः | अपर्णा देवता तत्र ब्रह्मरूपा करोद्भवा || ३४ || श्रीपर्वते दक्षगुल्फं तत्र श्रीसुन्दरी परा | सर्वसिद्धीश्वरो सर्वा सुनन्दानन्दभैरवः || ३५ || कपालिनी भीमरूपा वामगुल्फं विभाषके | भैरवश्च महादेवः सर्वानन्दः शुभप्रदः || ३६ || उदरञ्च प्रभासे मे चन्द्रभागा यशस्विनी | वक्रतुण्डो भैरवश्च || ३७ || ऊर्द्ध्वोष्ठे भैरवपर्वते | अवन्त्याञ्च महादेवी लम्बकर्णस्तु भैरवः || ३८ || चित्रके भ्रामरी देवी किकुभाख्या जले स्थले | भैरवः सर्वसिद्धिशस्तत्र सिद्धिरनुत्तमा || ३९ || गण्डो गोदावरीतीरे विश्वेशो विश्वमातृका | दण्डपाणिर्भैरवस्तु | ४० | वामगण्डे तु राकिणी | भैरवो वत्सनाभस्तु तत्र सिद्धिर्न संशयः || ४१ || रत्रावल्यां दक्षस्कन्धे कुमारीभैरवः शिवः || ४२ || मिथिलायां महादेवी वामस्कन्धे महोदरः | ४३ | नलाहाट्यां नलापातो योगीशो भैरवस्तथा | तत्र सा कालिका देवी सर्वसिद्धिप्रदायिका || ४४ || कालीघाटे मुण्डपातः क्रोधीशो भैरवस्तथा | देवता जयदुर्गाख्या नानाभोगप्रदायिनी || ४५ || वक्रेश्वरे मन पातो वक्रनाथस्तु भैरवः | नदी पापहरा तत्र देवी महिषमर्दिनी || ४६ || यशोहरे पाणिपद्मं देवी यशोहरेश्वरी | चण्डश्च भैरवस्तत्र यत्र सिद्धिमवाप्नुयात् || ४७ || अट्टहासे चौष्ठपातो देवी सा फुल्लरा स्मृता | विश्वेशो भैरवस्तत्र सर्वाभीष्टप्रदायकः || ४८ || प्. ४४३) हारपातो नन्दिपुरे भैरवो नन्दिकेश्वरः | नन्दिनी सा महादेवी तत्र सिद्धिर्न संशयः || ४९ || लङ्कायां नूपुरञ्चैव भैरवो राक्षसेश्वरः | इन्द्राक्षी देवता तत्र इन्द्रेणोपासिता पुरा || ५० || विराटदेशमध्ये तु पादाङ्गुलिनिपातनम् | भैरवश्चामृताख्यश्च देवी तत्राम्बिका स्मृता || ५१ || तत्रास्ते कथिताः पुत्र ! पीठनाथाधिदेवताः | क्षेत्राधीशं विना देवं पूजयेच्चान्यदेवताम् | भैरवैर्ह्रियते सर्वं जपपूजादिसाधनम् | अज्ञात्वा भैरवं पीठं पीठशक्तिञ्च शङ्कर ! | प्राणनाथ ! न सिध्येत्तु कल्पकोटिजपादिभिः | न देयं परशिष्येभ्यो निन्दकाय दुरात्मने | शठाय क्रूरकार्याय दत्त्वा मृत्युमवाप्नुयात् | दद्याच्छान्ताय शिष्याय मन्त्री मन्त्रार्थसिद्धये | महानीलतन्त्रे पञ्चमपटले || पीठार्चनं महादेवि ! यत्र सिद्धिरनुत्तमा | पीठानां परमं पीठं कामरूपं महाफलम् | तत्र या क्रियते पूजा सकृद्वापि महेश्वरि ! | विहाय सर्वपीठानि तस्य देहे वसाम्यहम् | तस्माच्छतगुणं प्रोक्तं कामाख्यायोनिमण्डलम् | तेषां फलं महेशानि ! वक्तुं किं शक्यते मया | तत्र कोटिगुणैः सार्द्धमाद्या वसति तारिणी | यत्पीठं ब्रह्मणा गुप्तं वक्तुं सर्वसुखावहम् | यतो देवाश्च वेदाश्च मुनयश्चैव भावजाः | सर्वेऽप्याविर्भवन्त्येते तेन गुप्तं सदा कुरु | द्विविधञ्चैव यत्पीठं गोप्तव्यं तन्महेश्वरि ! | वक्त्राद्गुप्तं महापुण्यं दुरापं साधकाधमैः | व्यक्तं सर्वत्र देवेशि ! लभ्यते कुलसुन्दरि ! | पीठप्रसङ्गाद्देवेशि ! पीठानि शृणु भैरवि ! | शृणु तानि महाप्राज्ञे ! श्रेष्ठस्थानानि यानि च | सिद्धिप्रदानि साधूनां महद्भिः सेवितानि च | पुष्करञ्च गयाक्षेत्रमक्षयाख्यवटस्तथा | वराहपर्वतञ्चैव तीर्थञ्चामरकण्टकम् | नर्मदा यमुना पिङ्गी गङ्गाद्वारं तथा प्रिये ! | गङ्गासागरसङ्गञ्च कुशीवर्तञ्च बिल्वकम् | श्रीनीलपर्वतञ्चैव कलम्बकुब्जके तथा | भृगुतुङ्गञ्च केदारं सर्वप्रियं महाबलम् | प्. ४४४) ललिता च सुगन्धा च शाकम्भरी पुरप्रियम् | कर्णतीर्थं महागङ्गा तण्डुलिकाश्रम एव च | कुमाराख्यप्रभासौ च तथा धन्या सरस्वती | अगस्त्याश्रममिष्टं मे कर्णाश्रममतः परम् | कौशिकीसरयूशोणज्योतिःसरपुरःसरम् | कालोदकं प्रियं श्रीमत् प्रियमुत्तममानसम् | पतङ्गवापी सप्तार्चिर्महाविष्णुपदं महत् | वैद्यनाथं महातीर्थं प्रियः कालञ्जरो गिरिः | रामोच्छेदं गर्गोच्छेदं हरोच्छेदं महाननम् | भद्रेश्वरं महातीर्थं लक्ष्मणच्छेदमेव च | जानीहि प्रियश्रेष्ठा च कावेरी कपिलोदका | सोमेश्वरं शुक्लतीर्थं कृष्णवेल्वाप्रभेदकम् | पाठला च महाबोधिर्नगतीर्थं मदन्तिके ! | पुण्यं रामेश्वरं देवि ! तथा मेघवनं हरेः | ऐलमवनकञ्चैव गोवर्द्धनमजप्रियम् | हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकमतिप्रियम् | इन्द्रनीलं महानादं तथैव प्रियमैनकम् | पञ्चासरं पञ्चवटी वटी पर्वटिका तथा | गङ्गाबिल्वप्रसङ्गश्च प्रियनादवटं तथा | गङ्गारामाचलञ्चैव तथैव ऋणमोचनम् | गौतमेश्वरतीर्थञ्च वशिष्ठतीर्थमेव च | हारीतञ्च तथा देवि ! ब्रह्मावर्तं शिवप्रियम् | कुशावर्तमतिश्रेष्ठं हंसतीर्थं तथैव च | पिण्डारकवनं ख्यातं हरिद्वारं तथैव च | तथैव बदरीतीर्थं रामतीर्थं तथैव च | जयन्तीविजयन्तञ्च सर्वकल्याणदं प्रिये ! | विजया शारदातीर्थं भद्रकालेश्वरं तथा | अश्वतीर्थं सुविख्यातं तथा देवशिवप्रियम् | ओघवती नदी चैव तीर्थमश्वप्रदं तथा | छागलिङ्गमातृगणं करवीरपुरं तथा | सप्तगोदावरं तीर्थं लिङ्गाख्यं सर्वमोहनम् | किरीटमुत्तरे तीर्थं दक्षिणे तीर्थमुत्तमम् | विशालतीर्थं काल्याश्च वनं वृन्दावनं तथा | ज्वालामुखी हिङ्गुला च महातीर्थं गणेश्वरम् | जानीहि सर्वतीर्थानां हेतुस्थानानि सुन्दरि ! | अत्र सन्निहिता नित्यं सर्वे देवा महर्षयः | पितरो योगिनश्चैव ये ये सिद्धिपरायणाः | प्. ४४५) आशु सिध्यन्ति कर्माणि श्रद्धाभक्तिमतां प्रिये ! | पुण्यकाले पठेद् यस्तु तत्पुण्यमक्षयं भवेत् | श्राद्धकाले पठेत् यस्तु जुहुयाद्वापि भक्तितः | अक्षयं तद्भवेत् कव्यं पितॄणां परमं सुखम् | अस्मिन् स्थाने पठेद् यस्तु सिद्धिर्भवति तत्क्षणात् || अथ वक्ष्ये महेशानि ! यत्र या देवता शृणु | यत्र ते यानि नामानि कथयिष्यामि तत् शृणु | मग्नोऽहं परमानन्दे तत्कथामृतवारिधौ | पुष्करे कमलाक्षी च गयायाञ्च गयेश्वरी | अक्षया अक्षयवटेऽमरेशोऽमरकण्टके | वराहपर्वते च त्वं वराही धरणीप्रिया | नर्मदा नर्मदायाञ्च कालिन्दी यमुनाजले | शिवामृता च गङ्गायां अश्वा देहलिकाश्रमे | शारदा सरयूतीरे शोणे च कनकेश्वरी | अप्रकाशा यदा देवी ज्योतिर्मययब्धिसङ्गमे | श्रीरहं श्रीगिरौ चैव काली कालोदके तथा | महोदरी महातीर्थे नीला चोत्तरमानसे | मातङ्गिन्यां मतङ्गे च गुप्तार्चिविष्णुपादुके | स्वर्गदा स्वर्गमार्गे च गोदावर्यां गवेश्वरी | विमुक्तिश्चैव गोमत्यां पिपाशायां महाबला | शतद्र्वां शतरूपा च चन्द्रभागा च तत्र वै | ऐरावत्याञ्च ईर्नाम सिद्धिदा सिद्धितीरके | दक्षपञ्चनदे चैव दक्षिणाहं प्रकीर्तिता | औजसे वीर्यदा च त्वं सङ्गमा तीर्थसङ्गमे | बाहुदायामनन्ताहं कुरुक्षेत्रे रणेक्षणा | तपस्विनी पुण्यतमा भारती भारताश्रमे | सुकथा नैमिषारण्ये पाण्डौ च पाण्दरानना | विशालायां विशालाक्षी मुण्डपृष्ठे शिवात्मिका | श्रद्धा कनखले तीर्थे शुद्धबुद्धिर्मुनीश्वरी | सुवेशा सुमना गौरी मानसे च सरोवरे | नन्दापुरे महानन्दा ललिता ललितापुरे | ब्रह्माणी ब्रह्मशिरसि महापातकनाशिनी | पूर्णिमा चेन्दुमत्याञ्न्च काञ्च्यामतिप्रिया सदा | जाह्नवीसङ्गमे वृत्तिः स्वधा च पितृतुष्टिदा | पुण्याहं बहुमित्याञ्च प्रपायां पापनाशिनी | शङ्खसंहारिणी चैव घोररूपा महोदरी | प्. ४४६) स्वर्गोच्छेदे महावारिः प्रबला च महावने | भद्रा च भद्रकाली च भद्रेश्वरी शिवप्रिया | भद्रेश्वरे रमा विष्णुप्रिया विष्णुपदे तथा | दारुणा नर्मदाच्छेदे कावेर्यां कपिलेश्वरी | भेदिनी कृष्णवेत्तायां सम्भेदे शुभवासिनी | श्रद्धा च शुक्रतीर्थे च प्रभासे चेश्वरी तथा | महाबोधौ महाबुद्धिः पटले पाटलेश्वरी | सुबला नागतीर्थे च नागेशी नागवन्दिता | मदन्तौ च मदन्ती च प्रमदा च मदन्तिका | मेघस्वना मेघवामे विद्युत् सौदामिनीच्छदा | रामेश्वरे महाबुद्धिर्वीरा चेलापुरे सती | प्रिया च मार्गके दुर्गा सुरेशा सुरसुन्दरी | कात्यायनी महादेवी गोवर्द्धनेऽखिलात्मिका | शुभेश्वरी हरिश्चन्द्रे पुरचन्द्रे पुरेश्वरी | पृथूदके महावेगा मैनाकेऽखिलवर्द्धिनी | इन्द्रनीले महाकान्ता रत्नवेशा सुशोभना | माहेश्वरी महानादे महातेजा महाबले | पत्यपासरसि सारङ्गा पञ्चकट्यां तपस्विनी | वटीशावटिकायाञ्च सर्ववर्णा सुरङ्गिणी | सङ्गमे विन्ध्यगङ्गायां विन्ध्ये श्रीविन्ध्यवासिनी | महानन्दा नन्दतटे गङ्गबालाचले शिवा | आर्यावर्ते महार्या त्वं विमुक्तिर्-ऋणमोचने | अट्टहासे च चामुण्डा तन्त्रे श्रीगौतमेश्वरी | वेदमयी ब्रह्मविद्या वशिष्ठे त्वमरुन्धती | हरिते हरिणाक्षी च ब्रह्मावर्ते ब्रजेश्वरी | गायत्री चैव सावित्री कुशावर्ते कुशप्रिया | हंसेश्वरी महातीर्थे परहंसेश्वरेश्वरी | पिण्डारकवने धन्या सुरसा सुखदायिनी | नारायणी वैष्णवी च गङ्गाद्वारे विमुक्तिदा | श्रीविद्या वदरीतीर्थे रामतीर्थे महाधृतिः | जयन्ती च जयन्ते त्वं विजयन्तेऽपराजिता | विजया च महाशुद्धिः शारदायाञ्च शारदा | सुभद्रे भद्रदा भव्या भद्रकालेश्वरे तथा | महाभद्रा महाकाली हयतीर्थे गवीश्वरी | वेददा वेदमाता च विदेशे वेदमस्तके | युवत्याञ्च महाविद्या महानद्यां महोदया | प्. ४४७) चण्डा च त्रिपदे चैव छागलिङ्गे बलिप्रिया | मातर्दृशे जगन्माता करवीरपुरे सती | मलिनी रङ्गिणी रामा परमा परमेश्वरी | सप्तगोदावरे तीर्थे देवर्षिरखिलेश्वरी | अयोध्यायां भवानी च जयदा जयमङ्गला | माधवी मथुरायाञ्च देवकी यादवेश्वरी | वृन्दा गोपेश्वरी राधा रासवृन्दावने रमे | कात्यायनी महामाया भद्रकाली कलावती | चन्द्रमाला महायोगा महायोगिन्यधीश्वरी | वज्रेश्वरी यशोदेति वज्रश्रीगोकुलेश्वरी | काञ्च्यां कनककाञ्ची स्यादवन्त्यामतिपावनी | विद्या विद्यापुरे चैव विमला नीलपर्वते | रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे | विरजा यागपुर्याञ्च भद्रेऽपि भद्रकर्णिका | तमोलिप्ते तमोघ्नी च स्वाहा सागरसङ्गमे | कुलश्रीर्वंशवृद्धिश्च माधवी माधवप्रिया | मङ्गला मङ्गले कोटे राढे मङ्गलचण्डिका | ज्वालामुखी शिवापीठे मन्दरे भुवनेश्वरी | कालिघट्टे गुह्यकाली किरीटे च महेश्वरी | किरीटेश्वरी महादेवी लिङ्गाख्ये लिङ्गवाहिनी | साक्षी सर्वत्र भक्तानामभक्तानां कुतोऽपि न || अथान्यत् सम्प्रवक्ष्यामि सिद्धस्थानानि सुन्दरि ! | सर्वपापविनाशार्थं सर्वसिद्धिप्रदं नृणाम् | निर्मितानि शिवेनेह सिद्धस्थानानि यानि च | श्रुत्वा मनसि भाव्यानि प्रकाश्यान्यधिकारिषु | अमरेशमहापीठे कुशतुङ्गारसंज्ञकः | तत्र दुर्गाद्वयं नाम चण्डिका च महेश्वरी | प्रभासे सोमनाथोऽसौ देवी च पुष्करेक्षणा | देवदेवाधिपः शम्भुर्नैमिषे च महेश्वरः | तत्र प्रज्ञा च देवी च शिवानी लिङ्गधरिणी | पुष्करे च राजगन्धिः पुरहूता महेश्वरी | श्रीपर्वते श्रियो नाम शङ्करस्त्रिपुरान्तकः | मायावी शङ्करी तत्र भक्तानामखिलार्थदा | जप्येश्वरे महास्थाने शङ्करी च त्रिशूलिनी | त्रिशुली शङ्करस्तत्र सर्वपापविमोचकः | आम्रातकेश्वरे सूक्ष्मा सूक्ष्माख्या परमेश्वरी | प्. ४४८) गणक्षेत्रे मङ्गलाख्या शिवो यः प्रपितामहः | कुरुक्षेत्रे शिवस्थाणुः शिवास्थाणुः श्रिया परा | इष्टलाभे स्वयम्भूश्च देवी स्वायम्भुवा मता | उग्रः कनखले प्रोक्तः शिवोग्रे शिववल्लभा | विमलेश्वरे विश्वशम्भुर्विश्वाविश्वप्रिया सदा | अट्टहासे महानन्दो महानन्दा महेश्वरी | महान्तको महेन्द्रश्च पार्वती च महान्तका | भीमेश्वरो भीमपीठे शिवा भीमेश्वरी तथा | वस्त्रपादे भवो नाम भवानी भुवनेश्वरी | अद्रिकूटे महायोगी रुद्राणी परमेश्वरी | अविमुक्ते महादेवो विशालाक्षी शिवा परा | महामाये हरो रुद्रो महाभागा शिवा तथा | महाबलश्च गोकर्णे शिवभद्रा च चण्डिका | भद्रकर्णे महादेवो भद्रा च कर्णिका तथा | सुपर्णाख्ये सहस्राख्य उत्पला परमेश्वरी | स्थाणुसंज्ञे शिवस्था श्रीस्वरस्था श्रीधरा शिवा | कनकालये महास्थाने कमलाख्यो महेश्वरः | कमलाक्षी महेशानि ! सकलार्थप्रदायिनी | छागला तु कपर्दी च प्रसभा च महेश्वरी | ऊर्द्धरेता वरेण्ये च सन्ध्याख्यपरमेश्वरी | साकोटास्यमहाकोटा शिवा च मुण्डकेश्वरी | मातुलेश्वरपीःए च करवीरा च शेखरा | श्रीमद्व्याघ्रपुरे साक्षाद्धरनामा सभापतिः | शिवः सभापतिर्नाम यत्र नृत्यति शङ्करः | आत्मानन्दमहानादपूर्णानन्दमहार्णवम् | नृत्यन्तं यत्र देवेशं देवेशी परिपश्यति | यत्र आशु महादेवो भक्तानां वरदो भवेत् | नृत्यन्तं यत्र सर्वेशं वीक्ष्य लोको विमुच्यते | पुण्यस्थानेषु सर्वेषु स्थानमेतन्महोत्तमम् | यद् यत्कर्माणि सर्वाणि अक्षयाणि भवन्ति वै | तस्मिन् महोत्तमे स्थाने शिवगङ्गाख्यमद्भुतम् | तडागमस्ति तत्तीरे दक्षिणे नृत्यतीश्वरः | तडागेऽस्मिन् वसन् स्नात्वा सभानाथं समीक्षते | अष्टोत्तरसहस्रन्तु जपेच्छुद्धो मुदान्वितः || यानि ते कथितान्यत्र सदा तिष्ठन्ति देवताः | पितरः सिद्धगन्धर्वाः सिद्धयः सर्वसिद्धिदाः | प्. ४४९) अत्र दत्तं हुतं जप्तं स्नानमक्षयपुण्यदम् | यद् यत् प्रकीर्तितं नाम भैरवं परिपूज्य च | प्रणवादि हृदन्ते च लभतेऽभीष्टमुत्तमम् | भोजयेद् ब्राह्मणान् योऽत्र अक्षयं फलमश्नुते | इह नानासुखं भुक्त्वा हरगौरीपुरं व्रजेत् | शोकदुःखविनाशोऽयं करुणानिधिरीश्वरः | निर्ममे सर्वसम्प्रीत्त्यै पुण्यक्षेत्राणि भूतले | अकाले पुण्यशुद्धानामनेकैः पुण्यसाधनैः | आस्तिकानां भवेदत्र निवासः साधनं प्रति | तस्माद् यत्नेन कर्तव्यमत्र साधनमुत्तमैः | इदानीं शृणु चार्वङ्गि ! पीठं सर्वाङ्गसुन्दरम् | अक्षमालामयं पीठं ब्रूहि मे परमेश्वरि ! | यत्र सिध्यन्ति कार्याणि स्थितिस्ते शङ्करस्य च | विष्णोरगाधबोधस्य तत्प्रियाया महेश्वरि ! | अन्येषाञ्चैव देवानां युग्मं पदनिवासिनाम् | प्रसादो हि भवत्याशु तत्र च प्रीतिरुत्तमा || अथ पूजाकालः समयाचारतन्त्रे प्रथमपटले || पूजनादिषु यः कालो देवानाञ्च पृथक् पृथक् | स कालः समयो नाम यज्ज्ञात्वाऽमृतमश्नुते || तथा | प्रातर्मध्याह्नकः कालः प्रदोषश्च तृतीयकः | रात्रिप्रथमयामश्च चतुर्थः परिकीर्तितः | पञ्चमस्त्वर्द्धरात्रश्च पञ्च कालाः प्रकीर्तिताः | दिनस्य प्रथमस्यादौ कालः प्रथम ईरितः | दिनमध्ये तु यः कालो द्वितीयः परिकीर्तितः | सूर्यास्तरजनीकादौ प्रदोषो यस्तृतीयकः | ब्राह्म्यमुहूर्तावधिकमर्द्धरात्रादनन्तरम् | कालः षष्ठात्मको ज्ञेयो देवानामपि दुर्लभः | शान्तिकर्म तथा वश्यं स्तम्भद्वेषणमोहनम् | उच्चाटनं मारणञ्च कर्माणि च पृथक् पृथक् | शान्त्यर्थं प्रथम्ः कालो मध्याह्नस्तदनन्तरम् | सायं सूर्यास्तसमयस्त्रिकालानामयं क्रमः || मत्स्यसूक्ते पञ्चमपटले || अनुक्तकाले सर्वत्र दिवसादौ शुभेऽहनि | भागानुक्ते समं कुर्याद् वारानुक्ते गुरोर्दिने | तिथ्यनुक्तेऽष्टमी ग्राह्या नक्षत्रे रोहिणी मता | प्. ४५०) योगेऽनुक्ते ध्रुवो योगः सर्वत्रैव विधिः स्मृतः | योगिनीतन्त्रे पूर्वखण्डे द्वितीयपटले || गते तु प्रथमे यामे तृतीयप्रहरावधि | कालो नक्तं जपस्योक्तं पूजाकालमिति शृणु | सार्द्धयामगते नक्ते सार्द्धयामः स्थितो यदा | पूजाकालो भवेद् यामश्चतुर्वर्गप्रदः सदा | श्लिष्टे द्वे घटिके ये तु रात्रेर्मध्यमयामयोः | सा महारात्रिरुद्दिष्टा तत्कृतं त्वक्षयं फलम् | यद् यज्जप्तं हुतं यद् यत् यत् कृतं मोक्षसाधनम् | सर्वं तदक्षयं याति तथानन्त्याय कल्प्यते | गुप्तसाधनतन्त्रे षष्ठपटले || निशा तु परमेशानि ! सूर्ये चास्तमुपागते | प्रहरे च गते रात्रौ घटिके द्वे परे च ये | महानिशा समाख्याता ततश्चातिमहानिशा | तन्त्रान्तरे घटिकाद्वयमेव चेति पाठः | अतिमहानिशान्तमुक्त्वा तु | तत्र न पूजयेद्देवीं पशुभावः कदाचन | दशदण्डे तु या पूजा तत्सर्वमक्षयं भवेत् | षष्ठक्रोशे महेशानि ! तत् सर्वममृतं प्रिये ! | सप्तमक्रोशके देवि ! सर्वं क्षीरोपमं भवेत् | अष्टमक्रोशक इत्यादि समानम् | अर्द्धरात्रे गते देवि ! सर्वं क्षीरोपमं स्मृतम् | अष्टमक्रोशके देवि ! द्रव्यतुल्यं न संशयः | अतः परं महेशानि ! विषतुल्यं न संशयः | एतत् सर्वं महेशानि ! पशुभावे मयोदितम् | दिव्यवीरमते देवि ! तत्त्वज्ञाने प्रपूजयेत् | पञ्चतत्त्वं समानीय यदि पूजापरो भवेत् | कालाकालविचारन्तु देवि ! तत्र विवर्जयेत् | अर्द्धरात्रे गते देवि ! कूलपूजा प्रकीर्तिता | तत्तत्तन्त्रानुसारेण सर्वपूजादिकञ्चरेत् | वृहन्मुण्डमालातन्त्रे || आगमप्रकाशधृते || शरत्कालेऽथवा चैत्रे सूर्येन्दुसङ्गमेऽसिता | अर्द्धरात्रेऽर्चिता देवी भोगस्वर्गाववर्गदा | सूर्येन्दुसङ्गमेऽमावस्यायाम् | असिता श्यामा कालिकेति यावत् || आगमसारे || तुलामकरमेषेषु कुहुं प्राप्य सुरेश्वरि ! | प्. ४५१) पूजयेत् कालिकां देवीं चतुर्वर्गफलाप्तये || नन्दिकेश्वरतन्त्रे || निशीथे कार्तिके कुह्वां यजेद्दीपान्वितादिने | कालिकां कालिका तस्य सर्वाभीष्टप्रदायिका | प्रतिसंवत्सरं कुर्यात् कालिकाया महोत्सवम् | कार्तिके तु विशेषेण अमावस्यां निशार्द्धके | तस्यां सम्पूजयेद्देवीं भोगमोक्षप्रदायिनीम् | तुलायां कुजवारेऽपि कुहुरेव यदा भवेत् | प्रगल्भान्तु जगद्धात्रीं पूजयेद्गीतमङ्गलैः | मुण्डमालातन्त्रे || तुलादित्यनिशार्द्धे तु पञ्चदश्यां नगात्मजे ! | पूजयेत् कालिकां तत्र प्रचण्डां मुण्डमालिनीम् || षष्ठपटले || दिवापूजा विधातव्या निशापूजा महेश्वरि ! | सन्ध्यापूजा विधातव्या तदा सिद्धिमवाप्नुयात् | न दिवा न निशाभागे न सन्ध्यायां कदाचन | पूजयेन्न जगद्धात्रीं हलायां परिपूजयेत् | दिवा न पूजयेद्देवीं रात्रौ नैव च नैव च | सर्वदा पूजयेद् देवीं दिवा रात्रौ न पूजयेत् | वचनत्रयाणां इति दिव्यवीरविषयत्वेन समाधानमतो न कश्चिद्दोषः | तथा च निरुत्तरतन्त्रे प्रथमपटले || न दिवा पूजयेद्वीरः पशूरात्रौ न पूजयेत् | विपरीतं महेशानि ! अभिचाराय कल्प्यते || ननु प्रागुक्तगुप्तसाधनतन्त्रोक्तवचनेन पशुनां षोडशदण्डात्मकरात्रिमध्ये पूजाश्रवणात् रात्रौ पशुकर्तृकपूजननिषेधः कथं सङ्गच्छत इति चेत् सत्यम् | नन्दिकेश्वरमुण्डमालातन्त्रयोर्वचनैरागमप्रकाशधृतैः सहैकवाक्यतया गुप्तसाधनतन्त्रोक्तवचनं दीपान्वितादिनिमित्तकर्तव्यश्यामादिपूजाविषयकम् | निरुत्तरतन्त्रन्तु नित्यपूजाविषयमिति सर्वं समञ्जसम् | दिवावीरपूजानिषेधोऽपि पञ्चतत्त्वहीनपूजाविषयत्वेन बोद्धव्यः | अन्यथा पूर्वोक्तकालाकालेतिवचनमनर्थकं स्यात् | अतिनिशायां पूजानिषेधस्तु अप्रशस्तकालार्थः | अन्यथा द्रव्यस्यामृतत्वादिकीर्तनस्य वैयर्थ्यं स्यात् | सार्द्धयामेत्याद वस्तुतस्तु कुलपूजाविषयम् | महानिर्वाणतन्त्रे चतुर्दशोल्लासे || प्. ४५२) देव्युवाच || यद्यकस्माद्देवतानां पूजाबाधो भवेद्विभो ! | विधेयं तत्र किं भक्तैस्तन्मे कथय तत्त्वतः | अपूजनीयाः कैर्दोषैर्भवेयुर्देवमूर्तयः | त्याज्या वा केन दोषेण तदुपायश्च भण्यताम् || श्रीसदाशिव उवाच || एकाहमर्चनाबाधात् द्विगुणं देवपूजनम् | दिनद्वये भवेद्द्विगुणं तद्द्वैगुण्यं दिनत्रये | ततः षण्मासपर्यन्तं यदि पूजा न सम्भवेत् | तदाष्टकलसैर्देवं स्नापयित्वा यजेत् सुधीः | षण्मासात् परतो देवं प्राक् संस्कारविधानतः | पुनः सुसंस्कृतं कृत्वा पूजयेत् साधकाग्रणीः | खण्डितं स्फुटितं व्यङ्गं संस्पृष्टं कुष्ठरोगिणा | पतितं दुष्टभूम्यादौ न देवं पूजयेद्बुधः | हीनाङ्गं स्फुटितं भग्नं देवं तोये-विसर्जयेत् | स्पर्शादिदोषदुष्टन्तु संस्कृत्य पुनर्चयेत् | महापीठेऽनादिलिङ्गे सर्वदोषविवर्जिते | सर्वदा पूजयेत्तत्र स्वस्वमिष्टं सुखाप्तये || अथ प्रायश्चित्तम् || श्यामारहस्यधृतलिङ्गागमे || शृणु देवि ! प्रवक्ष्यामि प्रायश्चित्तमनुत्तमम् | तद्विशुद्धिश्च विधिवद्भैरवेण सुभाषितम् | गुरुत्यागकरः शिष्यः प्रायश्चित्ती भवेद्ध्रुवम् | लक्षं श्रीपादुकां जप्त्वा तस्मात् पापाद्विशुध्यति | मन्त्रत्यागकरः शिष्यस्तत्सङ्गं नैव कारयेत् | लक्षमेकं जपेन्मन्त्रं होमतर्पणतः शुचिः || एतत्तु दिव्यवीरगुरुत्यागे बोद्धव्यम् | कुलशिष्येण पशुगुरुत्यागः कर्तव्य एव | इति श्यामारहस्योक्तं तन्न समीचीनम् कौलिकानां प्रायश्चित्ताभावात् || तदुक्तं कुलार्णवे पञ्चमखण्डे || प्रायश्चित्तं भृगोः पातं सन्न्यासं व्रतधारणम् | तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् || तेन प्रायश्चित्तं पशुशिष्यविषयम् | पशुगुरुत्यागस्य शास्त्रोक्तत्वान्न तत्र प्रायश्चित्तम् | तद्वचनन्तु रुद्रजामलकुलार्णवयोः | मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् | ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् | मन्त्रान्मन्त्रान्तरमिति पाठान्तरम् | तन्मते च रिपुमन्त्रः साध्यमन्त्रो जीवहीनः सन्दिग्धो वा यथा स्यात्तथा तं हित्वा अन्यमन्त्रग्रहणं कुर्यात् | प्. ४५३) तथा विद्यां विहाय - महाविद्याग्रहणं कुर्यात् || तदुक्तं तत्रैव || सकलो जीवहीनश्च सन्दिग्धो निद्रितस्तथा | मनवस्ते न सिध्यन्ति गुरुः स्याद् ब्रह्मघातकः | तदा तं सहसा ज्ञात्वा मन्त्रदेवं गुरुं त्यजेत् | बहुज्ञोऽपि गुरुस्त्याज्यो ज्ञात्वा सारं वरानने ! | अल्पज्ञोऽपि गुरुः पूज्यो यो जानाति कुलाकुलम् | एकत्र गुरुणा सार्द्धं स्वपित्युपविशेच्च यः | स याति नरकं घोरं यावदिन्द्राश्चतुर्दश | गुरुवाक्यं हतं कृत्वा आत्मावाक्यन्तु रोपयेत् | गुरुं जेतुं मनो यस्य स पतेन्नरकार्णवे | अनेकधा पशोरन्नं भुञ्जते ये च कौलिकाः | तेभ्यः प्रकुप्यते देवी तत्सङ्गं नैव कारयेत् | कौलिकः पशुसंसर्गो पशुशक्तिं रमेद्बलात् | गोष्ठीमध्ये च यत्नेन दर्शं तस्य न कारयेत् | एकपात्रे पिबेद्द्रव्यं वीरो माहेश्वरो यदि | शुनो विष्ठा भवेत् पानं प्रायश्चिती स कौलिकः | गायत्रीभिः सहस्रेण तत्पापं शमयेदथ | होमयेद्धविषाज्येन निष्पापः स भवेद्ध्रुवम् | लक्षत्रयं जपेल्लोपां लक्षं वाप्यजपां जपेत् | सम्यक् शोधितचित्तस्तु सुवर्णं गुरवे ददेत् | चक्रं कृत्वा तु देवेशि ! पूजयेत्तर्पणं विना | चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् | अभिषेके विनाभूते आचार्यत्वं करोति यः | योनिकोटिशतं याति रौरवं नरकं व्रजेत् | मातृरूपां परित्यज्य स्त्रीरूपां शक्तिमाचरेत् | स याति नरकं घोरं जन्मकोटिशतानि च | मूलं लक्षत्रयं जप्त्वा अजपां लक्षमेव च | कूर्चबीजं पञ्चलक्षं ततः शुद्धिमवाप्नुयात् | मन्त्रमाता च पुत्री च भगिनी च कुलाङ्गना | न रमेत् कौलिको नित्यमेताः सम्यक् समर्चयेत् | श्रीपात्रग्रहणं कृत्वा चक्रमुत्थापयेद्यदि | पशुपानं भवेत्तस्य प्रायश्चित्तं प्रजायते || अथ मन्त्रमातृगमने प्राणान्तिकप्रायश्चित्तम् | तदुक्तं तन्त्रान्तरे || प्. ४५४) बलाद्वा स्वेच्छया वापि यो रमेन्मन्त्रमातरम् | दशलक्षं मनुं जप्त्वा तुषानलं समाचरेत् | पुत्रीकुलाङ्गनाभगिनीगमने मूलमन्त्रलक्षजपात् शुद्धिस्तदुक्तं तत्रैव || मन्त्रपुत्री स्वपुत्री च भगिनी च कुलाङ्गना | रमणाल्लक्षजापेन शुद्धो भवति कौलिकः || तन्त्रान्तरे || पर्वण्यपूज्य देवेशीं गुरुमग्निञ्च शक्तितः | अदत्त्वा च बलिं तत्र शतमष्टोत्तरं जपेत् | पत्रं पुष्पं फलं मूलमन्त्रपानादिमौषधम् | अनिवेद्य न भुञ्जीत यदाहाराय कल्प्यते | अनिवेद्यन्तु भुञ्जानः प्रायश्चित्ती भवेन्नरः | देव्याश्चाष्टशतं मन्त्रं जप्त्वा पूतो भवेन्नरः | अनस्थिप्राणिसङ्घातं हत्वा च दशकं जपेत् | हत्वा च पक्षिणः सर्वान् त्रिभिरेकादशं जपेत् | सर्पमार्जारनकुलं श्वानमुष्ट्रं खरं हयम् | गजाद्यांश्च मृगान् सर्वान् हत्वा चाष्टशतं जपेत् | जपेदष्टसहस्रन्तु क्षत्रवैश्यबधे बुधः | हत्वा पशुं स्त्रियं बालं मन्त्रं पञ्चशतं जपेत् | जपेदष्टसहस्रन्तु सच्छूद्रविनिपातने | त्रयोदशसहस्रन्तु दिव्यवीरबधे जपेत् | वीरस्त्रीगमनेनापि वृथापाने तथैव च | गुरुस्नुषामन्त्रपुत्त्रिगमने चापि कौलिकः || इति तु अज्ञानकृते बोध्यं ज्ञानकृते तु लक्षजपात् शुद्धिः || तदुक्तं ब्रह्मजामले || कृत्वा वीरबधं मन्त्री वृथापानं गुरुस्नुषाम् | वीरपत्नीं मन्त्रपुत्त्रींरमित्वा दिगयुतं जपेत् || इति | महापातकप्रायश्चित्तजपस्तु लतासम्बन्धेन कार्यः | तदुक्तं कालीतन्त्रे || लतारतेन जप्तव्यं महापातकमुक्तये | रुद्रजामले उत्तरखण्डे द्वितीयपटले || पशूनां व्रतभङ्गादौ विधिं प्रथमतः शृणु | व्रतभङ्गे नित्यभङ्गे नित्यपूजादिकर्मणि | सहस्रं प्रजपेन्मन्त्री व्रतदोषोपशान्तये || गायत्रीतन्त्रे पञ्चमब्राह्मणपटले | शालग्रामशिलाद्यग्रे कृत्वा दिव्यं करोति यः | शालग्रामादिकं स्पृष्ट्वा यदि दिव्यं करोति च | तथा गङ्गाजलादींश्च ताम्रञ्च गोमयं तथा | तुलसीञ्च महादेवि ! सुवर्णं गोरजस्तथा | वेदादीन्यपि पुण्यानि द्रव्याण्यन्यानि यान्यपि | प्. ४५५) तीर्थपीठादिनामानि स्पृष्ट्वा दिव्यं करोत्यपि | दिव्यकर्तुः कारयितुर्नरकान्न च निष्कृतिः || पूर्वोक्तं यन्महेशानि ! तत्पापस्य विशुद्धये | यदि ब्रह्मबधप्रोक्तप्रायश्चित्तं करिष्यति || तस्मात् पापात् तदा शुद्धो नान्यथा कल्पकोटिभिः | अपरञ्च प्रवक्ष्यामि शृणुष्व कमलानने ! | गङ्गास्नानं हि नन्दादौ सर्वपापप्रणाशनम् | गङ्गातोये कृतं दिव्यं तत्पापं नगनन्दिनि ! | महापातकोपपापं गङ्गास्नानाद्विनश्यति | गङ्गायां मौषलं स्नानं महापातकनाशनम् || प्रायश्चित्तात्मकगङ्गास्नानसङ्कल्पः || अद्येत्यादिशालग्रामसन्निधिदिव्यकरणशालग्रामगङ्गाजल- ताम्रगोमयगोरजस्तुलसीसुवर्णरजततीर्थमहापीठवेदादिशास्त्र- स्पर्शपूर्वकदिव्यकरणदेवादिनामोच्चारणपूर्वकदिव्यकरण- कारणज्ञानकृतब्रह्महत्यादिजनितपापक्षयकामो नन्दायां गङ्गास्नानमहं करिष्ये | इति तु समुच्चितपापक्षयसङ्कल्पः | अद्येत्यादिगङ्गाजलस्पर्शपूर्वकदिव्यकरणदिव्यकारणजनितपाप-क्षयकामो गङ्गायां स्नानमहं करिष्ये | इति गङ्गाजलस्पर्शपूर्वकदिव्यकरणपापक्षयसङ्कल्पः | अद्येत्यादिज्ञानाज्ञानकृत ब्रह्महत्यादिपापक्षयकामो गङ्गायां स्नानमहं करिष्ये || इति ब्रह्महत्यादिपापक्षयसङ्कल्पः || इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे शाखाकथनं नाम द्वितीयः परिच्छेदः | अथ विशेषसाधनानि | कृकलासदीपिकायां प्रथमपटले || श्रीनीलावाण्युवाच || इदानीं कृकलासोऽपि पशुरूपधरोऽव्ययः | पशुवाक्यप्रबोधाय उपायं वद शङ्कर ! || ईश्वर उवाच || साधु पृष्टं त्वया देवि ! पशुवाक्यप्रओधनम् | आदौ तु कथयिष्यामि पश्चात् साधनमुत्तमम् | कार्तिके फाल्गुने मासि तृतीयायां महानिशि | एकाकी निर्भयो गत्वा चितायां वरवर्णिनि ! | प्. ४५९) शुद्धासनं समासाद्य देवीं ध्यात्वा तु चर्चिकाम् | शुष्ककण्ठीमुग्ररावां शुनां घोरतरेक्षिणीम् | युवतीं द्विभुजां तालजङ्घां मुक्तकचां भजे | एवं ध्यात्वा प्रयत्नेन जपेन्मन्त्रमनन्यधीः | तारां मायां तथा चर्चिचर्चिके कृकलासकम् | बोधयद्वितयं वह्निकान्तामन्त्रः परात्परः | एवं सहस्रं प्रजपेत् ततः सिद्धिरनुत्तमा | कृकलासरवं ज्ञात्वा साधको गतशोकभाक् | तत्प्रसादान्महेशानि ! साफल्यं तस्य जायते | स ब्रूते सकलां वार्तां साधकाय यदा तदा | राजानं वशयेत् क्षिप्रं कामिनीञ्च न संशयः || १ || अथवा गोष्ठमासाद्य निशीथे साधकोत्तमः | उग्रचण्डां प्रयत्नेन धूपदीपैर्मनोरमैः | भक्तितः परमेशानि ! पूजयेत्तारमायया | निजमन्त्रसहस्रन्तु तदैव प्रजपेत्ततः | ततः सिध्यति देवेशि ! नात्र कार्या विचारणा || २ || अथवा कामिनीपुष्पमकरन्देन सुन्दरि ! | तिलकं कारयेन्मूर्द्ध्नि जपेदेतं मनुं ततः | तत्क्षणात् सिद्धिमाप्नोति सत्यं सत्यं न संशयः || ३ || इति कृकलाससिद्धिः || अथ वल्लीसिद्धिः || तत्रैव | वल्लिकायां साधयेद्विद्वान्नदीतीरे महानिशि | उग्रकेशीं प्रयत्नेन पूजयित्वा विशेषतः | तारं हृदुग्रकेशीञ्च चतुर्थ्यन्तां द्विठावधि | जपेदेतत् सहस्रन्तु सिध्यत्येव न संशयः | अथवा मुक्तकेशस्तु चितायां परमेश्वरि ! | बगलां पूजयेद् यत्नादुपचारैर्यथोचितैः | ओं नमो बगले ! माया स्वाहान्तोऽयं महामनुः | अष्टोत्तरसहस्रन्तु जपेदनन्यमानसः | ततो देवि ! समानीय गोधिकां गृहसम्भवाम् | पूजयेत्तां प्रयत्नेन पुनर्जापं समाचरेत् | ततः प्रभृति देवेशि ! वल्लिकाशब्दविद्भवेत् | अतीतानागतां वार्तां लीलया वक्ति सर्वदा || १ || अथवा निशि मांसाद्यैः पूजयेत् कृष्णपिङ्गलाम् | जपेन्मायात्रयं लक्ष्मीं ङेयुतं नामसंयुतम् | जपेदयुतमानन्तु ततः सिद्धो भवेन्मनुः | प्. ४५७) तदेव फलमाप्नोति सत्यं सत्यं न संशयः | प्रातःकाल समासाद्य जपेदेनं दिनावधि | सन्ध्यायां परमेशानि ! ज्यैष्ठिकाशब्दविद्भवेत् || अथ मूषिकसाधनं तत्रैव || अथ वक्ष्ये महेशानि ! मूषिकाशब्दसाधनम् | उपोष्य पूर्वेऽहनि शुद्धमानसः प्रातः शुचिः सुन्दरवेशधारी | गत्वा नदीतीरमुषीं सतारां ङेऽन्तां नमोऽन्तां प्रजपेच्च यत्नात् | सिद्धावधि श्रीगिरिराजकन्याप्रसादतो मूषिकशब्दविद्भवेत् || १ || किंवा रमायुग्ममुषीञ्च ङेऽन्तां द्विठावधि प्रोक्तमवीतिमन्यत् | जपेत् सहस्रञ्च शतं निशान्ते ततो महेशानि ! भवेत्तदेव || २ || वाणीं रमाञ्च प्रददासि विद्यां लज्जाञ्च तारञ्च पुनश्च लज्जाम् | तारं पुनर्मूषिकशब्दपूर्वं विचर्चिके वह्निवधूसमेतम् | शययामुपेत्याशु जपेच्च विद्याम् स्वकान्तया वा परकान्तया वा | ततो महेशानि ! स राजगोष्ठी ब्रूते रहो मूषिकशब्दवृन्दम् | दुर्भिक्षं वा सुभिक्षं वा बन्धञ्चापि शुभाशुभम् | देशानाञ्च महेशानि ! शीघ्रं ब्रूते शुभाशुभम् || अथ मार्जारसाधनं तत्रैव || अथ वक्ष्ये महेशानि ! मार्जारशब्दमुत्तमम् | पौषे वा श्रावणे वापि हविष्याशी जितेन्द्रियः | धुपदीपैश्च नैवेद्यै रक्तचन्दनपुष्पकैः | पूजयित्वा प्रयत्नेन विकटाक्षां महोत्कटाम् | बिभ्रतीं कङ्किटीं ध्यायेन्मार्जारोपरिसंस्थिताम् | तारं मायां कङ्कटाञ्च चतुर्थ्यन्तामुदीरयेत् | स्वाहान्ता कथिता विद्या जपेत्तामयुतत्रयम् | एवं सप्तदिनं रात्रौ श्मशाने साधकोत्तमः | कुर्यात् सिद्धोऽथ मार्जारशब्दं बुध्यति नान्यथा | अतीतानागतां वार्तां स ब्रूते परमेश्वरि ! || शृगालसाधनमपि तत्रैव || अथ वक्ष्ये महेशानि ! फेरूणां शब्दमुत्तमम् | अमावास्यादिने फेरु एकघातप्रहारिणः | गतप्राणोऽथ संस्थाप्य भूतले दर्भस~चये | तमारुह्य महेशानि ! पूजयेत् फेरुकं सुधीः | प्. ४५८) चतुर्भुजां विशालास्यां विवस्त्रामुन्नतस्तनीम् | तप्तकाञ्चनसङ्काशां पद्मं शङ्खं गदामसिम् | बिभ्रतीं मुक्तकेशीञ्च सर्वभीतिहरां पराम् | इति ध्यात्वा प्रयत्नेन गन्धपुष्पैर्मनोरमैः | सामिषैः सुरसैश्चैव नैवेद्यैश्च मनोरमैः | पूजयित्वा वरारोहे ! जपेत् प्रणवसम्पुटाम् | काली माया तथा काली वह्निकान्तावधि प्रिये ! | प्रजपेदर्द्धरात्रौ च लक्षमानं शुचिः पुमान् | फेरुः स जीवति ततो दिव्यमुत्पद्यते तदा | वरं वरय भो वत्स ! यत्ते मनसि वर्तते | ततः स साधकश्रेष्ठो देवदेवं मनोरमे ! | वशीभूत्वा सहस्राब्दान् त्वं मां पालय सर्वदा | एवं प्रार्थ्य वरं देवि ! पूजयेत्तां प्रयत्नतः | रक्तशाकान्नपिष्टेन भोजनञ्च यथोचितम् | ततः स तिष्ठति सदा यावदायुर्न संशयः | तछयनञ्च लक्षमानञ्च हन्यात् स वीक्षणेन तु | यद् यत् सम्प्रार्थयेन्मन्त्री सर्वमानीय यच्छति | सहस्रं वा शतं वापि धनं दद्याद्दिने दिने | इच्छाभोज्यं महेशानि ! तथैव वरसुन्दरीम् | आनीय क्रोशलक्षस्थां जपे यच्छति पार्वति ! | अनागतां तथा वार्त्तां ब्रूते षाण्माषिकीमपि | अतीतां शतवर्षीयां ब्रूते नित्यं महेश्वरि ! | शिवानां सर्ववार्ताञ्च स्वयं बोधयति ध्रुवम् | प्रत्यहं प्रजपेत्तञ्च यत्नेन सामिषान्नकैः | स श्रुत्वा फेरुकाणाञ्च शब्दं प्रणतिमाचरेत् || अथ श्वशब्दसाधनम् तत्रैव | निम्बमूलं समासाद्य पूजयेद्भोजनेऽसताम् | धूपदीपैश्च नैवेद्यैर्बलिभिः परमोत्तमैः | पूजयित्वा निशाभागे जपेदष्टायुतं बुधः | स्फिं स्फिं कालि ! वह्निकान्ता विद्येयं परमोत्तमा | ततः सिद्धो महेशानि ! सर्वं कुक्कुरभाषितम् | बुध्येद्देवि ! तदा सर्वं तदर्थञ्च यथतथम् || इति श्वशब्दज्ञानम् | मेकसाधनं तत्रैव | नदीतीरं समासाद्य स्नातो निर्मलवस्त्रष्टक् | प्. ४५९) प्रजापतिं वह्निसंस्थमनुस्वारसमन्वितम् | त्रितयं तत्त्वतो भें भें मन्त्रमेतदुदीरितम् | जपेद्देवि ! सहस्रन्तु प्रत्यहं सप्तवासरान् | ततो मेकवरे देवि ! सर्वतत्त्वार्थविद्भवेत् | अतीतानागतां वार्तां ब्रूते चापि यथोचिताम् || अथ गोधासाधनम् | गोधया हतया वापि अथवा बिल्वमूलके | गोधिकां खड्गहस्ताञ्च दंष्ट्रां शान्तिमुखीं शिवाम् | रक्तगम्भीरनयनां रक्तवर्णशिरोरुहाम् | जपेल्लक्षप्रमाणन्तु गोधिकासिद्धिहेतवे | सिद्धायां गोधिकायाञ्च किं न सिध्यति पार्वति ! | इच्छारूपं ददात्यन्नं ददाति विपुलं धनम् | अतीतानागतां वार्तां वर्तमानां तथा प्रिये ! | रक्तिशक्ती यथा स्यातां यद्वत् पृच्छति सर्वदा || अथ गोशब्दज्ञानम् | गवां मूत्रेण देवेशि ! | यावकं पाचयेद्बुधः | तस्माद्दिनत्रयं वापि शुद्धवासोधरः पुमान् | धराबीजद्वयं देवि ! जपेल्लक्षप्रमाणतः | पूजयेदेनां सतीं देवीं नीलवर्णां मनोरमाम् | द्विभुजां सर्वभूषाढ्यां नानालक्षणलक्षिताम् | एवं ध्यात्वा प्रयत्नेन पश्येदेनां न संशयः | तस्य गेहे सदा देवि ! गवां वृद्धिर्भवेद्ध्रुवम् | गवाञ्च सर्ववार्ताञ्च सम्प्रबुद्ध्येन्न संशयः | तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः | अथ मृगशब्दज्ञानम् तत्रैव | बिल्वमूलं समासाद्य देवि ! गन्धादिभिः शुभैः | पूजयेत् कमलां देवी नीलवस्त्राङ्गरागिणीम् | द्विभुजामम्बुजद्वन्द्वधारिणीं परमेश्वरीम् | एवं ध्यात्वा प्रयत्नेन शुद्धासनगतः पुमान् | कमलां कमलां मायां मायां वह्निबधून्तथा | जपेदष्टायुतं देवि ! कमलासिद्धिहेतवे | सिद्धायां कमलायान्तु मृगशब्दं सुबुध्यते | धनञ्च विपुलं देवि ! भवेत्तस्य गृहे ध्रुवम् | रिपुर्न जायते तस्य जायन्ते सर्वसम्पदः | कामिनी वशमायाति यदि रम्भासमा भवेत् || प्. ४६०) अथ मेषशब्दज्ञानम् तत्रैव | महागण्डारकं देवि ! तस्य चर्मणि चार्द्रके | उपविश्य जपेद्विद्यां कोङ्कालां कनकप्रभाम् | रक्तवस्त्रपरीधानां नानामण्डनमण्डिताम् | द्विभुजां सुन्दरीं देवीं ध्यात्वा प्रयतमानसः | धराबीजद्वयं देवि ! कामबीजद्वयं तथा | स्वाहान्ता कथिता विद्या जपेदष्टायुतं बुधः | ततः सिध्यति देवेशि ! कोङ्कणा परमेश्वरि ! | शब्दं बुध्यति देवेशि ! मेषाणां तत्प्रसादतः || अथ छागलशब्दज्ञानम् | केवलं छागदुग्धेन परमान्नन्तु पाचयेत् | तदेव भक्षयेद्देवि ! जपेदेनामनन्यधीः | जपेच्च कोङ्कणां विद्यां सप्तायुतमतन्द्रितः | तत्प्रसादान्महेशानि ! छागानां शब्दविद्भवेत् | अथ वनविडालशब्दज्ञानम् | हविष्याशी निशाभागे जपेदेनां हि साधकः | षट्सहस्रप्रमाणेन षड्दिनं यावदेवे हि | ततश्च शशकानां वै शब्दं बुध्यति नान्यथा | अनेनैव विधानेन ऋतुमूललतां स्पृशन् | अयुतैकप्रमाणेन सन्ध्यायां प्रजपेन्मनुम् | ततस्तस्याः प्रसादेन कपीनां शब्दविद्भवेत् | अनेनैव विधानेन जपेद् यदि दिनावधि | ततो वनविडालानां शब्दं बुध्यति नान्यथा | अथ ऋक्षशब्दज्ञानम् | तारं माया रमायुग्मं विशालां ङेयुतां तथा | अस्त्रान्तेयं महाविद्या स्वाहान्तामपि सुव्रते ! | विशालां घोरवदनां मुक्तकेशीं दिगम्बरीम् | यौवनोद्भिन्नवक्षोजां सरोजाक्षीं हसन्मुखीम् | खड्गखट्वाङ्गपद्मासीन् बिभ्रतीं परमेश्वरीम् | एवं ध्यात्वा जपेन्मन्त्रं मुच्यते नात्र संशयः | निशाभागे हविष्याशी जपेन्मन्त्रं जितेन्द्रियः | पूजयित्वा प्रयत्नेन रक्तचन्दनपुष्पकैः | दशांशं जुहुयाद्वह्नौ निम्बकाष्ठैर्वरानने ! | ततः सिध्यति देवेशि ! ऋक्षाणां शब्दविद्भवेत् | विवादे सङ्कटे युद्धे जयी भवति नान्यथा | केवलं स्मृतिमात्रेण ऋक्ष आयाति तत्पुरः | प्. ४६१) युद्धे वापि विवादे वा रिपुं हन्याच्छतायुतम् | विपुलञ्च बलं दद्यात् सत्यं सत्यं न संशयः | गजेन्द्रमदसम्भूतद्रवेण तिलकं यदि | तदाज्ञावशतो हन्यात् रिपुसैन्यं शतायुतम् | विपुलञ्च बलं दद्यात् सत्यं सत्यं न संशयः | अनेनैव विधानेन श्मशाने यदि साधकः | जपेल्लक्षप्रमाणेन व्याघ्राणां शब्दविद्भवेत् | श्वापदस्मृतिमात्रेण समयाचारतत्परः | अनेनैव विधानेन जपेदष्टायुतं बुधः | जुहुयात्तद्दशांशेन हस्तिसिद्धिर्भविष्यति | अष्टभिः सहायुतमिति सहार्थे तृतीया समासोऽपि क्वचिद्गमकत्वात्तेनाष्टाधिकमयुतमित्यायातम् | करिशब्दञ्च स ब्रूते सभायां परमेश्वरि ! | हस्तिनान्तु प्रसादेन स जयी सर्वविद्भवेत् | करिकृतशब्दमभिप्रेत्य सभायां स ब्रूते इत्यर्थः | हस्तिकर्णे तदा तेन कथ्यते यन्महेश्वरि ! | तदेव कुरुते हस्ती द्रुमादीनान्तु भञ्जनम् | अनेनैव विधानेन यदि पुष्पवतीगृहे | निशाभागे जपेल्लक्षं पूजयेद्बलिभिः शुभैः | पुष्पवतीगृहे रजःस्वलायोनिमण्डले | जुहुयादयुतं पद्मैर्लोहितैः परमेश्वरि ! | ओं नमो देवदेवाय पञ्चास्याय महात्मने | त्वत्प्रसादान्महादेव ! मम सिद्धिर्भविष्यति | इति स्तुत्वा महेशानि ! मृगेन्द्रशब्दविद्भवेत् | मृगेन्द्रस्य प्रसादेन तस्यासाध्यं न विद्यते | युद्धे वापि विवादे वा स भवेद्विजयी नरः | मृगेन्द्रस्मृतिमात्रेण सिंहो गच्छति तत्पुरः | तदाज्ञावशतो नित्यं कार्यं साधयति ध्रुवम् | इति ते कथितं सर्वं दुर्लभं भुवनत्रये | तस्य गेहे स्थिरा लक्ष्मीः पुत्त्रपौत्रावधि स्थिता | एतन्मन्त्रं महेशानि ! यदि पर्वतमस्तके | हविष्याशी जपेद्देवि ! सदा सर्वत्र सिद्धिदः || अथ शूकरशब्दज्ञानम् || पङ्कभूमिं समासाद्य तारं घुरुघुरुद्वयम् | घूत् घूत् स्वाहान्तमन्त्रोऽयं जपेत् सप्तायुतं बुधः | घोणिरापूरयेद् यत्नात्ततः सिध्यति नान्यथा || प्. ४६२) अथ कङ्कालसिद्धिः || नदीतीरं समासाद्य कृतस्नानो दिवा शुचिः | कौलिकीं पूजयेद् यत्नान्नानापुष्पैर्मनोरमैः | मद्यैर्मांसैर्लोहितैश्च नृत्यगीतादिभिः स्वयम् | पीत्वा कुलरसं यत्नात् कुलं गत्वा प्रयत्नतः | काली मायाबालिके च कङ्काली वह्निवल्लभा | एतन्मन्त्रं महेशानि ! जपेद्विंशसहस्रकम् | तदायाति महादेवि ! कङ्काली तत्र सोद्यमा | साधकाय वरं दत्त्वा वाहनञ्च वरानने ! | याति वा वाहनं तस्य वाह्यं वहति सर्वदा | हन्ति शत्रुसहस्राणि पृथ्वीं भ्रमति तत्क्षणात् | बलञ्च विपुलं दद्यात् सत्यं सत्यं न संशयः | तारं माया रमाबीजं पशुनामाग्निवल्लभा | कालिकापूजनं यस्तु पशुनाम्ना जपेन्मनुम् | सहस्रं परमेशानि ! तस्य शब्दं प्रबुध्यति || अथ काकशब्दज्ञानम् || द्वितीयपटले || काकपुच्छं महेशानि ! मूर्ध्नि सन्धार्य यत्नतः | कालीबीजं तथा काका कालीमन्त्रोऽयमुत्तमः | चितायां षट् सहस्राणि होमपूजाविवर्जितम् | जपेन्निशीथे देवेशि ! ततः सिद्धो भवेन्नरः | ततः प्रभृति देवेशि ! सार्वज्ञं तस्य जायते | काकशब्दप्रबोधेन सर्वं वक्ति यथातथम् | चिरजीवी भवेन्मर्त्यो नात्र कार्या विचारणा || १ || अथ खञ्जनसिद्धिः || तारं तिमिरनाश्यै च मायाबीजं महेश्वरि ! | पूजयेत् परमेशानि ! यत्रात्तिमिरनाशिनीम् | ततः खञ्जनसिद्धिः स्यान्नात्र कार्या विचारणा | खञ्जनानां ततस्तस्य दर्शनञ्च भवेत् सदा | मूर्ध्नि नीते च तत्पक्षे दैवेऽपि स न दृश्यते | जानीयात् खाञ्जनं शब्दं सर्वेषां प्रियतामियात् | अथ जलचरपक्षिसिद्धिः | एतन्मन्त्रं महेशानि ! श्मशाने यदि वा जपेत् | षट्सहस्रप्रमाणेन पूजयेदम्बुवासिनीम् | तदा वारिचराणाञ्च पक्षिणां शब्दविद्भवेत् | एतन्मन्त्रं खञ्जनसाधनोक्तं मन्त्रम् || प्. ४६३) स्मृतिमात्रेण देवेशि ! पक्षिणः शतशः क्षणात् | तदाज्ञावशगाः सर्वे पक्षिणः पूर्ववर्तिनः || २ || अथ मयूरसिद्धिः || वटमूलं समासाद्य निशीथे पूजयेच्छिवाम् | परां चण्डों सहास्यां विपुलकुचयुगां मुक्तकेशीं विवस्त्रां नानालङ्कारपूरां शशधरशकलं बिभ्रतीं भीमकान्ताम् | जप्यन्तीमद्रिकार्णं वरजघनभरात् क्षौणिचक्रं समग्रं न्यकुर्वन्तीं समन्तादवनिरिपुगणं चर्वयन्तीं भजामि | एवं ध्यात्वा ततो देवीं गन्धपुष्पैर्मनोहरैः | मद्यैर्मांसैर्महाभोगैः पूजयित्वा यथाविधि | कालीबीजं समुच्चार्य पुनः काली वरानने ! | ततो मयूरशब्दस्य मन्त्रोऽयं बहुसिद्धिदः | अष्टायुतं जपेत् पश्चात् हुमेत्तावत् सहस्रकम् | निम्बकाष्ठैर्हरिद्राक्तैर्बिल्वपत्रैर्मनोहरैः | समायाति ततो देवी मयूरगणमण्डिता | वरण् दत्त्वा साधकाय प्रयाति परमेश्वरी | मयूरशब्दविद्भूत्वा सार्वज्ञं लभते ध्रुवम् | यथेच्छति तथा क्षते विषं जारयितुं क्षमः | रिपूणां जयमाप्नोति सत्यं देवि ! वदामि ते | अनेनैव विधानेन बलिं दत्त्वा स्वदेहजाम् | दक्षिणां शब्दमात्रेण मम तुल्यो न संशयः | पूजयेत् कालिकां देवीं मद्यैर्मांसैर्मनोहरैः | ततः सिध्यति देवेशि ! कुलसिद्धिः सदा भवेत् | कुलानां शब्दविद्भूत्वा सार्वज्ञं लभते ध्रुवम् || ३ || अथ विद्याधरपक्षिविशेषसिद्धिः | मायां तारं गौं गौं चैव पातयेत्तदनन्तरम् | एतन्मन्त्रं महेशानि ! निशीथे तु जपेत् सुधीः | अयुतञ्च जेपेद्देवि ! ततः सिद्धिर्भवेद् ध्रुवम् | गन्धर्वशब्दविद्भूत्वा बलवान् पुत्त्रवान् भवेत् || ४ || अथ कङ्कशब्दज्ञानम् | कामं केलिकेलि द्वन्द्वं काममन्त्रेण उत्तमः | जप्त्वा सप्तसहस्रन्तु कङ्कशब्दप्रबोधनम् | कङ्कालशब्दविद्भूत्वा सर्वज्ञो भवति ध्रुवम् || ५ || प्. ४६४) कोलकाल वरारोहे ! वह्निकान्ता ततः परम् | बिल्वमूले महेशानि ! जपेदयुतमानतः | पूजयेत् कालिकां देवीं ततः सिद्धिर्भवेद्ध्रुवम् | वकानां शब्दविद्भूत्वा सर्वज्ञो जायते नरः || ६ || अथ चटकशब्दज्ञानम् || चाटु चाटु महेशानि ! स्फें पूर्वं परमेश्वरि ! | सप्तायुतं जपेद् यत्नात् कालिकामपि पूजयेत् | ततो बुध्यति देवेशि ! चटकाशब्दमुत्तमम् || ७ || अथ शुकशब्दज्ञानम् || मायाबीजं शुकद्वन्द्वं बोधयद्वितयं तथा | वह्निकान्तावधिर्मन्त्रो जपेदयुतमानतः | ततः शुकस्य शब्दज्ञो नरो भवति नान्यथा | शुकस्यापि प्रसादेन महासम्पत्तिमान् भवेत् | एतन्मन्त्रं महेशानि ! निशीथे त्यक्तभोजनः | जपेदष्टसहस्रन्तु शारिकापददानतः | शारिकाशब्दविद्भूत्वा सर्वज्ञो जायते नरः || ८ || अथ सारससिद्धिः || धराबीजं समुद्धृत्य भैं भैं बीजं समुद्धरेत् | एतन्मन्त्रं महेशानि ! सप्तायुतमतन्द्रितः | जपेत् कमलमध्ये तु हविष्याशी जितेन्द्रियः | ततः सिध्यति देवेशि ! नात्र कार्या विचारणा | सारसाणां रवं बुद्ध्वा सर्वज्ञो जायते नरः || ९ || अथ कपोतसिद्धिः || स्फेङ्कारं पूर्वमुद्धृत्य हुङ्कारद्वयमुद्धरेत् || स्वाहान्ता कथिता विद्या जपेदयुतमानतः | शाल्मलीमूलमासाद्य पूजयेत् सिद्धिकालिकाम् | ततः सिध्यति देवेशि ! नात्र कार्या विचारणा | कपोतस्य रवं देवि ! स बुध्यति न संशयः || १० || कौरबेरशब्दमुच्चार्य कूर्चबीजं समुद्धरेत् | सिद्धिकालीं प्रपूज्याथ जपेदयुतपञ्चकम् | ततः सिध्यति देवेशि ! नात्र कार्या विचारणा | कपोतस्य रवं देवि ! स बुध्यति न संशयः || ११ || प्. ४६५) कपोतविष्ठया मूध्नि तिलकेऽपि कृते बुधः | भूतं भावि वर्तमानं सर्वं वक्ति यथातथम् || १२ || अथ कुक्कुटशब्दज्ञानम् | कं कङ्कारं समुच्चार्य कूर्चबीजमथोद्धरेत् | जपेदष्टायुतं देवि ! कालिकाञ्च प्रपूजयेत् | मद्यैर्मांसैर्लतागेहे सिद्धो भवति नान्यथा | सिद्धे मन्त्रे तथा मन्त्री भवेद्भूमिपुरन्दरः | शब्दं बुध्यति तेषां वै सर्वज्ञो भवति ध्रुवम् | यावत्तिष्ठति तद्विष्ठा तस्य मूर्ध्नि वरानने ! | कवित्वं कुरुते तावत् वादिनं जयति ध्रुवम् || १३ || अथ शरालुसिद्धिः || हं हङ्कारं समुच्चार्य स्फें स्फेङ्कारं समुच्चरेत् | हंस हंस ततो ब्रूयात् जपेल्लक्षं वरानने ! | गुह्यकालीं प्रपूज्याथ मद्यैर्मांसैर्वरानने ! | ततः सिध्यति देवेशि ! हंसशब्दो हि सुव्रते ! | तद्विष्ठातिलकं कृत्वा महासर्वज्ञतामियात् || १४ || अथ क्षेमङ्करीसिद्धिः || मायाबीजं समुद्धृत्य धराबीजं समुद्धरेत् | क्षेमङ्करीपदं पश्चात्तदन्ते वह्निवल्लभा | वटमूलं नदीतीरं गत्वा लक्षं जपेन्नरः | पूजयेत् कालिकां देवीं मद्यमांसैर्मनोरमैः | रक्तपुष्पै रक्तमाल्यैर्नानालङ्कारसंयुतैः || ततः सिध्यति देवेशि ! निशीथे स भवेत् प्रिये ! | क्षेमङ्करीणां शब्दज्ञो जायते नात्र संशयः | परस्त्रीनिरतो देवि ! मनोवाञ्छामवाप्नुयात् || १५ || अथ टिट्टिभसिद्धिः | टिट्टिभायस्तु स्वं बीजं वह्निकान्ता ततः परम् | कालीं सम्पूजयेद्यत्नात् टिट्टिभ शब्दविद्भवेत् || १६ || अथ कोकसिद्धिः | कोकयुग्मं वह्निकान्ता जपेत् सप्तायुतं बुधः | कालिकां पूजयेद्यत्नात् कोकानां शब्दविद्भवेत् || १७ || अथ चकोरशब्दज्ञानम् | कालीबीजं चकोराय जपेदष्टायुतं बुधः | वटमूलं समासाद्य कालिकां पूजयेत्ततः | चकोरशब्दविद्भूत्वा सर्वज्ञो जायते नरः || १८ || प्. ४६६) तारं काली चकोराय जपेदष्टायुत नरः | महाकाली ततो देवि ! अस्त्रं वह्निबधूं ततः | एतन्मन्त्रं महेशानि ! जपेल्लक्षं महेश्वरि ! | मद्यैर्मांसै रक्तपुष्पैर्महाकालीं प्रपूजयेत् | एवं कृत्वा विधनेन तत्पुच्छं मूर्द्ध्निधारयेत् | तत्पक्षिणः शब्दवेत्ता जायते नात्र संशयः || १८ || अथ कोटशब्दज्ञानम् | अथ वक्ष्ये महेशानि ! कीटसाधनमुत्तमम् | वटमूल समासाद्य स्नातः शुक्लाम्बरः शुचिः | व्याघ्रचर्मैः समासाद्य सद्यैर्मांसैर्मनोहरैः | धूपदीपैश्च नैवेद्यैर्बलिभिः परमोत्तमैः | लताभिर्वेष्टितो भूत्वा कीटकञ्च समर्पयेत् | तुङ्गवक्षीजयुगलां चकोरनेत्रां हसन्मुखीम् | पिबन्तीं रुधिरं धारां मुक्तकेशीं दिगम्बराम् | बिभ्रतीं खड्गमुण्डञ्च ततो विकटसन्निभाम् | एवं ध्यात्वा प्रयत्नेन जपेन्मन्त्रमनन्यधीः | कालीबीजं कीटकाली निवसेत्तत्र साऽसिता | एतन्मन्त्र महेशानि ! जपेदेकाग्रमानसः | सहस्रं पद्मपत्राणां जुहुयात् संस्कृतेऽनले | कीटकाली समायाति ततो नात्रास्ति संशयः | साधकाय वरं दत्त्वा प्रभाते याति कालिका | ततः प्रभृति देवेशि ! कीटशब्दस्य साधकः | लीलया साधकः सर्वं बुद्ध्वा सर्वज्ञतामियात् | पिपीलिकादिकीटानां शब्दं बोद्धुं क्षमो भवेत् | स्वर्गे मर्त्ये च पाताले धरायां या कथा भवेत् | भूतं भव्यं वर्तमानं साधकेन्द्राय सर्वदा | कीटाः शंसन्ति देवेशि ! नात्र कार्या विचारणा | कीटकालीप्रसादेन गृहे लक्ष्मीः स्थिरा भवेत् | धनवान् पुत्रवान् भूत्वा स्वर्गमोक्षमवाप्नुयात् || २० || अथ प्रकृतसाधनम् | मुण्डमालातन्त्रे चतुर्थपटले || निशाहागे चतुर्दश्याममायां हरवल्लभे ! | जपेदयुतसंख्यञ्च स सिद्धः सर्वकर्मसु | स योगीन्द्रः स भावज्ञः स धीरः सर्वकर्मसु || १ || तथा | प्रभातेऽश्वत्थमूले च गत्वा परमकोविदः | पूजयेत् परया भक्त्या सामिषैर्लोहितैरपि | प्. ५६७) बिल्वैर्बिल्वदलैर्वापि बिल्वपुष्पैर्वरानने ! | जपेल्लक्षं चतुर्दश्यामारभ्य नगनन्दिनि ! | पञ्चमेन यजेद्देवीं बिल्वमूले दिवानिशम् | तदा वाक्सिद्धिमाप्नोति स्फुटं वाचस्पतिर्भवेत् || २ || तथा | वामभागे स्त्रियं स्थाप्य धूपामोदसुगन्धिभिः | ताम्बूलचर्वणाद्यैश्च पूजयेद्भवगेहिनीम् | भवानीं तारिणी विद्यां ब्रह्मविद्यां मनोहराम् | शुद्धां सिद्धिमवाप्नोति तत्क्षणादेव शङ्करि ! | विश्वमातर्जयाधारे ! विश्वेश्वरि ! नमोऽस्तु ते | करालवदने ! घोरे ! चन्द्रशेखरवल्लभे ! | मां तारय महाभागे ! देहि सिद्धिमनुत्तमाम् | कामकल्पलतारूपे ! कामेश्वरि ! कलामते ! | कामरूपे ! च विजये ! निस्तारे ! शववाहिनि ! || ३ || गृहीत्वा शचाण्डालं धृत्वा भालं मुखं शिरः | नासां कर्णौ च हृत्पद्मं नाभिं लिङ्गं गुदं तथा | बाहुपृष्ठञ्च जठरं धृत्वा धृत्वा मुहुर्मुहुः | आदौ मायां पुनर्मायां पुनर्मायां नियोजयेत् | बधूबीजं तथा लज्जां सर्वाङ्गे निक्षिपेन्मनुम् | अष्टोत्तरशतं जप्त्वा कृत्वा च शवबन्धनम् | पुनः स्वमन्त्रबीजेन नीलद्रवेण चक्षुषा | सत्त्वेन रजसा देवि ! तमसा नगनन्दिनि ! | हरबीजेन सम्मार्ज्य स सिद्धेश्वरतामियात् | वायुस्तम्भं जलस्तम्भं वह्निस्तम्भं नगात्मजे ! | तत्क्षणादेव देवेशि ! जायते नात्र संशयः || ४ || शून्यागारे महेशानि ! भवेद्धन्ददिङ्मुखः | शङ्खमाला ग्रहीतव्या स्फाटिकी वाथ राजती | चामीकरमयी माला प्रबालघटिता तथा | मूर्ध्नि देशे कुल्लुकाञ्च जप्त्वा शतमनुत्तमाम् | तदा मन्त्रं जपेन्मन्त्री महेशो नात्र संशयः | स शाक्तः शिवभक्तश्च भैरवश्च सदाशिवः || ५ || तथा | अश्वत्थे बिल्वमूले वा स्वजायामन्दिरेऽथ वा | देवीं वा कामिनीं वापि ध्यायेत् परमदेवताम् | आद्यां ज्योतिर्मयीं विद्यामभयां वरदां शिवाम् | प्रणमेत् स्तुतिभिश्चण्डीं सर्वदोषनिकृन्तनीम् | प्. ४६८) श्मशानस्थः शवस्थोऽपि प्रपठेत् कवचोत्तमम् | तथा श्मशाने देवेशि ! शवे वा वरवर्णिनि ! | सिद्धिर्भविष्यति तदा प्रतिपक्षा न भैरवाः | उन्मत्तः क्रोधनश्चैव भैरवो वटुकात्मकः | संहारो भीषणश्चैव तथा च कालभैरवः | महाकालभैरवश्च भैरवा वसुसंख्यकाः | दृष्ट्वा श्मशानं देवेशि ! शवसाधनमेव च | नृत्यन्ति भैरवाः सर्वे गर्जन्ति रक्तलोचनाः | अद्य मत्सदृशो वापि अद्यैव वातुलोऽपि वा | शवश्मशानयोर्मध्ये न जानामि कथञ्चन | माभैषीर्भैरवाः सर्वे वदिष्यन्ति च रक्षणात् | सिंहव्याघ्रवराहाद्याकारा गर्जन्ति सर्वतः | माभैषीश्चैव माभैषीर्माभैषीश्चैव साधकम् | यो वदिष्यति पुरतः स गुरुस्तत्त्वकोविदः || ६ || पञ्चमपटले || कृष्णाष्टम्यां नवम्यां वा प्रजपेदयुतं निशि | तदा सिद्धिमवाप्नोति मन्त्रध्यानपुरःसरम् || ७ || तथा | महापीठाश्रमं याति महापीठस्य दर्शनम् | महापीठे यजेद्देवीं भक्त्या परमया युतः | पूजयेद्रक्तपुष्पैश्च रक्तगन्धानुलेपनैः | महिषैश्च यजेद्देवीं मेषजैः क्षतजैरपि | छागलैर्लोहितैर्देवीं गात्रजैर्ब्राह्मणैरपि | तदा सिद्धेश्वरो भूत्वा गाणपत्यं लभेत्तु सः || तथा | स्तुतिपाठाद्दृढज्ञानात् पूजनाच्छिवसुन्दरि ! | सुप्रसन्ना महाविद्या जपात् सिद्धिर्भविष्यति || ८ || षष्ठपटले || कुलवारे महेशानि ! सहस्रमयुतं जपेत् | शनैश्चरे चतुर्दश्याममायां कुजवासरे | स्थित्वा कुशासने ज्ञानी मन्त्रसिद्धिपरायणः | अयुतं भक्तिभावेन सहस्रं च वरानने ! | अन्तर्यागं ततः कृत्वा सर्वसिद्धीश्वरो भवेत् || ९ || अश्वत्थवटमूले वा बिल्वमूलेऽथ वा प्रिये ! | पूजयेत् परया बुद्ध्या मन्त्रसिद्धिं जनो लभेत् || १० || तथा ! | सुषुम्नान्तः स्थितां देवीं पद्मकिञ्जल्कवासिनीम् | ध्यायेन्नाडीविशुद्धेन मन्त्रसिद्धिरनुत्तमा || तथा | श्मशानेऽश्वत्थमूले वा शवे वा शून्यमन्दिरे | प्रजपेत् कालिकां तारां महाविद्या प्रसीदति | जपेन तपसा स्तोत्रैरन्तर्यागैर्मनोहरैः | प्. ४६९) पूजनैः कवचैर्देवि ! महाविद्या प्रसीदति || ११ || वामे सुरायां देवेशि ! नानालङ्कारभूषिताम् | कुलचक्रे च देवेशि ! प्रजपेत्तु समः शिवः | निशि चक्रे करालास्ये मुक्तकेशो दिगम्बरः | सहस्रं वायुतं वापि जपेन्मदनमन्दिरे | श्वेतं वा लोहितं वापि कुसुमं पञ्चमान्वितम् | एवंविधविधानेन महाकाल्यै निवेदत् | दिवापूजा विधातव्या निशापूजा महेश्वरि ! | सन्ध्यापूजा विधातव्या तदा सिद्धिमवाप्नुयात् || तथा | शवे बिल्वं करे दक्षे मालां संगृह्य साधकः | प्रजपेत् पार्वतीमन्त्रं सर्वकार्यार्थसिद्धये | प्रणम्य भक्त्या देवेशि ! जपेच्चिन्तामणिं मनुम् | चिन्तामणिप्रसादेन किं न सिध्यति भूतले | चिन्तामणिं कल्पलतां गृहित्वा परमां शिवाम् | जप्त्वा महामनुं चण्डि ! देवदेवेश्वरो भवेत् | योगिनीतन्त्रे पूर्वखण्डे पञ्चमपटले || देव्युवाच || भगवन् ! सर्वधर्मज्ञ ! लोकानुग्रहकारक ! | साधनं सर्वमन्त्रस्य सर्वाशापरिपूरकम् | साधनं सिद्धमन्त्रस्य वद मे करुणामय ! || ईश्वर उवाच || शृणु देवि ! प्रवक्ष्यामि साधनं परमाद्भुतम् | सार्द्धयामगतायान्तु निशायां साधकोत्तमः | भूत्वा दिगम्बरः सम्यगाचम्य विधिवत्तत्था | अभ्युक्ष्य मूलमन्त्रेण शययायां तत्र संविशेत् | गुरुं परमगुरुञ्च परापरगुरुं तथा | परमेष्ठिगुरुञ्चैव वामेऽभ्यर्च्य गणेश्वरम् | दक्षिणे च ध्रुवाख्यन्तु श्मशानवासिन्यै नमः | ततो माया आसनाय नम इत्युच्चरेच्छिवे ! | शयया शययातले देवि ! प्रणवान्ते ध्रुवञ्च फट् | लिखित्वाचम्य यत्नेन स्वतन्त्रोक्तविधानतः | प्रणवं मणिधरी चैव वज्रिणी च महापदम् | प्रतिसरे रक्ष रक्ष मां हुं फट् स्वाहया युतः | अनेन मनुना देवे ! शिखां बद्ध्वा विधानतः | अङ्गन्यासकरन्यासौ मातृकान्यासमेव च | भूतशुद्ध्यादिकं कृत्वा ततश्च परमां शिवाम् | ध्यात्वा भक्त्या समभ्यर्च्य मानसैः साधकोत्तमः | प्. ४७०) शययातले महेशानि ! मन्त्रोऽपि च वरानने ! | प्रणवञ्च ततो देवि ! वटुकेभ्यो नमस्तथा | इति मन्त्रेण मनसा वटुकं पाद्यादिभिर्यजेत् | ततस्तु वह्निबीजेन समन्ताज्जलधारया | वह्निप्राचीरमाचिन्त्य सङ्कल्प्य च समादरात् | जपं कृत्वा समर्प्याथ विधिना परमेश्वरि ! | पुनः सङ्कल्प्य देवेशि ! कुर्यात् स क्रमतः शिवे ! | होमञ्च तर्पणञ्चैव अभिषेकं ततः परम् | विप्रस्य भोजनञ्चैव अभावे द्विगुणं जपेत् | काञ्चनं दक्षिणां दत्त्वाऽच्छिद्रावधारणं चरेत् | सम्मोच्य वटुकं देवि ! क्षमस्वेति विसर्जयेत् | एवमुक्तं महेशानि ! शययासाधनमुत्तमम् | मन्त्रसिद्धिकरं शीघ्रमस्मत्सायुज्यदायकम् || विशेषशययासाधनन्तु निर्गुणकाण्डे वक्ष्यते || तत्रैव || इतः शृणु त्रिवाटस्य चतुर्वाटस्य साधनम् | गत्वा तु त्रिपथं वापि चतुष्पथं वरानने ! | प्राग्वद्देवीं समभ्यर्च्य मणिधरीति मन्त्रतः | बद्ध्वा ग्रन्थिन्तु वस्त्रान्ते निर्भयं साधकोत्तमः | श्मशानवासिनो ये ये देवा देव्यश्च भैरवाः | कृपां कुर्वन्तु ते सर्वे सिद्धिदाश्च भवन्तु मे | प्रणमेत् प्रणवाद्येन मनुनानेन भक्तितः | ततः पूर्वमुखो वापि उत्तराशामुखोऽपि वा | उपविश्य समाचम्य स्वस्ति वाच्य महेश्वरि ! | स्थानं सम्मार्ज्य तत्रैव प्रेतबीजं लिखेत् सुधीः | बीजोपरि महादेवि ! विहितासनमास्तरेत् | तत्रोपविश्य देवेशि ! हृदीष्टदेवतां स्मरेत् | यथेष्टं मनसाराध्य अष्टाशासु बलिं हरेत् | काल्यादिभ्यो विशेषेण पूजयित्वा महेश्वरि ! | काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी | विप्रचित्ता तथा नीला बलाका च घनाद्विषः | प्रणवाद्या ङेयुतान्ता पूज्या बल्या विना स्मृता | सङ्कल्प्याष्टोत्तरयुतं जप्त्वाऽच्छिद्रावधारणम् | कृत्वा स्थानं परिष्कृत्य देवीं स्मरन् गृहं व्रजेत् | अतः परमहं वक्ष्ये बिल्वमूलस्य साधनम् | बिल्वमूलं महेशानि ! समन्तात् षोडशं करम् | अतस्तत्साधनं देवि ! सर्वेषां प्रियकारकम् | प्. ४७१) तत्र गत्वा बिल्वमूलं प्राग्वद्गुरुचतुष्टयम् | अभ्यर्च्य यत्नतो देवि ! क्षेत्रपालं प्रपूज्य च | क्षेत्रपाल ! महाभाग ! श्मशानाधिप ! सुव्रत ! | सिद्धिं देहि जगत्कर्ता देहि स्थानं नमोऽस्तु ते | अनेन प्रणवाद्येन मनुना प्रणमेच्च तम् | ततः स्थानन्तु सम्पूज्य लिखेत्तत्र वरानने ! | वाग्भवं प्रेतबीजञ्च पुनर्वाग्भवमेव च | तदन्ते मूलमन्त्रञ्च लिखेत् साधकसत्तमः | पूजयित्वा च काल्यादि पूर्ववत् परमेश्वरि ! | सङ्कल्प्याष्टोत्तरशतं जप्त्वाऽच्छिद्रावधारयेत् | परिष्कृत्य ततः स्थानं गुरुं स्मरन् गृहं व्रजेत् | इत्येवं कथितं तुभ्यं सारात्सारं परात्परम् | गोपनीयं सदा भद्रे ! विशेषात् पशुसङ्कुले || अथ कार्तवीर्यार्जुनप्रयोगः || मन्त्रमहोदधौ || यथा फ्रौं व्रीं क्लों ह्रं ह्रीं क्रों स्त्रीं हुं फट् कार्तवीर्यार्जनाय नमः || वह्नितारयुतो वाद्यो लक्ष्मीरग्नोन्दुशक्तियुक् | वेधाधरेन्दुशान्त्याढ्यो निद्राधीशाग्निरिन्दुयुक् | मायाङ्कुशं बधूर्वर्मास्त्रे ततः कार्तवी पदम् | रेफवायवानलो वह्निजौ दक्षकर्णसंस्थितौ | मेघः सदीर्घः पवनो मनुवक्त्रो हृदन्तकः | ऊनविंशतिवर्णोऽयं तारादिमखवर्षकः || इति प्रमाणम् || ओं कार्तवीर्यार्जुनाय नमः || अथास्य न्यासः || यथा | ओं नमो भगवते भो भोः कार्तवीर्यार्जुन ओं ओं ओं मम हृदये दुष्टं दारय दुरितं हनहन पापं मथमथ आरोग्यं कुरुकुरु हां हां हुं द्विषः || १ || ओं फ्रौं व्रों हुं आं ह्रीं क्रों स्त्रीं हुं फट् कार्तवीर्यार्जुनाय नमः | अयं विंशत्यर्णः || द्वितीयन्यासः || ओं नमो भगवते भो भोः कार्तवीर्यार्जुन ओं फ्रौं ओं मम उदरे दुष्टं दारय दुरितं हनहन पापं मथमथ आरोग्यं कुरुकुरु हां हां हूं हूं फट् फट् द्विषः || २ || ओं नमो भगवते कार्तवीर्यार्जुन ओं व्रीं ओं मम नाभौ दुष्टं दारय दुरितं हनहन पापं मथमथ आरोग्यं कुरुकुरु हां हां हुं हुं फट् फट् द्विषः || ३ || प्. ४७२) ओं इत्यादि १५ ओं क्लीं मम जठरे दुष्टं दारयेत्यादि || ४ || ओं इत्यादि १५ ओं द्रुं मम गुह्यमण्डले दुष्टमित्यादि || ५ || ओं इत्यादि १५ ओं आं ओं मम ऊरुयुग्जानुपादेषु दुष्टमित्यादि || ६ || ओं इत्यादि १५ ओं ह्रीं ओं मम मूर्ध्नि दुष्टमित्यादि || ७ || ओं इत्यादि १५ ओं क्रौं ओं मम भ्रू युगले दुष्टमित्यादि || ८ || ओं इत्यादि १५ ओं श्रीं ओं मम कर्णाक्षिनासिकाजिह्वावक्त्रेषु दुष्टमित्यादि || ९ || ओं इत्यादि १५ ओं हुं ओं मम कण्ठबाहुयुगेषु दुष्टमित्यादि || १० || ओं इत्यादि १५ ओं कां ओं मम सर्वाङ्गेषु दुष्टमित्यादि | ओं इत्यादि १५ ओं फट् ओं मम सर्वाङ्गेषु दुष्टमित्यादि || ११ || ओं इत्यादि १५ ओं ओं ओं मम सर्वाङ्गेषु दुष्टं दारयेत्यादि || १२ || ओं इत्यादि १५ ओं वीं ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १३ || ओं इत्यादि १५ ओं र्ययां ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १४ || ओं इत्यादि १५ र्ज्जुं ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १५ || ओं इत्यादि १५ ओं नां ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १६ || ओं इत्यादि १५ ओं यं ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १७ || ओं इत्यादि १५ ओं नं ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १८ || ओं इत्यादि १५ ओं म ओं मम सर्वाङ्गेषु दुष्टमित्यादि || १९ || अथ गायत्री || ओं कार्तवीर्याय विद्महे महावीर्याय धीमहि तन्नोऽर्जुनः प्रचोदयात् | गायत्र्येषा समाख्याता प्रयोगादौ जपेत्तु ताम् || इति मन्त्रमहोदध्युक्तप्रयोगः || अथास्य कवचम् || श्रीदेव्युवाच || देवाधिदेव ! सर्वज्ञ ! सर्वलोकहिते रत ! | केन रक्षा भवेन्नॄणां भीतानां विविधपदि | राजचौरादिपीडासु शस्त्राग्निविषपातने | मारीदुःस्वप्नपीडासु ग्रहरोगभयेऽपि च | प्. ४७३) ज्वरापस्मारपीडासु सिंहव्याघ्रनिपातने | राक्षसासुरवेतालपिशाचप्रेतपातने | महाभये महानाशे महाकारागारगतेऽर्णवे | महामृत्युभये घोरे महाकलहपातने | केनोपायेन शान्तिः स्यात् साधकानां महेश्वर ! | अनष्टद्रव्यता चैव नष्टस्य पुनरागमः | सर्वाकर्ष्णसंक्षोभः सर्वसंहननं तथा | भवत्यभीष्टं जन्तूनां केवलं वद मे शिव ! || ईश्वर उवाच || शृणु गुह्यतमं देवि ! गोपनीयं प्रयत्नतः | अवाच्यमपि वक्ष्यामि तव लोकहिताय वै | कवचं कार्तवीर्यस्य साङ्गावरणकं क्रमात् | स्वमूर्तिशक्तिमन्त्रौघं सजपध्यानपूर्वकम् | सहस्रादित्यसङ्काशे नानारत्नसमुज्ज्वले | भास्वद्ध्वजपताकाढ्ये तुरगायुधभूषणे | महासंवर्तकाम्भोजभीमरावविराविणि | समुद्धृतमहाच्छत्रवितानितवियत्पथे | निर्माणकिङ्किणीजालचलच्चामरशोभिते | महारथवरे दीप्ते नानायुधविराजिते | सुस्थितं विपुलोदारसहस्रभुजमण्डितम् | वामोरुकुण्डकोदण्डान् दधानमपरैः शरान् | किरीटहारमुकुटकेयूरबलयाङ्गदैः | मुद्रिकोदरगन्धाढ्यैर्मौञ्जीनूपुरकादिभिः | भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः | आबद्धकवचं वीरं सुप्रसन्नाननाम्बुजम् | धनुर्ज्यासिंहनादेन कम्पयन्तं जगत्त्रयम् | सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् | सर्वसम्पत्प्रदातारं विजयश्रीनिषेवितम् | सर्वसौभाग्यदं भद्रं भक्तानां भयनाशनम् | दिव्यमालानुलेपाढ्यं सर्वलक्षणसंयुतम् | रथनागाश्वपादातिवृन्दमध्यगमीश्वरम् | वरदं चक्रवर्तीनां महीलोकैकपालकम् | समानोदितसाहस्रं दिवाकरसमत्विषम् | महायोगबलैश्वर्यं कीर्त्याक्रान्तजगत्त्रयम् | श्रीमच्चक्रहरेरंशादवतीर्णं महाबलम् | सम्यगात्मविभेदेन ध्यात्वा रक्षामुदीरयेत् | दत्तात्रेय ऋषिः प्रोक्तोऽनुष्टुप्छन्दः प्रकीर्तितम् | कार्तवीर्यार्जुनो विष्णुश्चक्रवर्ती च देवता | प्. ४७४) विनियोगश्च रक्षायै सर्वतः परिकीर्तितः | सर्वदुष्टविनाशाय सर्वार्थस्य च सिद्धये | अस्याङ्गमूर्तयः पञ्च पान्तु मां स्फटिकोज्ज्वलाः | अग्नीशासुरवायव्यकोणेषु हृदयादिकाः | सर्वतस्तूज्ज्वलरूपवीरचर्मासिपाणयः | अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहः | क्षेमङ्करीशक्तियुतश्चौराणां मदभञ्जनः | प्राचीदिशं रक्षतु मे वाणवाणाशयायुधः | श्रीकराशक्तिसहितो मारीमदविभञ्जनः | शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् | महावश्यकरीयुक्तः शत्रूणां मदभञ्जनः | कोदण्डेषु धरः सौर्यां दिशं मे परिरक्षतु | प्रजाकरीयुतश्चापवाणदुष्टप्रणाशनः | परिरक्षतु मे सम्यक् विदिशं चैत्रभानवीम् | विद्याकरीसमायुक्तः सुमहान् दुष्टनाशनः | पातु मे नै-ऋतीं चाप वाणवान् दिशमीश्वरः | धनकर्या समायुक्तो महादुरितनाशनः | इष्वासनेषुधृक् पातु विदिशं मम वायवीम् | आयुष्कर्या समायुक्तः श्रीमान् भयविनाशनः | चापेषुधारो शैवीं मे विदिशं परिरक्षतु | विजयश्रीयुतः साक्षात् सहस्रारधरो विभुः | दिशमूर्द्ध्वाभवतु मे महाभयविनाशनः | शङ्खभृत् सुमहाशक्तिसंयुतोऽप्यधरां दिशम् | परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः | महायोगसमायुक्तः सर्वदिक्चक्रमण्डलम् | महायोगीश्वरः पातु सर्वतो मम पद्मभृत् | एता दिङ्मूर्तयो रक्ता रक्तमाल्यांशुकैर्वृताः | प्रधानदेवतारूपाः पृथक् रथवरे स्थिताः | शक्तयः पद्महस्ताश्च नीलेन्दीवरसन्निभाः | सुशुक्लमाल्यवसनाः सुलिप्ततिलकोज्ज्वलाः | तत्पार्श्वदेवताः स्वस्ववाहनायुधभूषणाः | स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः | एतास्तस्य समाख्याताः सर्वावरणदेवताः | सर्वतो मां सदा पान्तु सर्वशक्तिसमन्विताः | हृदये चोदरे नाभौ जठरे गुह्यमण्डले | ऊरुयुग्जानुपादेषु मूर्द्ध्नि भ्रूयुगलेषु च | कर्णाक्षिनासिकाजिह्वाकण्ठबाहुयुगेषु च | दशबीजात्मका मन्त्राः सम्यक् सम्पत्तिदायकाः | प्. ४७५) तेजोरूपाः स्थिताः पान्तु वाञ्छासुरद्रुमाः | दश चान्ये महावर्णा मन्त्ररूपा महोज्ज्वलाः | व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् | कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः | सुमुखो मे मुखं पातु कर्णौ व्याप्तजगत्त्रयः | सुकमारो हनू पातु भ्रूयुगं मे धनुर्धरः | नयने पुण्डरीकाक्षो नासिकां मे गुणाकरः | अधरोष्ठौ सदा पातु ब्रह्मगेयो द्विजान् कविः | सर्वशास्त्रकलाधारो जिह्वां चिबुकमव्ययः | दत्तात्रेयप्रियः कण्ठं स्कन्धौ राजकुलेश्वरः | भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः | करौ सर्वार्थदः पातु कराग्राणि जगत्प्रियः | कुक्षिं रक्षतु मे विद्वान् वक्षः परपुरञ्जयः | रेवाम्बुलीलासन्तृप्तो जठरं परिरक्षतु | वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा | सहस्रभुजभृत् पृष्ठं सप्तद्वीपाधिपः कटिम् | ऊरूमाहिष्मतीनाथो जानुनी वल्लभो विभुः | जङ्घे वीराधिपः पातु पातु पादौ मनोजवः | पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु | सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् | प्राणादिदशजीवेशान् सर्वशिष्टेष्टदोऽवतु | वशीकृतेन्द्रियग्रामः पातु सर्वेन्द्रियाणि मे | अनुक्तमपि यत् स्थानं शरीरेऽन्तर्वहिश्च यत् | तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः | वज्रात् सारतरञ्चेदं शरीरं कवचावृतम् | बाधाशतविनिर्मुक्तमस्ति मे भयवर्जितम् | बड्ध्वेदं कवचं दिव्यं न भेद्यं हैहयेशितुः | विचरामि दिवारात्रौ निर्भयेणान्तरात्मना | राजमार्गे महादुर्गे मार्गे चौरादिसङ्कुले | विषमे विपिने घोरे दावाग्नौ गिरिकन्दरे | संग्रामे शस्त्रसङ्घाते सिंहव्याघ्रनिषेविते | गह्वरे सर्पसङ्कीर्णे सन्ध्याकाले नृपालये | विवादे विपुलावर्ते समुद्रे च नदीतटे | परिपन्थिजनाकीर्णे देशे दस्युगणैर्वृते | सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे | नानारोगजरावेशे विषादप्राप्तभूतले | मारीदुःखस्वप्नपीडासु क्लिष्टे विश्वासघातकैः | प्. ४७६) शारीरे च महादुःखैर्मानसे च महाज्वरे | आधिव्याधिभये विघ्ने ज्वालोपद्रवकेऽपि च | न भवेत्तु भयं किञ्चित् कवचेनावृतस्य मे | आगन्तुकामानखिलान् सुरदस्युविलुम्पकान् | विनाशयेत्तद्दोर्दण्डसहस्रेण महारथः | स्वकरोद्धृतनिर्भिन्नान् सहस्रशरखण्डितान् | राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् | खड्गसाहस्रदलितान् सहस्रमूषलार्दितान् | चौरादिदुष्टसत्त्वौघान् सहस्रारसहस्रभृत् | कृतवीर्यसुतो राजा सहस्रभुजमण्डितः | अवतारो हरेः साक्षात् पालयेत् सकलं मम | कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् | तस्य स्मरणमात्रेण कृतं नष्टञ्च लभ्यते | यो भवेल्लोकरक्षार्थमंशाच्चक्रं हरेर्भुवि | तं नमामि महावीर्यमर्जुनं कृतवीर्यकम् | सहस्रबाहुं सशरं सचापं रक्ताम्बरम् रक्तकिरीटकुण्डलम् | चौरादिदुष्टभयनाशनमिष्टदं तं वन्दे महाबलविजृम्भितकार्तवीर्यम् | कार्तवीर्य ! महावीर्य ! सर्वदुष्टविनाशन ! | सर्वत्र सर्वदा तिष्ठ दुष्टान्नाशय पाहि माम् | दक्षे पञ्चशतं वाणा वामे पञ्चशतं धनुः | यो बिभर्ति स पात्वस्मान् विषव्यालशताकुलान् | उत्तिष्ठ दुष्टदमन ! सप्तद्विपैकपालक ! | त्वमेव शरणं प्राप्तं सर्वतो रक्ष रक्ष माम् | उत्तिष्ठ किं त्वं स्वपिषि किं तिष्ठसि चिराय हि | पाहि नः सर्वदा सर्वभयेभ्यः स्वसुतानिव | य चौरा वसुहर्तारो विद्विषो ये च हिंसकाः | अन्तरायकरा दुष्टाः पापका ये दुराशयाः | दुर्हृदो दुष्टभूपाला दुष्टा मान्याश्च पापकाः | ये च कार्यविलोप्तारो ये खलाः परिपन्थिनः | सर्वस्वहारिणो ये च ये च मायाविनोऽपरे | महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये | ये महाशरदातारो वञ्चकाः शस्त्रपाणयः | ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः | व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः | छिद्रान्वेषरता नित्यं येऽस्मान् बाधितुमुद्यताः | प्. ४७७) ते सर्वे कार्तवीर्यस्य महाशङ्खवराहताः | सहसा विलयं यान्तु दूरादेव विमोहिताः | ये दानवा महादैत्या ये यक्षा ये च राक्षसाः | पिशाचा ये महासत्त्वा ये भूता ब्रह्मराक्षसाः | अपस्मारग्रहा येच ये ग्रहाः पिशताशनाः | महालोहितभोक्तारो वेताला ये च गुह्यकाः | मनोबुद्धीन्द्रियजवाः स्फोटकाश्च महाज्वराः | महाशना बलिभुजो महाकुणपभोजनाः | गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः | डाकिन्यो घोनसाः प्रेताः क्षेत्रपाला विनायकाः | महाव्याघ्रमहामेषमहातुरगरूपकाः | महापूजा महासिंहा महामहिषसन्निभाः | ऋक्षवाराहशुनकरूपा वोलुकमूर्तयः | महोष्ट्रखरमार्जारसर्पाणां विषमस्तकाः | नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः | नानारोगकराः क्षुद्रा महावीर्या महाबलाः | वातिकाः पैत्तिका घोराः श्लैष्मिकाः सान्निपातिकाः | माहेश्वरा वैष्णवाश्च वैरिवंश्या महाग्रहाः | स्कान्दा वैनायकाः क्रूरा ये च प्रमथसम्भवाः | महाशत्रुग्र्हा रौद्रा महामारीमसूरिकाः | ऐकाहिका द्व्याहिका त्र्याहिकाश्च महाज्वराः | चातुर्थिकाः पाक्षिकाश्च मासाः षाण्मासिकाश्च ये | सांवत्सरा दुर्निर्वार्या ज्वराः परमदारुणाः | स्वाप्निकाश्च महोत्पाता ये च दुःखप्निका ग्रहाः | कुष्माण्डा जृम्भका भौमा घोनासा निधिवञ्चकाः | भ्रामकाः प्राणहर्तारो ये च बालग्रहादयः | दिवाचरा रात्रिचरा ये च सन्ध्यासु दारुणाः | प्रमत्ता अप्रमत्ता वा येऽस्मान् बाधितुमुद्यताः | ते सर्वे हैहयेशस्य धनुर्मुक्तशरार्दिताः | सहस्रधा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः | ये सर्पा ये महानागा महागिरिगुहाशयाः | कालव्याला महादंष्ट्रा महाजगरसंज्ञकाः | अनन्तकुलिकाद्याश्च दंष्ट्राविषमहाभयाः | अनेन शतशीर्षाश्च खण्डपुच्छाश्च दारुणाः | महाविषजलीकाश्च वृश्चिका रक्तपुच्छकाः | आशीविषाः कालकूटा महाहालाहलाह्वयाः | जलसर्पा जलव्याला जलग्रहाश्च कच्छपाः | प्. ४७८) मासिका विषपुच्छाश्च ये चान्ये जलवासिनः | जलजाः स्थलजाश्चैव नानाभेदशतोद्भवाः | ये च षड्विन्दवो लूता भ्रामराः शुकपुच्छिकाः | स्थावरा जङ्गमाश्चैव कृत्रिमाश्च महाविषाः | गुप्तरूपा गुप्तविषा मूषिका गृहगोधिकाः | अपस्मारविषा घोरा महोग्रविषसंज्ञकाः | येऽस्मान् बाधितुमिच्छन्ति शरीरप्राणनाशनाः | ते सर्वे कार्तवीर्यस्य खड्गसाहस्रखण्डिताः | दूरादेव विनश्यन्तु प्रनष्टेन्द्रियसाहसाः | मनुष्याः पशवो वृक्षा वानरा वनगोचराः | सिंहव्याघ्रवराहाश्च महिषा ये महामृगाः | गजास्तुरङ्गा गवया रासभाः शरभा वृकाः | शुनकाः पिशुनाः शूद्रा मार्जारा विलयोनयः | शृगालाः शशकाः श्येना गरुत्मन्तो विहङ्गमाः | भेरुण्डा वायसा गृध्रा हंसाद्याः पक्षिजातयः | उड्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः | नानाभेदकुले जाता नानाभावपृथग्विधाः | येऽस्मान् बाधितुमिच्छन्ति सन्ध्यासु च दिवा निशि | ते क्षिप्रं कार्तवीर्यस्य गदासाहस्रचूर्णिताः | दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः | ये चाक्षेपप्रदातारो द्वेष्टारो ये विदूषकाः | कार्त्ययन्त्रप्रकर्तारः कूटामायाविनोऽपरे | मारणोच्चाटनोन्मूलद्वेषमोहनकारकाः | विश्वासघातका दुष्टा ये च स्वामिद्रुहो नराः | ये चाततायिनो दुष्टा ये पापा गोप्रहारिणः | दाहोपघातगरलशस्त्रपातातिदुःखदाः | क्षेत्रवित्तापहरणबन्धनादिभयप्रदाः | एते ये विविधाकारा ये चान्ये दुष्टजातयः | पीडाकराश्च सततः छिद्रमिच्छन्ति बाधितुम् | ते सर्वे कार्तवीर्यस्य चक्रसाहस्रदारिताः | दूरादेव विनाश्यन्तु क्षयं यान्तु सहस्रधा | ये मेघा ये महावर्षा ये वाता याश्च विद्युताः | ये महाशनयो दीप्ता निर्घाताद्याश्च दारुणाः | उल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः | सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः | राहुश्च केतवो घोरा नक्षत्राणि च राशयः | प्. ४७९) तिथयः संक्रमा मासा हायना युगनायकाः | मन्वन्तराधिपाः सिद्धा ऋषयो योगसिद्धयः | श्रुतय ऋग्यजुःसामाथर्वणाद्याश्च वह्नयः | ऋतवो लोकपालाश्च पितरो देवसंहतिः | विद्याश्चैव चतुःषष्टिभेदोत्था भुवनत्रये | एते वै कीर्तिताः सर्वे ये चान्ये नानुकीर्तिताः | ते सन्तु नः सदा सौम्या सर्वकालं सुखावहाः | आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः | कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः | दत्तात्रेयप्रियतमः सहस्रभुजमण्डितः | चापी खड्गी रथी वाणी तूणी चर्मी महाबलः | सुभगः सुमुखः शान्तश्चक्रवर्ती गुणाकरः | दशास्यदर्पहारो वा लीलातृप्तः सुदुर्जयः | दुष्टहा चौरदमनो राजराजेश्वरः प्रभुः | सर्वज्ञः सर्वदः श्रीमान् सर्वशिष्टेष्टदः कृती | राजचूडामणिर्योगी सप्तद्वीपाधिनायकः | विजयी विश्वतो राज्ञां महामतिरलोलुपः | देवविप्रप्रियो विद्वान् ब्रह्मगेयः सनातनः | माहिष्मतौपतिर्योद्धा महाकीर्तिर्महाभुजः | सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः || शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्गोपिवल्लभः | महाभागवतो धीमान् महाभयविनाशनः | असाध्यविग्रहो दिव्यभावो व्याप्तजगत्त्रयः | सर्वशास्त्रकलाधारो विरजो लोकवन्दितः | वीरो विमलसत्त्वाढ्यो महाबलपराक्रमः | विजयश्रीमयो नान्यो जितारिर्मन्त्रनायकः | चक्रभृत् कामदः कान्तः कामघ्नः कमलेक्षणः | भद्रवादप्रियो वैद्यो विबुधो वरदो वशी | जितेन्द्रियो जितारातिः महान् योऽनन्तविक्रमः | चक्रभृत् परचक्रघ्नः संग्रामविधिपूजितः | महाधनो निधिपतिर्महायोगी गुरुप्रियः | योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः | दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः | सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः | योगसिद्धो महाकायो महावृन्दशताधिपः | सर्वज्ञाननिधिः सर्वसिद्धदानकृतोद्यमः | इत्यष्टशतनामोत्था मूर्तयो दशदिकपतेः | प्. ४८०) सम्यक् दश दिशो व्याप्य पालयन्तु च मां सदा | मनःसौख्यमसम्बाधमारोग्यमपराजयः | दुःखहानिररिघ्नश्च प्रजावृद्धिः सुखोदयः | वाञ्छाप्तिरिति कल्याणमवैषम्यमनामयम् | अनालस्यमभीष्टञ्च मृत्युहानिर्बलोन्नतिः | भयहानिर्यशः कान्तिर्विद्याबुद्धिमहोच्छ्रितः | अनष्टद्रव्यता चैव नष्टस्य पुनरागमः | दीर्घायुष्ट्रं मनोलाभः सौकुमार्यमभीप्सितम् | अप्रधृष्टमन्ल्पत्वं महासामर्थ्यमेव च | सन्तु मे कार्तवीर्यस्य हैहयेन्द्रस्य कीर्तनात् | य इदं कार्तवीर्यस्य कवचं पुण्यवर्द्धनम् | सर्वपापप्रशमनं सर्वोपद्रवनाशनम् | सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् | विजयार्थप्रदं नॄणां सर्वसम्पत्प्रदं शुभम् | शृणुयाद्वा पठेद्वापि पूजयेद्वापि पुस्तकम् | नित्यं शिरसि यो धत्ते सर्वान् कामानवाप्नुयात् | मुच्यते सर्वदुःखैस्तु सर्वत्र विजयी भवेत् | मारीचौरादि पीडाद्यैर्न कदाचित् प्रबाध्यते | पठतः प्रातरुत्थाय दुःस्वप्नादि विनश्यति | लभते वाञ्छितानर्थान् पूज्यते त्रिदशैरपि | शययातलगतो रात्रौ य इदं कवचं पठेत् | न तस्य तस्करारातिदुःस्वप्नादिकृतं भयम् | चौरैर्यदा हृतं पश्येत् पश्वादिधनमात्मनः | सप्तवारं तदा जप्त्वा निशि पश्चिमदिङ्मुखः | सप्तरात्रेण लभते नष्टद्रव्यं न संशयः | सप्तविंशतिधा जप्यात् प्राचीदिग्वदनो यदि | तदा देवासुरनिभं परचक्रं निवारयेत् | विवादे कलहे घोरे पञ्चधाः यः पठेदिदम् | विजयो जायते तस्य न कदाचित् पराजयः | सम्यक् द्वादशधा रात्रौ प्रजपेद्बन्धमुक्तये | त्रिदिनान्निगडग्रस्तो मुच्यते नात्र संशयः | अनेनैव विधानेन सर्वसाधनकर्मणि | असाध्यमपि सप्ताहात् साधयेन्मन्त्रवित्तमः | यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान् | न तस्य चौरव्याग्राद्यैर्भयं स्यात् परिपन्थिभिः | नित्यं गृहगतो जप्त्वा कल्याणैः परिपूर्यते | न भयं जायते तस्य दुष्टसत्त्वादिभिः क्वचित् | सर्वरोगप्रपीडासु त्रिधा वा पञ्चधा पठेत् | प्. ४८१) स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते | जगन्नासेचनं कुर्याज्जलेनाञ्जलिना तनौ | न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते | त्रिसन्ध्यं यः पठेदेतत् षण्मासं विजितेन्द्रियः | कालमृत्युमपि प्राप्तं जीयान्नास्त्यत्र संशयः | पठतः कवचञ्चेदं विषं नाक्रमते तनौ | न जाड्यान्धत्वमूकत्वं नोपसर्गभयं क्वचित् | विंशत्या चोक्तविधिना ध्यात्वा देवं तदात्मकम् | मन्त्री गुरुप्रसादाप्तं मन्त्रराजं जपेत् पुनः | कवचेनावृतो भूयो मन्त्रध्यानं समाचरेत् | आदौ सम्बोधनं कुर्यात्तन्नामध्यानपूर्वकम् | चतुरश्चक्रमन्त्रणामुच्चरेद्वीजपूर्वकान् | कृत्वान्ते चैव मन्त्राणामुच्चरेद्वीजपूर्वकान् | शरीरे न्यासमेवं हि यः करोति समाहितः | स यथोक्तं लभेत् सद्यः फलं वज्रतनुर्भवेत् | यथातथेदं कवचं कस्यचिन्न प्रकाशयेत् | गोपनीयं प्रयत्नेन शिवस्य वचनं यथा | सुभक्ताय सुशिष्याय दद्यात् सर्वस्वदायिने | साधकानां हितार्थाय यदुक्तं चन्द्रमौलिना | कार्तवीर्यस्य कवचं यदुक्तं वै मया तव | तेन संवीक्षितो देवि ! कालेनापि न जीर्यते | तस्मात् सर्वप्रयत्नेन कवचं धारयेत् सुधीः | कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली | सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्द्धरः | रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः | द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् | सम्पदस्तस्य जायन्ते जनास्तस्य वशे सदा | इति श्री उड्डामरेश्वरतन्त्रे कार्तवीर्यार्जुनकल्पे उमामहेश्वरसंवादे कार्तवीर्यार्जुनकवचं नामाष्टाशीतिपटलः समाप्तः | इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे प्रशाखाकथनं नाम तृतीयः परिच्छेदः | अथ कुक्कुटप्रयोगः | फेत्कारिणीतन्त्रे द्वितीयपटले | अथ वक्ष्ये संग्रहतः कुक्कुटमन्त्रमहं मनुसारम् | जगतामुपकारपरैः क्षपणकगुरुभिर्यथा पुरा प्रोक्तम् | प्. ४८२) नान्तं षष्ठस्वरपरिगतं बिन्दुमत् कुक्कुटाख्यं वीप्सै तत्त्वां पुनरपि पदं वीप्सितं पूर्वकं तत् | नान्तं भूतस्वरपरिगतं वेति मन्त्रोऽयमुक्तः स्यादायुः श्रीविभवसुखसौभाग्यसम्पत्प्रदायी | प्रोक्तः पञ्चदशार्णोऽयं मन्त्रः कुक्कुटदैवतः | स सर्वदेवतातेजःशक्तिवृंहितविग्रहः | क्षीरोदधिमध्यगते द्वीपवरे कनकरत्नमयभूमौ | अनवरतसिकतामुक्तामणिमृदुपवनसुशीतले रम्ये | तत्र समुत्थितममलं विपुलतरं कलितवररत्नफलजातम् | हैमं तालमहीजं बहुमणिविलसद्विचित्रपत्रवरम् | तं पुनरधितिष्ठन्तं ध्यायेदखिलोज्ज्वलनाङ्गम् | अतिशोभाचूडाशोभितवक्त्रम् कुक्कुटमतितीक्ष्णनखचरणम् | वक्त्रं यस्य षडाननो गिरिसुता यस्योदरं कालहा पृष्ठं यस्य च वर्हिकुक्कुरमुखौ पादौ च वक्रेतरौ | पक्षौ यस्य सुरद्रुमौ मणिमयौ या शृङ्खलाबन्धनी कामाकर्षकरीकरोतु स तु नः सर्वानासौ कुक्कुटः | गौरीहस्तारविन्दे त्वनिशमधिवसन् षण्मुखारूढकामः सर्वालङ्कारदीप्तः प्रचलितचरणः पक्षविक्षेपदक्षः | हेमाभो रत्नचञ्चूमणिमयविलसद्वृत्तकण्ठः स्वरूपः पायान्नस्ताम्रचूडः सकलजनरतः सर्वसिद्धिप्रदाता || १ || अथवा | सर्वप्रियः सागरमध्यरत्नद्वीपस्य तालागनिवासिकुक्कुटः | विद्याभिरामोऽखिलभूषणाढ्यो वशीकरोत्याशु सुसेवितो नरैः | अमुष्य पूर्वसेवार्थमेकलिङ्गे शिवालये | देवस्य महतीं पूजां कृत्वा आसीदुदङ्मुखः | पर्वताग्रे नदीतीरे वृषशून्यशिवालये | पश्चिमद्वारसंयुक्ते कुर्यान्मन्त्रपुरष्क्रियाम् | गुरुं प्रणम्य शिरसा आसनं परिकल्पयेत् | करशुद्धिं देहशुद्धिं तालत्रयमथाचरेत् | दिग्बन्धनं कारयेत् पश्चाद् विद्यामन्त्रेण तत्परः | प्राणायामत्रयं पश्चात् प्रणवेन तु कल्पयेत् | मातृकां विन्यसेत् पूर्वं पश्चान्न्यासं समाचरेत् | पक्षिमन्त्रस्य प्रथमं हृन्मन्त्रं तं विनिर्दिशेत् | द्वितीयपदमुच्चार्य शिरसैव तु योजयेत् | प्. ४८३) वां शिखायाञ्च विन्यस्य वर्मपक्षितृतीयकम् | तुरीयपदमुच्चार्य नेत्रे च विनियोजयेत् | पुराभ्याञ्चास्त्रसंयुक्तमङ्गषट्कं विधीयते | नमः स्वाहा वषट् हुञ्च वौषट् फट् च क्रमान्न्यसेत् | पुमादिवान्तवर्णांश्च क्रमशो विन्यसेत् सुधीः | ललाटे बिन्दुमध्ये च चक्षुःश्रवणयोरपि | नासाविवरयोश्चैव आस्ये कण्ठे तथा हृदि | जठरे नाभिदेशे च लिङ्गे गुह्ये च विन्यसेत् | नमोऽन्तेन तु मन्त्रेण मूर्ध्नादिव्यापकं न्यसेत् | एवं विन्यस्तदेहस्तु ध्यायेद्वह्निशिवात्मकम् | मनसा देवमभ्यर्च्य षोडशैरुपचारकैः | विज्ञाप्यावाह्य यागेन देवं सन्तोष्य यत्नतः | ध्यात्वा कुक्कुटदेवञ्च जपेद्भानुसहस्रकम् | तावच्छतं तर्पयित्वा पुरश्चर्याट्टतो भवेत् | वश्याकर्षणविद्वेषस्तम्भनोच्चाटनादिकम् | कर्माणि कुर्यादिष्टानि मन्त्रेणानेन मन्त्रवित् | आलिख्य मन्त्रेण विदर्भितं तत्साध्याह्वयं तालवरस्य पत्रे | प्राणान् प्रतिष्ठाप्य शतं यथाष्टौ जप्त्वा धृतञ्चेत् शरणं प्रयाति | ताम्बूलं यद्यष्टोत्तरसहस्रं जप्त्वा दत्तं भुक्त्यै यस्याः | वश्या नित्यं प्रत्युपदेशाद्दास्यत्यर्थान् प्रार्थितभोगान् | मन्त्रं जपन्नथ पञ्चकमलं यः कनकाह्वयमङ्गपञ्चयुक्तम् | भक्ष्यभोज्यविधिषु प्रतियोज्यं सास्य याति वशगा मरणान्तम् | मूलं तस्य च मूलकेन सहितं चिताह्वयस्य त्वचं पुष्पं बीजसवीर्यहस्तिकुसुमं स्वर्णासिकान्तर्जलम् | पत्रं रोहिणमङ्गपञ्चकमलं तद्भाण्डयुक्तं मिथो दत्तं वा पुरुषस्य तद्धृतमिदं वश्याङ्गना मन्मथैः | अष्टोत्तरशतं जप्त्वा हयमारप्रसूनकम् | सप्तरात्रौ क्षिपेद् यस्य मूर्द्ध्नि सास्य वशीभवेत् | हयमारं करवीरम् || भूर्जे साध्यविदर्भितं मनुमिमं संलिख्य कौलालमृत्स्नाकाकल्पितपुत्तलीहृदि कृतं प्राणान् प्रथिष्ठाप्य च | जप्त्वा सप्तदिनं त्रिसन्ध्यमथ तामालोड्य भाण्डीरसैर्लिम्पेद्वश्यमवश्यमेव भविता चान्येषु जन्मस्वपि | भाण्डी भार्गी || अष्टोत्तरशतं जप्त्वा समूलकाण्डां कृताञ्जलिं शिरसा | प्. ४८४) धारयति सर्वलोकप्रियो भवेन्नियतमेव मन्त्रिवरः | कृताञ्जलिर्लज्जावती | तच्छतमखवल्लीलक्ष्मीपुष्पाणि धारयेदेवं समुदाभद्रकविष्णुप्रियाश्च मूषली स मन्त्रजापेन | मधुकं दूर्वां सहाञ्चैव यथाधृतम् शिरसा | सा तथैवैकं स्वर्गलोककल्याणनयनसमर्थकम् | का कथा मनुष्यलोकेषु दश रविवसुरुद्रमनुषु | अष्टवाक्षिविश्वद्रोगभागे अञ्जल्यादि क्रमशः | संयोज्यादशकमखिलवश्यकरम् | प्रत्येकं शतमष्टौ जप्त्वा संयोज्य दशकमपिष्ट्वा गुटिकीकृत्य सहस्राष्टकं जप्त्वा गुटिकया रचिता तिलकक्रिया सुरनारीनरलोकरञ्जनादिकं कपिलाधृतदीपितया तत्तच्चूर्णगर्भया वर्त्या कज्जलमुद्धृतमिव तत्कर्पूरयुतं सहस्रं परिजप्तम् | दिनमनुदिननयनयुतं कुर्यादखिललोकमवश्यवश्यकरम् || एते वश्याप्रयोगाः | आत्मानं कुक्कुटं ध्यात्वा स्वकीयगणशक्तया | साध्यां शृङ्खलया कण्ठे बद्ध्वा किषमनुव्रजेत् | सहस्रमर्द्धरात्रे तु रात्रित्रयमतन्द्रितः | तुरीयकुक्कुटस्यान्ते साध्यनाम स्वकर्म च | जपेत् संयोज्यवश्यादिकार्येषु सकलेष्वपि | यामारभ्य जपेदेनं पेषितं सा मदालसा | बिभ्रत् सदार्द्रवसना मदनाकुलचेतना | उत्फुल्लगुह्यजघना शिथिलांशुकभूषणा | चलत्पादपरिन्यासा स्फुरद्रोमाञ्चकञ्चुका | कामानलोष्णनिश्वासा शोभिताधरपल्लवा | विकीर्णकेशपाशासौ वेपिता घूर्णितेक्षणा | रचिताञ्जलिरायाति स्वयमस्यालयं निशि | साध्याह्वानविदर्भितं मनुमिमं ताम्बूलपत्रोदरे लेखन्या प्रतिलिख्य कर्मसहितं प्राणान् प्रतिष्ठाप्य च | जप्त्वाष्टौ शतमर्कदुग्धजनिता दीपे त्रिरात्रान्तरे | गुप्तं दीपशिखाग्निना स्वयममुं वश्योर्वशी चाश्रयेत् | भूर्जे मन्त्रममुं विलिख्य सकलं साध्याह्वयासम्पुटं प्राप्तप्राणमथाष्टकोत्तरशतं जप्तं त्रिरात्रं पुनः | क्षौद्रक्षीरघृतेष्विदं पृथगपि प्रक्षिप्य मन्त्रं जपन्नाकर्षत्यचिरादभीष्टवनितां नागादिलोकादपि | प्. ४८५) आलिख्यैव शरावके मनुमिमं तन्नामकर्मान्वितम् | रात्रौ रोचनया प्रणीतपवनं जप्त्वा च साष्टौ शतम् | तस्या नाभिमुखाङ्गजन्मभवनं सन्तापयन् खादिरे वह्नौ चैतमनङ्गवेगविवशा या वा समयाति च | नाभिमात्रजले स्थित्वा साध्यनामविदर्भितम् | जपेत् सहस्रं त्रिदिनमिष्टामाकर्षयेद् ध्रुवम् || इत्याकर्षणम् | कपिरोमहिङ्गुदार्वीखरचर्माणि चूर्णयेत् | तच्चूर्णं मन्त्रसञ्जप्तं नामकर्मविदर्भितम् | त्रिसहस्रं पुनस्तेन स्निग्धयोरन्तरात्मनोः | धूपैरतीव विद्विष्टौ स्निग्धावपि भविष्यति | तालपत्रे लिखेन्मन्त्रं नामकर्मविदर्भितम् | कृतप्राणप्रतिष्ठान्तं प्रजप्तं त्रिसहस्रकम् | विषालिप्तं द्विधा कृत्वा निखनेत् सिन्धुतीरयोः | स्निग्धयोराशु विद्वेषः स्यादुमेशानयोरपि | सिन्धुतीरयोः नद्युभयतीरे | उलूककाकयोः पक्षौ गृहीत्वा मन्त्रवित्तमः | मन्त्रे आलिख्य वै शरावे निशायाञ्च साध्याक्षरसम्पुटितं मन्त्रं स्थापितपवनं सहस्रजप्तं चतुष्पथे निखनेत् | स्तम्भनमेतदवश्यं भविता जगताञ्च नात्र सन्देहः | स्थापितपवनं कृतप्राणप्रतिष्ठम् || कृत्वा प्रतिकृतिमथवा श्मशानाङ्गारकेशशववसनजां सपदि सम्यगधिष्ठितपवनां हृद्गतनाम्नीं समन्त्रललाटां वसनाधिष्ठितपवनां सहस्रजप्तां प्रतिष्ठितप्राणाम् | बन्धनं प्रति तीक्ष्णतरं स्तम्भनमतितीक्ष्णाम्बुनिक्षिप्ताम् | लिखितमन्त्रचितामयकीलकं सहितकर्म सनाम समारुतम् | कृतजपं त्रिसहस्रकसंख्यायाः पथिस्वनेदथ याननिवारणम् | विहितनिम्बतरौ रिपुनामयुतं मनुमिमं निशया कृतनामकम् | नवसहस्रजपादिषु साधितं पथि खनेत् परसैन्यनिरोधनम् || इति स्तम्भनम् || अङ्गारकं पितृभुवो रिपुनैधनर्क्षे जप्त्वा विनिर्मितमिदं पितृभूगताग्नौ | दग्ध्वा च तब्भसितमिश्रितमात्रशत्रोरालिख्य नाम मनुकर्मयुतं स्वमूर्द्ध्नि | प्. ४८६) क्षिप्रं स चालयति चाष्टसहस्रजप्तं जप्त्वा शिवे कुजदिने सचतुर्दशीके | कर्माह्वयमानम्पुटं मनुम् | सहस्रजप्तं निखनेद् द्विषां गृहे द्वारे तदुच्चाटनमाशु जायते | निरस्य काकनिलयं पितृभूगताग्नौ दग्ध्वा च तद्भसितमिश्रितमन्त्रिशत्रोः | आलिख्य नाम मनुमर्मयुगस्य मूर्ध्नि प्रोच्चाटयेच्चाष्टसहस्रजप्तम् | जप्त्वा शिवे कुजदिने सचतुर्दशीके कर्माह्वयाढ्यमनुना त्रिसहस्रजप्तम् | दत्तं विधाय रिपुमूर्ध्नि विनिक्षिपेच्च प्रोच्चाटयेद्रिपुमसौ द्रुतमाशु चैतत् | श्मशानजे चेले वा रिपुनामकर्मसंयुक्तं मन्त्रपञ्चसहस्रजप्तम् | द्वारि क्षिपेदमुकामुकस्य शत्रोरुच्चाटयेत् सप्तदिनान्तराले | कीलं चिताकाष्ठ मयञ्च मन्त्री कर्मान्वितं चाष्टसहस्रसंख्यम् | मन्त्र्ण जप्तं निखनेदरातिगेहे तमुच्चाटयति क्षणेन | उन्मत्तरसालोचितामसीसकारूपक्षणविधिना | कारस्करफलकान्तमनुं लिखेत् कर्मनामसम्पुटितम् | स्थाप्य प्राणानस्मिन् द्विषतोऽष्टविषानुलिप्तसंसिद्धम् | तत्रैव सहस्रजप्तं श्मशानदेशे चतुष्पथे वापि | निखनेदरिभवने तदष्टमर्क्षे रिपोः क्षिप्रं देशान्तरमथवासौ | मस्येति तेनोद्विजितलोकान्तरं सदा रोगी || इत्युच्चाटनम् || मन्त्रं साध्यस्य नाम प्रतिपुटितमथालिख्य तालस्य पत्रे पुत्तल्यां तन्निधायार्पितपवनमथो जप्तमष्टौ सहस्रम् | रात्रावुन्मत्तदीप्ते पितृवनजनिते तीक्ष्णतैलेन लिप्तं छित्वा छित्वा निशार्द्धे त्रिदिनपरिमिते मोहयेन्मारयेद् वा | मध्यार्कवृक्षकृतरूपमधिष्ठितेऽनुजप्तं सहस्रमपि कीलयति श्मशाने | मन्त्रेण दारयति साधितमन्त्रमङ्गं यद्यद्रिपोरपि विनश्यति तत्तदङ्गम् | वैरिप्रस्रवमृत्तिकापदरजःसंयुक्तचक्रीमृदा कृत्वा पुत्तलिकाञ्च नाम हृदये शीर्षे पदे वा लिखेत् | अङ्गारैः पितृभूगतैर्मनुमिमं तन्नामकर्मान्वितम् | तस्य न्यस्य हृदीदमाशु पवनं संयुक्तचक्रीमृदा | प्. ४८७) कृत्वा पुत्तलिकाञ्च नाम हृदये शीर्षे पदे वा लिखेत् | अङ्गारैः पितृभूगतैर्मनुमिमं तन्नामकर्मान्वितं तस्य न्यस्य हृदीदमाशु पवनं जप्यात् सहस्रत्रयम् | सञ्छित्त्वैवमखण्डितेन शतधा शस्त्रेण तां पुत्तलीं याम्याशाभिमुखो दिनानि दशभिर्दीप्ते श्मशानानले | तैलं तीक्ष्णतरण् निषिच्य जुहुयात् नैधन्य-ऋक्षेऽथवा मन्त्री प्रेतपतेः पुरं द्रुतमसौ यास्यत्यरातिर्ध्रुवम् | नैधन्य-ऋक्षे शत्रोर्बधतारायाम् | अङ्गारवारे कुलिकोदयेरिपोरालिख्य पत्रे प्रतिमां प्रतिष्ठिताम् | प्राणान् प्रतिष्ठाप्य विषानुलिप्तां श्मशानभूमौ जुहुयाद्विनश्येत् | रिपोः प्रतिकृतिं कृत्वा गोमयेन च तद्धृदि | तालपत्रे समालिख्य मनुमाख्याविदर्भितम् | विन्यस्य तत्प्रतिकृतेः स्थाप्योपरि च राजतम् | मृण्मयं वा घटं सम्यग् गोमयेन च पूरितम् | तत्रापि निक्षिपेन्मन्त्रं लिखिताख्यपुटं बुधः | वैरिप्राणान् प्रतिष्ठाप्य तस्मिन् गोमयवारिणि | त्रिसन्ध्यं प्रजपेत्तस्मिन् छायायामाद्भविष्यति | दृष्ट्वा तां गोमयजले रिपुच्छायां समाहितः | अस्त्रेण छेदयेदङ्गं यस्य यद्यदभीप्सितम् | तत्तद्विनश्यति रिपोः सप्ताहान्नात्र संशयः | हृदयोदरकण्ठेषु छिन्नेषु भविता मृतिः | शिरोरोगो भवेत्तस्य व्रणे शस्त्रेण मस्तके | शुण्ठी हिङ्गु च चित्रकं मरीचं रोहिपिप्पली | मन्दीबधूमयूरकल्पं प्रोक्तमेतद्विषं बुधैः | कारस्करमामलकीमौडुम्बरजम्बूखदिरकृष्णा च | वंशपिप्पलनागौ रोहिणमलिनासनभ्रुमालिकाः | अरिष्टबिल्वविकङ्कतकदम्बवकुलत्वक्संज्ञाः | वञ्जुलपनसार्कशमीकदम्बनिम्बप्रकाशमूलञ्च | ततः सहस्रमनुमादरात् जपति यः स रमाभवनं भवेज्जपविधौ कपीसीकुसुमैः | सिद्धजपे तु कुक्कुटमन्वहम् अष्टोत्तरं मनुमिमं प्रजपेत् सहस्रं ध्यायेन्महेशमनुकुक्कुटरूपकण्ठम् | पञ्चार्चितोऽस्य भवनञ्च मनोरथाद्यैरापूर्यते बहुविधैरपि वत्सरेण | नित्यं ग्न(?) त्युषसि प्रतीतमनसा पादेन भूधारिणा रत्नान्येव समन्ततः स्वपुरतः पर्याक्षिपन्तं मुहुः | ध्यात्वा कुक्कुटमीशरूपमथवा भूत्यैव माया स्वयम् | भक्त्या यः प्रजपेदुपेन्द्रमितरं प्राप्येन्दिरा लक्षयेत् | तत्त्वेन खण्डीकृततालवृत्तां क्ष्मां छादयेत्तां फलरत्नखण्डैः | ध्यात्वा मनुं स्वं नयने जपेद् यो विद्विष्टमाखण्डलवत् समेति | दोधूयमानो निजपक्षपत्रवत् परार्द्धरत्नं किरणकनकरागपुष्पम् | ध्यात्वा सुनिर्नियतमेव मनुं प्रजप्य प्रौढां श्रियं भृशमवाप्स्यति रत्नपूर्णाम् | भूमौ काञ्चनमृत्तिकापदरजोराजीं किरन्तं मुदा कूजन्तं चरणेन धान्यनिचयानाकीर्य चञ्चादिना | सञ्चिन्त्योज्ज्वलताम्रचूडमरुणं किञ्चित् समाकुञ्चितग्रीवं यः प्रजपेदमुष्य भवनं धान्यादिभिः पूर्यते | दशौषधदग्धभसितमनुनामुना कृतजपं निशि वसाधृतम् | दुरितरोगविषभूतभयापहं भजतां वशीकरणमतीव रमाकरम् || स्थलजेन्धनचर्मभसितं त्रिधा विधिवत् सहस्रजप्तमभिरक्षति चाखिलम् | भूर्जपत्रमभिलिखितनाममात्रकं नरमाशु रक्षति धृतं जपान्वितम् | मनुना तण्डुलमनुना | सहस्रजप्तं तद्वत् कुक्कुटं यो वेत्ति सोऽसौ | कुक्कुटसङ्घान् स्वकीयान् युद्धे जेष्यति क्षिप्रम् | स्मृत्वा सहस्रमपि सञ्चिन्त्य कुक्कुटं जपेत् | जेष्यति सपदि रणे स्वभटे चरणायुधैः समायातः | बहुना किमत्र मनुना लिखितं परिवाञ्छितं सपदि साध्यतरम् | अचिरेण तस्य भवने जपतो वसतिं प्रयाति कमला विमला | इति जपनिरतानां कुक्कुटं लक्षयित्वा क्षपणकमनिवाहक्षिप्तभूतारिपक्षः | त्वरितनिवहपक्षक्षेपकः सर्वभक्ष्य प्रणतसुजनरक्षी वीक्षितानां स्वपक्षः | निखिलमभिमतानामर्थिनां कल्पवृक्षः सुरवरनरनारीरञ्जनाकृष्टिदक्षः | अनन्तं बिन्दुसंयुक्तं पुङ्कोलिद्वितयं ततः | वां शक्तिश्चाथ पुङ्कोलियुगलं विलिखेत्ततः | वुकारं वरुणारूढमनन्तं वासबिन्दुकम् | क्रोशन्तमुद्धरेन्मन्त्रं कुक्कुटं सुमनोहरम् || इति कुक्कुटप्रयोगः || अथोच्छिष्टाचाण्डालीप्रयोगः || तत्रैव षष्ठपटले || श्रीपार्वत्युवाच || सूचिता मे पुरा शम्भो ! मन्त्रा नैकविधास्त्वया | इदानीं श्रोतुमिच्छामि देवीमुच्छिष्टपूर्विकाम् || शम्भुरुवाच || शृणु देवि ! वरारोहे ! देवीं तां कथयाम्यहम् | यया विज्ञातमात्रेण अभूद्विद्यामयो नरः || श्रीदेव्युवाच || को विधिः किं फलं चास्या मयि विद्यास्वरूपतः | कथ्यतां देव ! यत्नेन रहस्येनं निवेदितम् || शम्भुरुवाच || शृणु देवि ! विधिं वक्ष्ये फलञ्चोच्चाटनादिकम् | विषञ्च स्थावरं देवि ! विद्याभावान्निहन्ति च | अथान्यत् सम्प्रवक्ष्यामि देवीं गुह्यतमां प्रिये ! | उच्छिष्टपूर्विकां देवीं मातङ्गीं सर्वसिद्धिदाम् | सर्वपापहरां देवीं सर्वदोषविवर्जिताम् | यया विज्ञातया एकाः क्षयंगच्छन्ति चापदः | स्थावरं जङ्गमञ्चैव कृत्रिमं जङ्गमं तथा | विषं जयति देवेशि ! स्थावराङ्गसमाश्रितम् | इयं विद्या पराविद्या सर्वपापविनाशिनी | स्वर्गदा मोक्षदा चैव राज्यसौख्यफलप्रदा | इयं देवी मया पूर्वं साधिता विषवर्जिता | सकृदुच्चारिता विद्या ब्रह्महत्याविशोधनी | सर्वपापविहन्त्रीयं सर्वसौभाग्यदायिनी | यद्युच्छिष्टमुखो भूत्वा स्मरेद्देवीं कदाचन | तदाचान्तो भवेद्देवि ! विनैवाचमने कृते | दुर्भगा सुभगा नूनं दुःखिता सुखिता भवेत् | बन्ध्यापि लभते पुत्रं शतहायनजीवितम् | निर्धनो धनमाप्नोति मूर्खो विद्यामवाप्नुयात् | यां यां प्रार्थयते सिद्धिं हठात्तां तामवाप्नुयात् | विधानं ह्यत्र वक्ष्यामि शृणु देवि ! मनोरमे ! | भोजनानन्तरं देवि ! विनैवाचमने कृते | बलिं दत्त्वा प्रथमतो मूलमन्त्रेण साधकः | ततो मन्त्रं जपेद्ध्यात्वा देवीं तामिष्टसिद्धये | मन्त्रं शृणु महादेवि ! यथावत् कथयामि ते | प्. ४९०) नम उच्छिष्टपूर्वन्तु तथा चाण्डालिनीति च | सुमुखी च ततो देवी कीर्तयेत्तदनन्तरम् | महापिशाचिनी तस्माल्लज्जावीजमतः परम् | नादबिन्दुसमायुक्तं ठकारद्वितयं पुनः | सविसर्गं महादेवि ! सर्वसिद्धिप्रदायकम् | न तिथिर्न च नक्षत्रं नोपवासो विधीयते | नाङ्गन्यासकरन्यासौ न वर्णन्यास ईरितः | न विदेशो न वा विघ्नो नाशौचं नियमो न च | यस्य तिष्ठति मन्त्रोऽयं न न स विघ्नैरवाप्यते | ध्यानमस्याः प्रवक्ष्यामि यथावज्जगदीश्वरि ! | शवोपरि समासीनां रक्ताम्बरपरिच्छदाम् | रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् | षोडशाब्दाञ्च युवतीं पीनोन्नतपयोधराम् | कपालकृतकाहस्तां परमज्योतिरूपिणीम् | बालदक्षिणयोगेन ध्यायेन्मन्त्रविदुत्तमः | उच्छिष्टेन बलिं दत्त्वा जपेत्तद्गतमानसः | उच्छिष्टेनैव कर्तव्यो जपोऽस्याः सिद्धिमिच्छता | उच्छिष्टजपमानस्य जायन्ते सर्वसिद्धयः | अपरञ्च प्रवक्ष्यामि शृणु देवि ! फलप्रदम् | होमं सन्तर्पणञ्चास्याः सहसा कार्यसिद्धये | स्थण्डिले मण्डलं कृत्वा चतुरस्रं समाहितः | पूजयेन्मण्डलं देवि ! मूलमन्त्रेण मन्त्रवित् | ततो देवीं समाधाय वह्निरूपां व्यवस्थिताम् | देवीं ध्यात्वा चर्द्धोमं दधिसिद्धान्नतण्डुलैः | सहस्रैकं विधानेन राजा भवति वश्यगः | मार्जारस्य तु मांसेन यो देव्यै होममाचरेत् | स प्राप्नोति परां विद्यां शस्त्रशास्त्रवहिष्कृताम् | कुर्यात्तु छागमांसेन होमं मधुसमन्वितम् | सहस्रैकं विधानेन भवन्ति धनसिद्धयः | विद्याकामश्चरेद्धोमं शर्करामधुपायसैः | पुनस्तस्य भवन्त्येव सिद्धविद्याश्चतुर्दश | रजस्वलाया वस्त्रेण मधुना पायसेन च | होमं कृत्वा महादेवि ! त्रैलोक्यं वशमानयेत् | नागवल्ल्या चरेद्धोमं मधुना सह सर्पिषा | अयुतैकं विधानेन सिद्धिविद्या भवेद् ध्रुवम् | सद्यो मार्जारमांसेन घृतेन मधुना सह | प्. ४९१) चाण्डालकेशयुक्तेन भवेदाकर्षणं ध्रुवम् | शशकस्य तु मांसेन मधुनालोडितेन तु | कृत्वा होममवाप्नोति विद्यां वित्तं वराः स्त्रियः | धुस्तूरार्कस्य योगेन चितावह्नौ तु मन्त्रवित् | कोकिलाकाकपक्षैश्च होमः शत्रून् विनाशयेत् | उच्चाटनाय शत्रूणां होमं कुर्याच्च मन्त्रवित् | पूर्वोक्तेन विधानेन चिताकाष्ठहुताशने | उलूककाकपक्षाभ्यां कृत्वा होमं निरन्तरम् | वेधयेच्छत्रुमन्योन्यं कलहाकुलमुद्धृतम् | उलूकपक्षहोमेन गर्भपातो वरस्त्रियः | सहस्रैकं विधानेन कुर्याद्धोमं समाहितः | बिल्वपत्रेण साज्येन मासमेकं निरन्तरम् | अपि बन्ध्या लभेत् पुत्रं चिरजीविनमुत्तमम् | बन्धूककुसुमं हुत्वा रक्तं मधुसितान्वितम् | दुर्भगाया हठाद्देवि ! सौभाग्यसुखदायकम् | प्रातरुत्थाय यः कश्चित् कुर्याद्धोमं दिने दिने | जवापुष्पेण साज्येन शतमष्टोत्तरं प्रिये ! | षण्मासस्य प्रयोगेण भवेदाकर्षणं ध्रुवम् | देवगन्धर्वमर्त्यानां कन्या नागाङ्गना द्विजाः | हठादागत्य कामार्ता बलादालिङ्गयन्ति तम् | विद्यायाः क्रियते होमस्तिलपायसमिश्रितैः | स प्राप्नोति महाविद्यां शास्त्रौघपदशालिनीम् | मधुना रुरुमांसेन होमं कुर्यात् प्रयत्नतः | विद्यावान् धनवान् बुद्धिं शस्त्रशास्त्रवशीकृताम् | इयं देवी महादेवि ! वामाचारफलप्रदा | दक्षिणाचारयोगेण न भवेत् फलदायिनी | सभाजनान्तरञ्चास्या बलिं दत्त्वा दिने दिने | उच्छिष्टेन जपेन्मन्त्रं शतमष्टोत्तरं प्रिये ! | उज्जटे वा श्मशाने वा शून्यागारे चतुष्पथे | बलिप्रदानतो देवी प्रत्यक्षा भवति ध्रुवम् | एषा देवी मया ख्याता भैरवाकारमिच्छता | इत्येषा कथिता देवी सर्वपापापहारिणी | मन्त्रस्योच्चारणाद्देवि ! सर्वपापविवर्जितः | उच्छिष्टदूषणं त्यक्त्वा स पवित्रो भवेद् ध्रुवम् | इत्युच्छिष्टचाण्डालिनी देवी भुवनविश्रुता | नानाप्रवर्तने काञ्चिद्विद्यां शृणु वरानने ! || (प्. ४९२) श्रीशिव उवाच || शृणु देवि ! महाविद्यां समयाकारधारिणीं | न तिथिर्न च नक्षत्रं न साध्यादिं विचारयेत् | महादेवीति विख्याता शिवदीक्षान्तगामिनी | यज्ञोपवीतं देवेशि ! धार्यते साधकेन वै | उच्छिष्टेनार्चयेद्देवीं महादेवेन साधिताम् | नान्यमवगतस्तिष्ठेत् सर्वग्रन्थं सुविस्तरम् | बहुनोक्तेन किं देवि ! त्रैलोक्यमपि साधयेत् | सदा कालन्तु मन्त्रोऽयं स्मर्तव्यस्त्रिपुरारिणा | पयोगुडेन भक्तेन मांसेन जुहुयान्नरः | आयुर्धनञ्च पुत्रांश्च विद्यामष्टादशीं लभेत् | गोप्तव्येयं प्रयत्नेन कथितव्या न कस्यचित् | गुरुभक्तिः प्रदातव्या कायेन च धनेन च | लोकापवादो न च देवि ! पापं नैवापरा तिष्ठति मर्त्यलोके | मर्त्त्यलोके सुखं भुक्त्वा परे देवीपुरं व्रजेत् | मोक्षैकसारां धनदैकसारां विद्यैकसारां शृणु देवि ! विद्याम् | सर्वोपकारां परमार्थसारां महानुभावां भुवि कामधेनुम् || इत्युच्छिष्टचाण्डालिनीप्रयोगः || मत्स्यसूक्ते अष्टपञ्चाशत्पटले ! ग्राममेधं प्रवक्ष्यामि कृते रोगैर्न बाध्यते | अकृते मरणं ग्रामे तस्मात् कुर्यात् प्रयत्नतः | तत्र सम्पूजयेद्देवीं शिवं विष्णुं प्रजापतिम् | भद्रकालीञ्च क्षेत्रेशं घण्टाकर्णं विशेषतः || अथ धूमावतीप्रयोगः || फेत्पारिणीतन्त्रे || धूमावतीप्रयोगोऽयमधुना कथ्यते मया | दान्तौ सार्घीशविन्द्वन्तौ बीजे धूमवतीह्द्विठः | धूमावतीमनुः प्रोक्तो वैरिनिग्रहकारकः | षडङ्गं जातिसंयुक्तं कल्पयेत्तेन मन्त्रवित् | पिप्पलादो मुनिश्छन्दो नीवृदेषा च देवता | विवर्णा च~चला कृष्णा दीर्घा च मलिनाम्बरा | विमुक्तकुन्तला रूक्षा विधवा विरसद्विजा | काकध्वजरथारूढा विलम्बितपयोधरा | सूर्पहस्तातिरूक्षाक्षा धृतहस्ता वरान्विता | प्रवृद्धघोणा तु भृशं कुटिला कुटिलेक्षणा | क्षुत्पिपासार्दिता नित्यं भयदा कलहास्पदा | प्. ४९३) एवंविधां समाध्यायेत्ततः कर्म समारभेत् | चतुर्थेन तु वर्णेन षष्ठस्वरयुतेन च | षड्दीर्घजातियुक्तेन कुर्यादङ्गानि मन्त्रवित् | जपेत् कृष्णचतुर्दश्यां पुरश्चरणसिद्धये | उपवासरतो मन्त्री शून्यागारे दिवानिशम् | श्मशाने विपिने वापि जपेल्लक्षन्तु वाग्यतः | सोष्णीषः सार्द्रवासाश्च पुरश्चरणकर्मणि | साध्योपरि मन्त्रमालिख्य तस्मिन् स्थाप्य शिवं व्रजेत् | अवष्टभ्य शिवं शत्रुनाम्नाथ प्रजपेन्मनुम् | सहस्रादूर्द्ध्वतः शत्रुर्ज्वरेण परिगृह्यते | पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा | मन्त्राद्यक्षरमालिख्य शत्रुनाम ततः परम् | द्वितीयन्तु मनोः शत्रोर्नामैकं मनुमालिखेत् | वनेऽयुतं जपेत् शत्रोर्निश्चितं मरणं भवेत् | कृत्वा मन्त्रे रिपोराख्यां मारणे यामिनीदले | उत्सादो जायते शत्रोर्मनोरयुतजापतः | दग्ध्वा काकं श्मशानाग्नौ तद्भस्मादाय मन्त्रितम् | विरोधिनामाष्टाशासु सद्य उच्चाटनं रिपोः | श्मशानभस्मना कृत्वा शिवं तस्योपरि न्यसेत् | विरोधिनामसंरुद्धं कृष्णपक्षे समुच्चरेत् | महिषीक्षीरधूपञ्च दद्यात् शत्रुविपत्करम् | महिषीरूपमास्थाय शत्रुं सा विनिपातयेत् | मन्त्रेणानेन निखनेत्तद्भस्म रिपुमन्दिरे | शत्रुमुच्चाटयेत्तूर्णं नात्र कार्या विचारणा | न्यस्य पाणितले शत्रोराख्यानं चितिभस्मना | वह्नावधो मुखं क्रुद्धः स्थापयन्नयुतं जपन् | धूमावतीमनुं मन्त्री शत्रुक्षयपरं नयेत् | प्राग्वत् करतले न्यस्य त्वर्द्धयोर्द्धं रिपोर्न्यसेत् | जलस्थः प्रजपेत् मन्त्री हुङ्कारान्नाशयेदरीन् | श्मशानाङ्गारमादाय कृत्वा पुष्पादिनार्चयेत् | भगलिङ्गं समाभाष्य मनसा कर्म चिन्तयन् | निम्बकाकच्छदानेकीकृत्य चाष्टशतं जपेत् | दद्याद्धूपं साध्यनाम्ना सद्यो विद्वेषयेदरीन् | चिताकाष्ठानले क्षीरहोमाच्छान्तिः प्रजायते | रजोधूपप्रदानेन गृध्ररूपेण कालिका | मारयत्यरिमागत्य शान्तिनिर्माल्यधूपतः | वराहबालधूपेन हन्याद्वाराहरूपिणी | प्. ४९४) अश्वत्थपत्रधूपेन शान्तिर्भवति नान्यथा | शान्तिः सर्वाभिचारस्य पञ्चगव्येन जायते | क्षीरेणापि च देवेशि ! मधुरत्रितयेन च | कीले क्षेडतरोर्विदर्भ्य विलिखेन्मन्त्रेण नामाक्षरं जप्त्वा लेख्यपदद्वये तु निखनेदुच्चाटनं विद्विषाम् | त्वत्पादद्वयधूलिकीर्णहविषा दत्त्वा द्विजेभ्यो बलिं तज्जप्त्वा चितिभस्मकीर्तितमरेर्गेहे च तद्वद्भवेत् | वायव्ये विलिखेच्च पर्णसहितं जप्तं सहस्राधिकम् | जप्त्वा वायुसुरा शिवाक्षदकृशत्वे वा न तद्रोधकम् | चूर्णं तस्य च पल्लवे विनिहितं जप्तं सहस्राक्षरं कान्तं शत्रुगृहेषु तच्छिरसि वा तेषां कुलोच्चाटनम् | जप्त्वारामे श्मशाने च निर्माल्ये पदगोचरे | गर्दभावासभूमौ च भूतस्थाने चतुष्पथे | ऊषरे मेहनाभूमौ पुष्पितावासमेघयोः | आनीय शर्करां मन्त्री दिग्वासा दक्षिणामुखः | श्मशानलोष्ट्रे निक्षिप्य तत्राग्नौ भर्जयेत्तथा | चूर्णं तत्तु जपेल्लक्षं प्रक्षिपेच्छत्रुवेश्मनि | सेनामध्ये च सर्वेषां पक्षादुच्चाटनं भवेत् | गर्ते पिपीलिकानान्तु पादधूली षडाननान् | धृतान्नं सप्तरात्रन्तु जुहुयान्मन्त्रविन्निशि | भ्रमते काकवत् सर्वां महीमामारणाद्रिपुः | कृत्वा प्रतिकृतिं शत्रोर्जन्म-ऋक्षेण मन्त्रवित् | कृत्वा प्रतिष्ठां प्राणस्य विद्ध्वा मर्मसु कण्टकैः | आयसैर्मन्त्रमावर्त्य भौमवारोदयादिषु | धुस्तूररससम्पिष्टचिताङ्गारेण मन्त्रिणा | नित्यस्य पृष्ठतो बद्ध्वकेशपाशेन तं जपेत् | श्मशाने शत्रुमाहूय तद्गृहे निखनेन्निशि | विद्वेषणं भवेत् सद्यो गौरीशङ्करयोरपि | अश्वत्थत्वचि मन्त्रार्णैर्दर्भितं साध्यमालिखेत् | अन्यद्विषतरोस्तद्वज्जप्त्वा तत्कृत्यया न्यसेत् | पूर्वोक्तकण्टकैविद्वान् जपेत् पिष्ट्वा शतं शतम् | विद्विष्टौ भवतस्तौ तु नाम्नामपि च तत्क्षणात् | वर्णांस्तान् विलिखेद्विषाख्यमभितः कोणेषु मन्त्राक्षरैः संरुद्धान् परितः प्रभञ्जनगृहं मध्ये च साध्यं पृथक् | प्. ४९५) अङ्गारैः कनकोद्भवैरपि पदैर्मन्त्रं जपंस्ताडयेत् | कार्पासेन रणे कुजार्कदिवसे भूलोकविद्वेषणम् | आपाद्य पूर्वां मुर्तिञ्च शत्रोरालिख्य शोधयेत् | आतपे निशितां जप्त्वा वह्नेरुपरि लम्बयेत् | एवं सप्तदिनं द्रव्यैराजप्यालिख्य शोधयेत् | व्योमाग्निलशुलोन्मत्तहिङ्गुसिद्धार्थशूरणैः | पिण्डैर्लवणसम्भूतैरुन्मत्तद्रवसङ्गतैः | पेषयित्वा तेन सम्यग् लिखेन्मन्त्री मनुं जपेत् | बलिमध्ये खनेत् कीलं युक्तरूपं तथोपरि | वह्निं प्रज्वाल्य तद्ध्युच्चैर्गव्ययुक्तं हुमेज्जपेत् | निक्षिप्य प्रतिमां तत्र जपेन्नित्यं महामनुम् | सप्तविंशं ततः कुण्डं शून्यागारे च वा हुमेत् | त्रिकोणशूलदीप्ताग्रमेखलात्रितयान्वितम् | तत्रापि निखनेत् कोलं वह्निं प्रज्वाल्य पूर्ववत् | ततः प्रतिकृतिं मन्त्री वह्नेरुपरि लम्बयेत् | उक्त द्रव्येण संलिप्त्वा ऊर्द्ध्वपादामधोमुखीम् | रक्तद्रव्यैः समाराध्य प्रज्वाल्य विषवृक्षजैः | इन्धनैः प्रतिमायाञ्च समित्प्रज्वलितां हुमेत् | आवरणादिभिरामर्त्यो लयं याति न संशयः || इति धूमावतीप्रकरणम् || अथ कृत्यापरिमलप्रयोगः | त्रयोदशपटले || अथातः संप्रवक्ष्यामि मन्त्रं परिमलात्मकम् | येन विज्ञानमात्रेण नासाध्यं भुवनत्रये | रुद्रजाया महायोगी नतो गौरीपदं वदेत् | भुवनभयङ्करीति पदं वर्मान्तमुच्चरेन्मनुम् | अथवा प्रथमादन्यमथातो ब्रह्मणः पदम् | परिमल इत्यादि ब्रह्माद्यखण्डपरिमलः | षड्दीर्घयुक्तबीजेन मन्त्रार्द्धेनास्त्रयोगिणा | हृदयञ्च ततोऽर्द्धेन वर्मास्त्रेण शिरः क्रमात् | शिखाकवचनेत्रास्त्रमेवं न्यासक्रमः स्मृतः | अङ्गिरा च ऋषिर्देवी गायत्रीच्छन्द ईरितम् | सिंहवक्त्रा च भूतानां भयङ्करिण्यतः परम् | महाकृत्या देवता चेत्युक्त्वा न्यासं समाचरेत् | सिंहाननां कृष्णमुखीं लम्बमानपयोधराम् | दंष्ट्राकरालवदनां त्रिनेत्रां सर्वतोज्ज्वलाम् | कृष्णकञ्चुकसंवीतां विधूमाग्निसमप्रभाम् | प्. ४९६) त्रिशूलचक्रमुषलखट्टाङ्गकरपङ्कजाम् | लेलिहानां महज्जिह्वां विद्युत्प्रेक्षसभीषणाम् | ध्यात्वा कृत्यां विधानेन पूजयेन्मन्त्रवित्तमः | ध्यात्वा कृत्यामर्चयति रक्तैः पुष्पैश्च वश्यके | कृष्णा मारणकृत्येषु मांसरक्तासवैस्तथा | कृत्याञ्च मदनां सर्वकुल्यां स्वञ्छादिनीं तथा | भीषणां श्रीमतीं चैव प्रतिष्ठाञ्च ततः परम् | विद्यामभ्यर्चयेदष्टपत्रेषु क्रमशः सुधीः | पूर्वे तु शाङ्करीनाम शुक्लवर्णां वरान्विताम् | द्विभुजां सौम्यवदनां पाशाङ्कुशधरां शिवाम् | दक्षिणे भीषकानाम लम्बजिह्वां सुधामुखीम् | कृष्णवर्णां रक्तमुखीं रक्तमाल्यानुलेपनाम् | चतुर्भुजां सिंहनादाह्लादकाञ्च कपालिनीम् | खड्गहस्तां शिरोमालां सर्वाभरणभूषिताम् | पश्चिमे वारुणीनाम स्वर्णवर्णां हसन्मुखीम् | सुरुद्रमालिकां शुभ्रदंष्ट्रामभयदां सदा | उत्तरे भीमिकानाम चतुर्वर्णभयङ्करीम् | पूजयित्वा जपेन्मन्त्रं नित्यमष्टोत्तरं शतम् | अवाप्य विनियोगस्तु कर्तव्यो मन्त्रिणा सदा | कालं विदित्वा प्रतिमां मधूच्छिष्टेन कारयेत् | द्वादशाङ्गुलं तत् शत्रोर्नखलोमसमन्वितम् | हृदये नामधेयञ्च फट्कारं सर्ववर्मके | अमुष्य प्राण इह चामुष्य जीव इह स्थितः | अमुष्य सर्वेन्द्रियाणि तथा चामुष्य वाङ्मनः | चक्षुःश्रोत्रघ्राणप्राणानिहानयत्वग्निबल्लभा | इति प्राणं प्रतिष्ठाप्य मरिचैर्लेपयेत्ततः | मृतब्राह्मणचाण्डालकेशाभ्यां पादयोः पृथक् | बद्ध्वा कारस्करमये तोरणे चाप्ययोमुखीम् | तस्याधो मेखलायुक्तं त्रिकोणं तत्र कुण्डकम् | तत्र शावं विधायाग्निं परिस्तीर्य शरैस्तृणैः | विभीतकपरिध्या च कल्पयेद् यस्य मारणम् | जुहुयान्निम्बतैलाक्तैः काकोलूकस्य पिच्छकैः | दारयैनं शोधयैनं मारयेत्यभिधाय च | अष्टोत्तरशतेनैव मनुना विधिना बुधः | होमान्ते विधिवत् कृत्यामाराध्याग्नेश्च सन्निधौ | यो मे एकस्थगृहोऽतिदूरस्थो वान्तिकेऽपि च | प्. ४९७) पिव कृत्येऽसृक् तस्य हुमित्युक्त्वा निवेदयेत् | संरक्षाग्निं विधानेन नवरात्रं समाचरेत् | हुमेद् यावत्तावदस्य भवेदेव रिपोर्मृतिः | अर्कक्षीरेण मरिचं पिष्ट्वा सिद्धार्थमेव च | जले संलोड्य मन्त्रेण रिपुं ध्यात्वा निरुद्धदृक् | कृष्णाम्बरोत्तरीयाग्रं पादेनाक्रम्य तद्रिपुम् | वज्रं शूलमिति ध्यात्वा तस्योपरि विनिक्षिपेत् | नवरात्रान्तरे शत्रुर्म्रियते नात्र संशयः | दूरसिद्धे चितावह्नौ तैलासक्तैर्विभीतकैः | जुह्वतो म्रियते शत्रुः सत्यमौशनसोदितम् | रिपोः प्रतिकृतिं कृत्वा साध्यर्क्षफलकेऽमले | अर्कक्षीरेण मरिचं पिष्ट्वा तत्रैव लेपयेत् | फट्कारं हृदये कृत्वा शिवं निर्माय धूपकैः | क्षिपेत् कृष्णचतुर्दश्यां जप्त्वा मन्त्रं सहस्रशः | सद्योऽवगाहनं कृत्वा कुर्याद् यस्यात्मरक्षणम् | मन्त्रं जप्त्वा विधानेन भेदयेत् सह मुद्रया | षण्मासात् म्रियते शत्रुः सन्ध्ययोरुभयोरपि | वायुना चोद्धृतं पर्णं शुष्कं वैभीतकं ततः | गृहीत्वा च लिखेन्मन्त्री कृष्णसर्पस्य शोणितैः | नामधेयं रिपोरन्ते वायुबीजं प्रयोजयेत् | निखनेत्तस्य गेहे तु काकवक्त्रामये ध्रुवम् | वातोद्धूतैः शुष्कपर्णैः काष्ठैरशनिपातितैः | उष्ट्रास्थि च नवाङ्गारैः शत्रोरुच्चाटनं हुमेत् | दूर्वागुडूचीं गन्धेन सर्पिषा तिलतण्डुलैः | अन्नः समिद्भिः पालाशैः शान्तिं कुर्याद्विचक्षणः | लक्ष्मीं बिल्वफलैः पत्रैर्नन्द्यावर्तैः श्रिये तथा | वज्रपत्रैरपामार्गैरङ्गारैश्च सुभद्रकैः | मधुरत्रयसंयुक्तैरेभिः कुर्यात्तु वश्यकम् | उत्तमे पनसे तन्त्रे वासवस्यापि कथ्यते | शान्तिं कृत्वा विधानेन जपेत् परिमलं त्विदम् | महाव्याधिप्रशमनं नित्यमष्टाधिकं शतम् | जपेदेकाग्रचित्तस्तु लोकवश्यकरं शुभम् | मनसा चिन्तयेदेतां गजारूढां वियत्स्थिताम् || तस्य वश्या भवेत् क्षिप्रमश्वारूढा तथा भवेत् | चौरव्याघ्रमृगादीनां सलिलादिभयापहाम् | सकृत् श्रवणमात्रेण सर्वपापविनाशनम् | सप्ताभिमन्त्रितं तोयं पीत्वा नित्यं समाहितः | प्. ४९८) मेधावी च भवेद्वाग्मी तावज्जप्त्वाभिषेकतः | सप्ताभिमन्त्रितं कृत्वा विषमप्यमृतं भवेत् | मासं पक्षं द्विमासञ्च षण्मासं वत्सरन्तु वा | एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् | अथ वक्ष्ये विशेषेण महाशान्तिविधिक्रमम् | सर्वसिद्धिकरं पुण्यं सर्वपापविनाशनम् | सर्वमुद्रापहरणं सर्वारिष्टविनाशनम् | महाव्याधिप्रशमनमपस्मारविनाशनम् | योगिनीभूतवेतालाः प्रेतकुष्माण्डपन्नगाः | तत्र स्थाने न तिष्ठन्ति डाकिन्याद्या विशेषतः | कृत्यामभ्यर्चयेद्वत्स ! यथाविधिपुरःसरम् | षोडशारं लिखेत् पद्मं योनियुग्मं सबिन्दुकम् | तन्मध्येऽष्टदलं लिख्य यकारादीन् न्यसेत् क्रमात् | तन्मध्ये रसकोणन्तु लिखेन्मूलमनुं स्मरन् | चन्द्रबिम्बं लिखेन्मध्ये तस्योर्द्ध्वे प्रतिमां लिखेत् | तस्य मध्ये न्यसेत् कुम्भं वने स्रग्दामभूषिताम् | तस्य मध्ये न्यसेत् कृत्यां सर्वलक्षणसंयुताम् | पूजयेच्च यथान्यायं पायसन्तु निवेदयेत् | परितोष्य घटे न्यस्य चासिताङ्गादिभैरवान् | असिताङ्गो रुरुश्चण्डः क्रोधीशोन्मत्तभैरवः | कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः | गन्धपुष्पादिनाभ्यर्च्य तद्वाह्ये क्षेत्रपालकान् | लोकपालं यजेद्देवीं तदग्रे होममाचरेत् | जुहुयादाज्यापापामार्गावक्षताभिरमर्षणः | दूर्वाग्रखदिराश्वत्थं प्रत्येकन्तु शताधिकम् | कुण्डे वा स्थण्डिले वापि होमकर्म समाचरेत् | तस्य दक्षिणपार्श्वे तु लक्ष्मीं ध्यायेद् यथाविधि | कुण्डमध्ये न्यस्येद्देवीं दक्षिणे तु श्रियं स्मरेत् | वामपार्श्वे स्मरेद्देवीं हृल्लेखां परमेश्वरीम् | तस्यैव वामपार्श्वे तु पूजयेद्दश नायकान् | अयुतं मूलमन्त्रञ्च जपेन्मृत्युविनाशनम् | अयुतं भ्रूणहत्यायां जपेत् परिमलं विदुः | महाव्याधिप्रशमनं तावज्जप्त्वाभिषेकतः | एवं यः कुरुते मर्त्त्यः पुण्यां गतिमवाप्नुयात् | येन ज्ञातं परिमलं यस्य वक्त्रे स्थितं सदा | तस्यावश्यं निवेद्येत व्याधिभ्योऽपि भयं न हि | प्. ४९९) इत्यादिविधिना चन्द्रे ज्ञेयः परिमलो विधिः | महाशान्तिकरः पुंसां दुःखादिविघ्ननाशनः || इति कृत्यापरिमलः || अथ जयदुर्गा | चतुर्दशपटले || दुर्गे दुर्गे पदं चोक्त्वा रक्षणीति पदं ततः | तारादिवह्निजायान्तो जयदुर्गामहामनुः | जातिमध्यगतं कृत्वा न्यसेन्मन्त्रपदं बुधः | रक्षाकरीयं कथिता जयदुर्गा वर्मसंयुता | श्यामां त्रिलोचनां दुर्गां ध्यात्वा त्वेनां चतुर्भुजाम् | शङ्खं चक्रं शरं शूलं वहन्तीं रौद्ररूपिणीम् | युद्धे च व्यवहारादौ जयेदेतज्जपान्नरः | जयां श्रीं पूजयेन्नित्यां शङ्खञ्च छुरिकां तथा | जयदुर्गामनुः प्रोक्तः कथ्यते चापरो मनुः | नमो भगवतीत्युक्त्वा ज्वालामालिन्यतः परम् | गृध्रगणपरिवृते द्विठस्तारादिरीरितः | ओं नमो हृदयं प्रोक्तं भगवति शिरस्तथा | ज्वालामालिनी शिखा गृध्रगणपरिवृते ततः | कवचं स्वाहास्त्रमित्येतत् जातियुक्तं न्यसेत्तनौ | अयुतं नियुतञ्चैतज्जयमन्त्रं यजेज्जयी | रुद्राङ्गनाग्निजायाभ्यां रुद्ध्वा ज्वालामुखीत्यपि | मन्त्रान्तरं समाख्यातं ज्वालामुख्यामनुत्तमम् | दीपतैलाक्तपादोऽर्द्धरात्रे गुरुदिनादितः | जपेदष्टसहस्रन्तु त्रयोविंशतिवासरान् | प्रत्यहं सा रौप्यषट्कं ददातीति न संशयः | नारायणीयं कथितमगस्त्यैर्नवधा पुनः | दुर्गा नवप्रकाराख्या नवदुर्गा विशेषतः | सुसिद्धिमिच्छता गोप्यो मानवेन समीरयेत् | पुरोऽपि नृपतेऽद्यापि धार्मिकस्य न्यशेषतः | नवदुर्गाविधानन्तु दर्शयेत् कर्मगौरवात् || नृपश्च सम्यगाराध्य मन्त्रञ्च विविधैर्धनैः | भक्त्या सन्निहितं कुर्याद्रक्षार्थं नित्यमादरात् | आपत्स्वयं प्रयोक्तव्यो मारणादौ विशेषतः | ततो मन्त्री प्रयत्नेन प्रकुर्यान्मारणक्रियाम् | परैर्दुर्द्धर्षितो मन्त्री राज्ञे सर्वं निवेदयेत् | निवेद्य विधिवत् पश्चात् मन्त्रवर्षेण निर्दहेत् | प्. ५००) स्मृतिमात्रेण वै मन्त्री रिपून् सर्वान् विनाशयेत् | प्रदद्यादम्बिकां तस्मै सहस्रं शतमेव वा | गवां सुवर्णनिष्काणां भूमिं वा शस्यशालिनीम् | सर्वशान्तिमवाप्नोति सर्वरक्षाकृतिर्भवेत् || इति फेत्कारिणीतन्त्रे जयदुर्गागृध्रगणपरिवृताज्वालमुखीप्रयोगः || इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे कुक्कुटोच्छिष्ट- चाण्डालिनीधूमावतीकृत्यापरिमलजयदुर्गागृध्रगण- परिवृतज्वालामुखीप्रयोगरूपपल्लवकथनं नाम चतुर्थः परिच्छेदः || अथ दुर्गोत्सवः || मत्स्यसूक्ते महामन्त्रे उपरिभागे एकचत्वारिंशत्पटले || भगवानुवाच || अथ चाश्वयुजे शुक्लपक्षमासाद्य नन्दिकाम् | समाराध्य ततो दुर्गां हविष्याशी जितेन्द्रियः | कृत्वा स्रोतोजले स्नात्वा तस्यास्तीरे समर्चयेत् | तस्या इति स्त्रीलिङ्गनिर्देशान्नद्यास्तीरे समर्चयेदित्यर्थः || पूजाप्रकारोऽपि तत्रैव || नन्दायां पूजयेत् कुम्भे द्वितीयायाञ्च पुस्तके | तृतीयायां तथा खड्गे चतुर्थ्यां केशशोधनम् | पञ्चम्यां सूर्यबिम्बे च षष्ठ्यां बिल्वस्य मूलके | सप्तम्यां पत्रिकायान्तु अष्टम्यां प्रतिमासु च | ज्येष्ठानक्षत्रयुक्तायां षष्ठ्यां बिल्वाभिमन्त्रणम् | मूलाद्यपादे सप्तम्यां पत्रिकायाः प्रवेशनम् | पूर्वाषाढायुताष्टम्यां देवी पूज्या महोत्सवैः | उत्तरेण नवम्यान्तु बलिभिः पूजयेच्छिवाम् | श्रवणान्ते दशम्यान्तु प्रणिपत्य विसर्जयेत् | एतेन देवीपुराणोक्तस्य कन्यासंस्थे रवौ शक्रशुक्लामारभ्य नन्दिकामिति वचनस्य षष्ठीतः प्रभृति नवमीपर्यन्तं पूजेयमित्येकत्वेनोक्तमिति स्मार्तभट्टाचार्यव्याख्यानम् | नन्दिकाप्रतिपदिति दुर्गाभक्तितरङ्गिण्युक्तं युक्तमिति वाच्यम् | महानवमीविहितषष्ठ्यतिक्रमे मानाभावादिति वचनादेवं प्रतिपदिति दुर्गाभक्तितरङ्गिण्युक्तमेव भद्रमुत्पश्यामः | प्. ५०१) केशशोधनमिति सप्तम्यर्थे प्रथमा | केशशोधनकङ्कतिकायां पूजयेदित्यर्थः || नक्षत्राणामभावे कृत्यलोपः स्यादित्याह तत्रैव || नक्षत्राणामभावेऽपि षष्ठ्यादिक्रमशस्तथा | सर्वमेव विधिं कुर्यात्तारालाभे फलोदयः | फलोदयः विशिष्टफलोदय इत्यर्थः | अन्यथा नक्षत्राभावे फलाभावप्रसङ्गः स्यात् | इति प्रतिपदादिकल्पकथनम् | अथ पूजादिकालस्तत्रैव || ज्येष्ठा वाप्यथवा षष्ठी सायंकाले न चेद्भवेत् | सायमेव तथपि स्याद्बिल्वशाखाभिमन्त्रणम् | पूर्वां षष्ठीं सनक्षत्रां सायं प्राप्तामपि त्यजेत् | यदा तु पत्रिकापूजा न परेद्युर्भविष्यति | सन्निकृष्टन्तु यत् पूर्वं पतितं दिवसस्य च | तद्दिने वरणं कृत्वा परे शाखां प्रवेशयेत् | सप्तम्यान्तु यदा षष्ठी निःसृता वा न निःसृता | वर्द्धते सप्तमी किन्तु दण्डमात्रं परे यदि | परेऽहनीति शेषः | मुहूर्तमधिका वापि नवम्यामष्टमी भवेत् | वर्द्धते दशमी चैव तदा कार्यं यथा शृणु | न केवलं नवमी दशमी चेति चार्थः | सप्तम्यां बिल्ववरणमष्टम्यान्तु प्रवेशनम् | पूजाष्टका नवम्यान्तु दशम्यां प्रेषयेच्छिवाम् | अत्र केचित् सामान्यविधिप्राप्ततिथिबाधभिया सप्तम्यां बहुकालीनसप्तमीयुतषष्ठ्यामिति व्याख्यान्ति | तत्र षष्ठी न निःसृतेति वचनमनाकुलं वेति प्रतिभाति | यदा षष्ठौ च सप्तम्यां अष्टम्याञ्चापि वर्द्धयेत् || स्वार्थ इणपाणिनिविदान्तु णिच् वर्द्धेत | अर्थात् सप्तमीति शेषः | अष्टमी परगा चैव तद्दिने च दिनक्षयः | तदा षष्ठ्यां पूर्वदिने बिल्वस्य वन्दनं मतम् | षष्ठीसंयुक्तसप्तम्यां पत्रिकायाः प्रवेशनम् | अतिकल्पे तथाष्टम्यां मृण्मयीञ्च प्रवेशयेत् | अतिकल्पे अतिप्रत्यूषे || सप्तम्या संयुताष्टम्यां महापूजोत्सवक्रिया | नवम्यान्तु बलिं दद्याद्दशम्यां प्रेषयेच्छिवाम् | नवम्यामष्टमी यत्र नवमी परतो नचेत् | प्. ५०२) भवेद् वा दशमीविद्धा नवमी च परेऽहनि | तदाष्टमीनवम्योश्च द्वयोः पूजाद्वयं किल | एकस्मिन्नेव दिवसे कर्तव्यं बलिभिः सह | अष्टका नवमीपूजा त्रिसन्ध्यव्यापिनी परा | तदा तदा नवम्युक्तं बलिदानं परेऽहनि | त्रिसन्ध्यव्यापिनी चेत् स्याद् यदा पूर्वदिनेऽष्टमी | दशमीविद्धनवम्यान्तु कुर्यात् पूजां न संशयः | अष्टकानवमीयोगो रात्रियोगो विशिष्यते | अर्द्धरात्रौ शतगुणं सन्ध्यायां द्विगुणं स्मृतम् | सप्तम्यादिषु पूर्वाह्णे तारायोगो न चेद्भवेत् | तदाप्यारभ्य पूर्वाह्णे नक्षत्रांशे समापयेत् | दशम्यां श्रवणो व्यापी तथोत्थाय कृतक्रियः | प्रातः सम्पूज्य विधिवत् नृत्यगीतपुरःसरैः | प्रतीक्ष्य श्रावणं कालं प्राप्ते सम्प्रेषयेच्छिवाम् | यदि नक्षत्रमाश्रित्य सप्तम्यादि त्रिकं स्थितम् | तदैव श्रवणापेक्षा दशम्यां केचिदब्रुवन् | श्रवणान्ते गते रात्रौ तदन्ते नवमी दिने | स्वस्वस्थानोचितं कर्म दक्षिणान्तं समापएत् | दशम्यान्तु तदप्राप्तौ धनिष्ठायां यथाविधि | प्रेषयेद्भगवतीं दुर्गामशेषैः शारदोत्सवैः | नवमी दशमीयुक्ता श्रवणा तु गता निशि | तदा सम्प्रेषयेद्देवीं नवम्यां दशमीक्षणे | अष्टमीदिनपर्यन्ता रात्रौ चेन्नवमी भवेत् | नवम्यामपि कुर्वीत महापूजां महानिशि | चन्द्रोदिते निशायान्तु या भवेदष्टमीतिथिः | महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा | ततोऽनु नवमी या स्यात् सा महानवमीतिथिः | पूजाधारमाह तत्रैव || चित्रे च प्रतिमायाञ्च मृण्मययां श्रीफलेऽपि च | महायोनौ चन्द्रबिम्बे शिलायां योनिमण्डले | पुस्तके पादुके खड्गे महाबिम्बे तथैव च | पुण्यक्षेत्रे च गङ्गायां देवीमावाह्य पूजयेत् || प्रमाकरणविधिनिषेधावपि तत्रैव || न गृही मृण्मयीं कुर्यान्न वै तालमयीं क्वचित् | प्. ५०३) त्रिहस्तां तृणगर्भाञ्च विल्वयुग्मे समर्चयेत् || न गृही मृण्मयीं केवलमृत्तिकया प्रतिमां न कुर्यात्तथा तालमयीं सार्द्धत्रिहस्तपरिमितां गृही न कुर्यात् | विधिमाह त्रिहस्तामिति | त्रिहस्तां प्रतिमामित्यधिकपरिमाणव्यवच्छेदार्थमुक्तम् | तेन तन्न्यूनप्रतिमाकरणे न दोषः | मृण्मययाः प्रतिप्रसवमाह तृणगर्भामिति | तेन तृणगर्भमृण्मयीपूजने दोषः | चकारो भिन्नक्रमे तृणगर्भां समर्चयेत् बिल्वयुग्मे चेति | ब्राह्मणादिभेदेन बिल्वयुग्मस्य विशेषमाह | माहेन्द्रस्थञ्च ईशस्थं ब्राह्मणस्य प्रशस्यते || ऊर्द्धस्थमुत्तरस्थञ्च क्षत्रियस्य वरानने ! | वायव्यस्थञ्च वैश्यस्य शूद्रस्य च वरानने ! | माहेन्द्रस्थं तथेशस्थं सर्वेषामथवा प्रिये ! | पूर्वादिस्थबिल्वयुग्मफलमाह || माहेन्द्रस्थे ज्ञानवृद्धिरीशस्थे सर्वकामदम् | वायुस्थे च धनावाप्तिरैश्वर्यमुत्तरास्थिते | याम्यस्थे शत्रुवृद्धिः स्यात् कोणगे मरणं भवेत् | वायवीशानकोणस्थस्य विशेषफलाभिधानादत्र कोणपदमग्निनै-ऋतकोणपरं पारिशेष्यादिति | बिल्वयुगस्य शुभलक्षणमग्राह्यत्वञ्चाह तत्रैव || समं वृत्तं समं स्थूलं शस्तं कीटादिदूषितम् | न ग्राह्यं परमेशानि ! कदाचिदूर्द्ध्वमध्यगम् | ऊर्द्ध्वगेतिक्षत्रियभिन्नस्याग्राह्यत्वम् | सममिति सर्वस्य | यद्वा कदाचिदुक्तस्थानस्थस्याप्राप्तादूर्द्ध्वमध्यगमपि ग्राह्यं निन्द्यफलाश्रुतेरिति तात्पर्यम् | बिल्वयुग्मादेश्च्युतिदोषोऽपि तत्रैव || स्नानस्थाने नीयमाने च्युते युग्मे महेश्वरि ! | मृण्मययाश्च च्युतिर्यत्र जायते मरणं ध्रुवम् | तद्दोषप्रशमनार्थञ्चायुतं जुहुयाद् घृतैः | धेनुञ्च दक्षिणां दद्यात् श्वेताश्वं शेतछागलम् || इति बिल्वयुगप्रतिमाच्युतिप्रायश्चित्तम् | नन्दामारभ्यदशमीपर्यन्तमुत्सवं विदुः | महामहोत्सवं ज्ञेयं त्रिदिनं तत् प्रकीर्तितम् | तदन्यदेवतायागं यः करोति महेश्वरि ! | न तस्य फलमाप्नोति सोऽन्ते नरकमाप्नुयात् | देव्या भागशतं सर्वं तस्मान्नान्यं समर्चयेत् | प्. ५०४) पुनरष्टम्यां प्रतिमासु चेत्यन्तमभिधाय | प्रहरे प्रहरे स्नानं प्रहरे प्रहरे बलिः | प्रहरे प्रहरे होममन्नञ्चाभिषसंयुतम् | प्रभूतबलिदानञ्च नवम्याञ्च प्रशस्यते | नवम्या पूजिता देवी ददात्यनन्तकं फलम् || देशविशेषे मूर्तिविशेषोऽपि तत्रैव || ओड्रदेशे कलिङ्गे च मध्यदेशे तथैव च | देवी चाष्टभुजा पूज्या अयोध्यायां सुराष्ट्रके | चोहारे चैव श्रीहट्टे कोशले शववल्लके | अष्टादशभुजा कार्या महेन्द्रे च हिमालये | कौरवे मथुरायाञ्च केदारे रामठेऽपि च | पूजयेद् द्वादशभुजां मकरन्द्रे विराटके | कौमारे चैव गौडे च पारिपात्रे च दक्षिणे | देवी दशभुजा कार्या मरहट्टे गजाह्वये | पूर्णे चैव तु नेपाले कच्छसेशे च कङ्कणे | चतुर्भुजा भवेद्देवी द्विभुजा सागरान्तिके | दीपस्थानन्तु कूर्मचक्रशिरःस्थानम् | तत्तु तन्त्रसारकारेणैव धृतम् | दीपस्थानविवर्जितेनेष्टकारचितस्थानेन कदाचन देवीमर्चयेदित्यनेन दीपस्थाने तृणकाष्ठादिमयगृहे न दोषः | तथा दीपस्थानभिन्ने इष्टकामयगृहेऽपि दीपस्थानभिन्नस्य प्रतिप्रसवमाह || ऐशान्याञ्च महेन्द्रे वा उत्तरे भवनस्य च | कारयेद्भवनं दिव्यं धनैश्वर्यप्रसादतः | एकत्रिंशच्च दैर्घ्येण पञ्चत्रिंशदथापि वा | वर्तुलं नवहस्तं वा तूर्यहस्तमथापि वा | विभिद्य पार्श्वयोर्भागं कृत्वा मध्यं सुशोभनम् | चतुर्दिक्षु प्रमाणेन देवीं तत्रैव कारयेत् | अथ सिंहासनादिलक्षणम् | हस्तमात्रं समुत्सेधं लोम तत्र समन्वितम् | सिंहासनं महाचक्रं सर्वतोभद्रमेव च | रजसा मण्डलं कुर्यात् पीठं तत्र निवेशयेत् | क्षीरं श्रीपतिकोद्भूतं सहकारमथापि वा | मुष्टिबाहुप्रमाणेन प्रादेशोच्छ्रायमेव च | प्राप्तेऽष्टधा च कुटिलं चतुष्कोणं समं शुभम् | भद्रासनमिदं प्रोक्तं कूर्मासनमथापि वा | विवाहे सौरयागे च सहकारं विवर्जयेत् | वारुणं वा महेशानि ! पद्मकं देवदारुकम् | प्. ५०५) प्रशस्तं सर्ववेदीषु तथा शालमयानि च | ततोऽरुणेन गन्धेन कुङ्कुमेन गजेन वा | महायोनिं लिखित्वा तु वहिः पद्मद्वयान्वितम् | गजेन मृगमदेन || तत्र संस्थापयेद्देवीं सर्वकामार्थदायिनीम् | षष्ठीकर्तव्यकर्माह | नित्यं निर्वर्त्त्य विधिवत् सायं षष्ठ्यां ततो गृही | यायादलङ्कृतो मौनी बिल्वमूलं समाहितः | ब्राह्मणान् भोजयित्वा तु पञ्चाङ्गेन प्रणम्य च | उत्तराशामुखो भूत्वा पीठं निर्माय साधकः | पञ्च देवान्नमस्कृत्य ततः सङ्कल्पयेत् सुधीः | त्र्यम्बकेणैव मन्त्रेण वृक्षं तोयेन सापयेत् | क्षीरेण पञ्चगव्येन तथा पञ्चामृतेन च | स्नात्वा कुम्भत्रयेणापि सूत्रमाणेति वै ऋचा | निषिक्तेन तु सूत्रेण त्रिगुणेन च पञ्चधा | वेष्टयेद्दक्षिणावर्ते पञ्च व्रीहींश्च वापयेत् | अद्यामुके मास्यमुके पक्षे एतस्मिन् पुण्यभूप्रेदेशे भवन्तमम्बिकाशिवयोः प्रियतरं शाण्डिल्यगोत्रं बिल्ववृक्षम् अमुकगोत्रोऽमुकदेवशर्मा अमुककामनया अभिन्नवृन्तफलयुगलयुक्तां शाखां दुर्गास्वरूपतः पूजार्थं नेतुं नक्तमेभिरभ्यर्च्य वृणे | हस्तं दत्त्वा वृक्षमूले फलैर्माल्यैः समन्वितम् | संवाह्य तैः समभ्यर्च्य स्थण्डिले पूजयेत्ततः | गणेशमुत्तरद्वारि पूर्वे चण्डञ्च दक्षिणे | प्रचण्डं पश्चिमे चैव वेतालञ्च ततः परम् | मध्ये आधारशक्त्यादीन् साङ्गोपाङ्गांस्तथैव च | महारजतसङ्काशां पूर्णचन्द्रनिभाननाम् | नानारत्नसमाकीर्णां कङ्कणैः कटकैरपि | विभ्राजमानां दशभिर्बाहुभिः सुमनोहरैः | शरदम्भोजसङ्काशविकाशिमुखपङ्कजाम् | इन्दीवराभैर्विषमैर्लोचनैस्त्रिभिरुत्तमैः | विद्योतयन्तीं नयनैरुद्दामद्युतिदामभिः | त्रिशूलं करबालञ्च चक्रं वाणञ्च शक्त्यपि | चिन्तयेद् वामभागे तु खेटकं पूर्णचापकम् | पाशाङ्कुशञ्च परशुं ज्वालामालोपशोभितम् | ऊर्द्ध्वपादं वामपादं महिषोपरिसंस्थितम् | प्. ५०६) माहिषं छिन्नशिरसमधस्तात् परिचिन्तयेत् | खड्गचर्मधरं तत्र समुद्भूतं महासुरम् | बिल्ववृक्षस्थितां ध्यायेत् सर्वकामार्थदायिनीम् | एवं ध्यात्वा महेशानि ! आसनं प्रतिपूज्य च | मूलेनावाहनं कुर्यात् प्रदद्यादासनं ततः | पाद्यादिकं ततो दत्त्वा अङ्गपूजां विधाय च | पूर्वादिपत्रमूलेषु जयन्त्यादीन् समर्चयेत् | पत्राग्रे चैव ब्रह्मादीन् भैरवान् पत्रमध्यतः | तत्रागत्य वृक्षमूले वृक्षाग्रे च समर्चयेत् | वेतालं मणिभद्रञ्च यक्षकञ्च तथैव च | त्रिपुरान्तकं समाख्यातं कणं हेतुकमेव च | अग्निजिह्वरसञ्चैव गन्धपुष्पैः समर्चयेत् | ततो ग्रहान् दिगीशांश्च तदस्त्राणि च तद्बहिः || अत्र दिक्पालतदस्त्रपूजायां विशेष उक्तः शारदातिलके चतुर्थपटले महाप्रामाणिकैर्लक्षणाचार्यैः | यथा | अन्ते यजेल्लोकपालान्मूलपारिषदान्वितान् | हेतिजात्यधिपोपेतान् दिक्षु पूर्वादितः क्रमात् || मूलपारिषदान्वितानिति अस्यायमर्थः | यदा शक्त्यावरणे इन्द्रादिपूजा तदा प्रत्येकं शक्तिपारिषदायेति एवं गणपतिपूजायां प्रत्येकं गणेशपारिषदायेति एवं सूर्यपूजायां प्रत्येकं सूर्यपारिषदायेति | एवं विष्णुपूजायां विष्णुपारिषदायेति | हेतीति प्रतियोगे जात्यधिपाना पूर्वमुच्चरणं पश्चाद्धेतीनां मूले हेतिशब्दस्य पूर्वनिपातः | शस्त्रजातयः स्वरतेजःप्रेतरक्षोजववातक्षेत्रभूतनागलोकान् सवाहनान् सपरिवारानित्यपि ज्ञेयम् || दिक्पालानाह तत्रैव || इन्द्रमग्निं यमं रक्षो वरुणं पवनं विधुम् | ईशानं पन्नगाधीशमध ऊर्द्ध्वं पितामहम् | पीतो रक्तोऽसितो धूम्रः शुक्लो धूम्रः सितावुभौ | गौरोऽरुणः क्रमादेते वर्णतः परिकीर्तिताः | तेषां वाहनानि राघवभट्टधृतानि | यथा | ऐरावताजमहिषनरमकरहरिणाश्ववृषभरथहंसाः | एतेषां बीजानि कपिलपञ्चरात्रे || यान्युलोमतृतीयन्तु द्वितीयं लविलोमतः | चतुर्थकं विलोमेन वानुलोमेन चाष्टमम् | प्. ५०७) तृतीयञ्चानुलोमेन न विलोमात् तृतीयकम् | चतुर्थं सप्तमं वर्णं वानुलोमेन संस्थितम् | चतुर्थं खविलोमेन तृतीयं गविलोमतः | सुरान्तेषु सुनादाभ्यां भेदितं सर्वमेव तत् | आनुपूर्वोद्धृतं बीजं ब्रह्माण्डं वासवादिकमिति | एतानि बीजानि दीर्घाणीति सम्प्रदायविदः | अनन्तब्रह्मणोर्माया पाशवी इति केचित् | पृथ्व्याग्निपवनाद्यन्ता वरुणानिलसेन्दुकैः | अनन्तबिन्दुसंयुक्तैरर्च्याः पाशेन माययेति | प्रयोगो यथा | ओं लां इन्द्राय पीतवर्णाय सुराधिपतये वज्रहस्ताय ऐरावतवाहनाय सपरिवाराय दुर्गापारिषदाय नमः | एवं रां अग्नये पिङ्गलवर्णाय तेजोऽधिपतये शक्तिहस्ताय अजवाहनाय सपरिवाराय दुर्गापारिषदाय नमः | इत्यादि ऊह्यम् | तदुक्तं राघवभट्टधृतेन || प्रयजेत् स्वदिक्ष्वमलधीः स्वजात्यधीरहेतिपरिवारसंयुतानिति ग्रन्थकृदपि || नित्यातन्त्रे || लोकपालान् यजेदन्ते वाहनायुधसंहतान् | इत्येषां पूजानन्तरमायुधान् पूजयेत् || शारदायाम् || वज्रं शक्तिं दण्डमसिं पाशमङ्कुशकं गदाम् | शूलं चक्रं पद्ममेषामायुधानि क्रमाद्विदुः || मेरुतन्त्रे चतुर्थप्रकाशेऽपि || वज्रं शक्तिं दण्डखड्गपाशाङ्कुशगदाः पुनः | पूर्वतस्तु तथैश्यान्यां शूलचक्राम्बुजान्वितमिति | आयुधानां रूपमुक्तम् शारदायाम् || पीतशुक्लासिताकाशविद्युद्रक्तसितासिताः | कुरुबिन्दपाटलाभा वज्राद्याः परिकीर्तिताः | कुरुबिन्दः पद्मरागः || तत्र प्रयोगो यथा || ओं वज्राय वज्रहस्ताय पीतवर्णाय वज्रलाञ्छितमौलये सवाहनाय सपरिवाराय दुर्गापारिषदाय नमः | इत्याद्यूह्यम् | तदुक्तं राघवभट्टधृतेन | अर्च्या वहिर्निजमलक्षितमौलियुक्ता स्वस्वायुधाभयसमुद्यतपाणिपद्मा इति | मत्स्यसूक्ते || बलिं दद्याद्विधानेन होमं कुर्याद्विधानतः | यवं क्षीरञ्च शाल्यन्नं शान्त्यर्थञ्च निवेदयेत् | यक्षेभ्यो यावकान्नञ्च भाषभक्तमथापि वा | प्. ५०८) कृताञ्जलिस्ततो भूत्वा जानुभ्यामवनीं गतः | ततो बोधनमन्त्रांश्च पाठयेत् सुरपूजिते | ऐं रावणस्य बधार्थाय रामस्यानुग्रहाय च | अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा | अहमप्याश्विने मासि ततस्त्वां बोधयामि ते | षष्ठ्यां नक्षत्रयुक्तायां सायाह्ने बोधयामि ते | एतदर्थं आर्द्रानक्षत्रालाभेन पाठ्यं तात्पर्यार्थस्यासमत्वतत्त्वादिति | श्रीशैलशिखरे जातः श्रीफलः श्रीनिकेतनः | नेतव्योऽसि मया गच्छ पूज्यो दुर्गास्वरूपतः | अशेषसुखलाभाय नारीविभवहेतवे | नेतव्यः स्वोदिते गेहे सर्वकामप्रदो भव | मेरुमन्दरकैलासहिमवच्छिखरे गिरौ | जातः श्रीफलवृक्ष ! त्वमम्बिकाशङ्करप्रियः | नमस्ते बिल्ववृक्षाय सर्वकामप्रदाय च | दातव्यं स्वोदिते हस्तं पूजनीयं फलद्वयम् | महादेवप्रियोऽसि त्वं श्रीवृक्ष ! सर्वकामदः | दुर्गायज्ञनिमित्तार्थं शाखामेकां प्रयच्छ मे | तञ्च आरोहयेत् पश्चादुत्तराशामुखेन च | किञ्चिदुष्णेन तोयेन कुशपुष्पफलाक्षतम् | शङ्खे कृत्वा ददेदर्घ्यं बिल्ववृक्षोद्भवेन च | दन्तकाष्ठं ततो दद्यादरिष्टञ्चानुमार्जयेत् | दूर्वाक्षतेन सिद्धार्थं वस्त्रयुग्मेन वेष्टयेत् || इति बिल्ववृक्षनिमन्त्रणरूपषष्ठीकृत्यम् | अथ सप्तमीकृत्यं तत्रैव || मूलयुक्तेन सप्तम्यां भास्करे चोदिते प्रिये ! | बिल्वमूलं ततो गत्वा गन्धपुष्पैः समर्चयेत् | गृहीत्वा चैव कट्टारं सुतीक्ष्णं मुष्टिसंयुतम् | द्वादशाङ्गुलकं मानं मुष्टिः षडङ्गुलं स्मृतम् | छिन्धि छिन्धि युगं दद्यात्तारयुग्मं तथैव च | अस्त्राय हृदयान्तोऽयं छिन्नमन्त्र उदाहृतः | युगमिति सप्तम्यर्थे प्रथमा युगे अर्थाद्विल्वयुगान्वितशाखाविशेषे | दद्यादर्पयेत् पूर्वोक्तकट्टारकमिति शेषः | रजकस्य वस्त्रं ददातीतिवदत्र दाधातोरपणार्थकता | अर्पणमन्त्रमाह | छिन्धि छिन्धीति न तु छिन्धि छिन्दीत्यनेन युगशब्दात् त्रयञ्छिन्धीत्यस्य चतुष्कत्वापत्तेः | प्. ५०९) छेदनमन्त्रस्तु तारयुग्ममित्यादि | छिन्ने छेदने मन्त्रश्छिन्नमन्त्र इत्यर्थः | चालनमन्त्रस्तु | चामुण्डे ! चलयुग्मन्तु चालयद्वितयं तथा | शीघ्रञ्च मन्दिरञ्चैव प्रविश पूजालयं पदम् | ताराद्यो वह्निजायान्तो मनुनानेन चालयेत् || छेदनकाले स्त्रीप्रभृतीनां दृष्टिर्निषिद्धा यथा तत्रैव | स्त्रीणां दृष्टिः पशोर्दृष्टिर्यथा नैव तु छेदने | तथा कुर्यात् प्रयत्नेन शिविकायां प्रवेशयेत् | पूजादिषु प्रणयेत् तदाह || उन्मत्तं पतितं क्लीवं वामनं छिद्रसंयुतम् | न योजयेद्दरिद्रञ्च मन्त्रकुण्ठं न वेशयेत् | छेदने नयने काले स्थापने च विशेषतः | भग्ने तु मरणं विद्यात् प्रायश्चित्तं तदाचरेत् | पार्श्वे दीपयुगं दद्यादिक्षुदण्डाश्रयं द्वयम् | गृहप्रवेशकाले च घटयुग्मञ्च स्थापयेत् | घटं सम्मार्जनीयुक्तं रक्तसूत्रेण गुम्फितम् | चूतपत्रसमायुक्तां दर्भच्छेदनभूषिताम् | द्वारि द्वारि न्यसेत् स्रक्तां सपुष्पां शोभनां शुभाम् | समूलां छिन्नरहितां तोरणेन विभूषिताम् | जनतेति वत् स्रक्शब्दात् समूहार्थे ताप्रत्ययः | स्रक्तां मालासमूहं द्वारि न्यसेदित्यर्थः | प्राप्ते प्रतोलिकां द्वारि गृहिणी लक्षणान्विता | साध्वीभिर्नवनारीभिः कृतमङ्गलपूर्वकम् | बीजयेद्व्यजनेनापि वामदक्षिणपार्श्वयोः | कटुत्रयं सलवणं मुखे कृत्वा महेश्वरि ! | देव्याः प्रचुम्बनं कुर्यात्ततः कुर्याद् गृहाङ्गने | पत्रिकां स्नानपीठे च वस्त्रादीन् मध्यदेशके | देशविशेषे नवपत्रिकाक्रममाह | माणादींश्चैव श्रीशैले ध्यान्यादिं मलये गिरौ | क्रमुकादिं सागरान्ते कच्वी चैकाम्रकादिके | रम्भादिं गौडे वङ्गे च कौमारे कालरूपके | प्रतिपीठे यजेद्वापि लक्ष्मीकामेन सुन्दरि ! | रम्भा कच्वी हरिद्रा च जयन्ती बिल्वदाडिमौ | अशोको माणकश्चैव धान्यादिर्नवपत्रिका | समूला पत्रिका ग्राह्या हरिद्राधान्यकं विना | प्. ५१०) समूला एव रम्भा स्याद्रामरम्भां विवर्जयेत् | श्वेतरम्भा राज्यरम्भा तथा चैव सुगन्धिनी | एषामेकतमं ग्राह्यं बीजरम्भां विवर्जयेत् | शर्करास्वादुयुक्तायाः फलं वृक्षञ्च सन्त्यजेत् | त्रिपुत्रञ्चैकपुत्रञ्च मृतवत्सञ्च वर्जयेत् | द्विजातिरोपितं ग्राह्यमथवा गिरिसम्भवम् | ब्राह्मणस्य गृहे जातं तीर्थेभ्योऽन्यसमुद्भवम् | अन्त्यजस्यालये जातं श्मशाननिलयञ्च वा | शाखोटमूर्द्धजं शुष्कं त्याज्यं स्याद्दूरधुक्षकम् | एवमेव च मृण्मययामानीय शुभजैर्जलैः | स्नापयेत् शङ्खतोयेन प्रतिमायाञ्च दर्पणे | दन्तकाष्ठं ततो दद्यान्मन्त्रेण च विशेषतः | दशाक्षरेण देवेशि ! पञ्चगव्येन चान्तरम् | प्रत्येकेन ततः पश्चात् तथा पञ्चामृतेन च | त्रिशीतेन त्रिरक्तेन तथा तीर्थोदकेन च | वेद्यामीशानतो वाथ पत्रिकायाश्च स्थापनम् | मध्ये बिल्वं विजानीयादथवा एकमूलकम् | रम्भावृक्षे निबध्नीयाद्विष्णुक्रान्तालतात्रिभिः | वेष्टयित्वा तु रम्भायां हस्तोच्छ्राये तु युग्मकम् | पीतसूत्रेण वस्त्रेण वेष्टयेन्मुकुटान्वितम् | कुसुम्भरक्तं क्षौमं वा दुकूलं कीटकानि च | वर्जयेत् प्रथमं देवि ! ह्यलक्ताक्तं विशेषतः | महोत्सवे ततः कुर्याद् वेदघोषपुरःसरम् | कुमारीणाञ्च साध्वीनां श्रावयेच्च तथा ध्वनिम् | बलिकर्मणि यात्रायां प्रवेशे नववेश्मनः | महोत्सवे च माङ्गल्ये तत्र स्त्रीणां ध्वनिः शुभः | निर्मञ्छनं तथा कुर्याल्लाजजम्बूफलादिभिः | स्वागतं कुशलप्रश्नमासनञ्च निवेदयेत् | जानुभ्यामवनीं प्रेत्य पठेन्मन्त्रं कृताञ्जलिः | ओं शारदीयामिमां पूजां गृहाण त्वमिहागता | स्वागतन्ते महादेवि ! विश्वेश्वरि ! नमोऽस्तु ते | धन्योऽहं कृतकृत्योऽहं सफलं जीवितञ्च नः | आगतासि यतो दुर्गे ! माहेश्वरि ! ममाश्रमम् | अर्घ्यमन्नं फलं पाद्यं मालां मलयवासिनि ! | गृहाण वरदे ! देवि ! कल्याणञ्च प्रदेहि मे | चण्डिके ! चण्डरूपे ! त्वं सर्वकामप्रदे ! शुभे ! | प्. ५११) गृहाणार्घ्यमिदं भद्रे ! आगच्छ मम मन्दिरम् | गृहीत्वा शारदीं पूजां मर्त्यमण्डलमागता | चण्डिके ! त्वां नमाम्यद्य पुष्पमर्घ्यं प्रगृह्यताम् | चण्डि ! त्वं चण्डरूपासि सुरतेजोमहाबले ! | प्रविश्य तिष्ठ मद्गेहे यावत् पूजां करोम्यहम् | सामान्यार्घ्यं विधायाथ आसनं प्रतिगृह्य च | विकिरान् विकिरेत्तत्र प्राणायामं ततश्चरेत् | गणेशग्रहदिक्पालान् कलसे पूजयेत्ततः | स्नापयेच्च स्वमन्त्रेण वरयेदर्घ्यपात्रकम् | दिनेशार्घ्यं ततो दद्याद्भूतशुद्धिमथाचरेत् | दशाक्षरेण मन्त्रेण भावयेद्रक्तबुद्बुदम् | तन्मध्ये रुक्मब्रह्माण्डं पुनरेव तु भेदयेत् | तन्मध्ये चिन्तयेद्देवीं सर्वकामप्रदायिनीम् | जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् | नवयौवनसंयुक्तां सर्वाभरणभूषिताम् | त्रिनेत्रां पूर्णवदनां महिषासुरमर्दिनीम् | त्रिशूलञ्च तथा चक्रं खड्गं वाणं तथैव च | दखिणे च तथा शक्तिं वामतः खेटकं धनुः | पाशाङ्कुशञ्च घण्टाञ्च नागहारगरीयसीम् | अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् | शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् | हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् | देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् | किञ्चिदूर्द्ध्वं तथा वाममङ्गुष्ठं महिषोपरि | एवं सञ्चिन्त्य मनसा प्रतिमां कृत्य सन्न्यसेत् | आत्मानमन्तरात्मानं परमात्मानमर्चयेत् | मातृकान्यासपूर्वेण कलान्यासमथाचरेत् | मन्त्रन्यासं ततः कृत्वा तारेणार्घ्यं विशोधयेत् | अर्घ्य स्योत्तरतः कार्यं पाद्यमाचमनीयकम् | मधुपर्कं ततः पार्श्वे प्रोक्षण्याञ्च जपेन्मनुम् | अष्टकृत्वो जपेन्मन्त्री गायत्र्या रक्षयेत्ततः | ओं दुर्गायै विद्महे नारायण्यै धीमहि | धियो यो नः प्रचोदयादितीरयेत् | तेन तोयेन देवेशि ! यागवस्तूनि सेचयेत् | गणेशमथ चैशान्यां गणपं गुरुपादुकाम् | गुरुभ्यः परमं ह्येवं परमेष्ठिगुरोः परम् | गुरुं ज्ञानञ्च वैराग्यमैश्वर्यञ्च यथा क्रमात् | प्. ५१२) रक्तं श्यामञ्च हारितं नीलाभञ्चैव पूजयेत् | धूम्राभं कनकाविद्युद्रूपान् धर्मादिकान् प्रिये ! | अधर्मादीनि पत्राग्रे अग्न्यादौ च यथाविधि | अधर्मञ्च तथाज्ञानमवैराग्यं तथैव च | अनैश्वर्यं कृष्णवर्णं पीतरक्तं विभावयेत् | अजमेषहंसवर्णरूपान् धर्मादिकानपि | द्वारपार्श्वे महाकालं कपिलं कृष्णलोचनम् | नन्दिनं रक्तपीतञ्च शूलखट्वाङ्गधारिणम् | भुजङ्गश्वेतसङ्काशं द्विभुजं पङ्कजाननम् | चण्डेशञ्च करालास्यं पिङ्गोर्द्ध्वनयनं यजेत् | अधः कूर्मशिवारूढां शरच्चन्द्रनिभाननाम् | आधारशक्तिं प्रयजेत् पङ्कजद्वयधारिणीम् | मुर्द्ध्नितस्याः समासीनं कूर्मासनं समर्चयेत् | ऊर्द्ध्वं ब्रह्मशिलासीनमनन्तं कुन्दसन्निभम् | अधश्चक्रधरं मूर्ध्नि धारयन्तं वसुन्धराम् | तमालश्यामलाङ्गीञ्च नीलेन्दीवरलोचनाम् | अभ्यर्चयेद्वसुमतीं स्फुरत्सागरमेखलाम् | तत्र सञ्चिन्तयेत् पद्मं विकारनवकेशरम् | मन्त्री प्रकृतिपत्राणि भावयेद्दशकर्णिकम् | भूस्तत्त्वञ्च भुवस्तत्त्वं स्वस्तत्त्वञ्च तथैव च | सत्त्वं रजस्तम इति सूर्यादीनां त्रिमण्डलम् | पुनरानन्तरं वज्रनखदंष्ट्रायुधाय च | महासिंहाय वर्मास्त्रमहासिंहमनुर्मतः | दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत् | गृहीत्वा रक्तकुसुमं प्रकुर्यात् पाणिकच्छपम् | कृत्वा सम्पूर्णपात्रञ्च गन्धपुष्पाक्षतानि च | हृदये स्थापयेद्भक्त्या ध्यात्वा पुर्वोक्तवर्त्मना | पूजयेदुपचाराद्यैर्मण्डले स्थापयेत्ततः | आसनं स्वागतं पृच्छेद् दद्यात्पाद्यादिकं त्रिकम् | मधुपर्कं ततो दद्यादङ्गपूजां विधाय च | दर्शयेदष्टमुद्राश्च तत आवाहनं पठेत् | ओं आवाहितासि दुर्गे ! त्वं मृण्मययां श्रीफलेऽपि च | स्थिरा त्वं गृहिणो भूत्वा गृहे कामप्रदा भव | एहि दुर्गे ! महाभागे ! पत्रिका गृह्यतामियम् | तव स्थानमिदं भद्रं शरणं त्वां नमाम्यहम् | त्वं देवि जगतां मातः ! सृष्टिसंहारकारिणि ! | प्. ५१३) पत्रिकासु समस्तासु सान्निध्यमिह कल्पय | आयुर्देहि धनं देहि यशो राज्यञ्च देहि मे | सन्तुष्टा चात्र मद्गेहे मनोऽभीष्टं प्रसाधय | ततः पूर्वादिपत्रेषु रुद्रचण्डादिकान् यजेत् | रुद्रचण्डां प्रचण्डाञ्च चण्डोग्रां चण्डनायिकाम् | चण्डां चण्डवतीं चण्डरूपाञ्चैवातिचण्डिकाम् | अग्निवर्णां ततो मध्ये उग्रचण्डां समर्चयेत् | सर्वा युवत्यो दीप्ताङ्गा वराभयकराः शुभाः | रक्ताः पीताम्बरधरा नानाभरणभूषिताः | त्र्यक्षरेण च मन्त्रेण वागाद्येन महेश्वरि ! | पूजयेदष्टपत्रेषु दलाग्रेषु विशेषतः | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणी चामुण्डा चण्डिका तथा | दण्डं कमुण्डलुं पश्चादक्षसूत्रमथाभयम् | बिभ्रती कनकछायां ब्राह्मी कृष्णाजिनाम्बरा || १ || शूलं परश्वधं क्षुरं दुन्दुभिं चन्द्रशोभितम् | वहन्ती हिमसङ्काशा ध्येया माहेश्वरी सदा || २ || अङ्कुशं दण्डखट्वाङ्गं पाशञ्च दधती करैः | ध्येया बन्धूकसङ्काशा कौमारी कामदायिनी || ३ || चक्रं घण्टां कपालञ्च दधती करैः | तमालश्यामला ध्येया वैष्णवी विद्युतोज्ज्वला || ४ || मुषलं करबालञ्च खेटकं दधती हलम् | करैश्चतुर्भिर्वाराही ध्येया कालानलच्छविः || ५ || अङ्कुशं तोमरं विद्यां कुलिशं बिभ्रती करैः | इन्द्रनीलनिभेन्द्राणी ध्येया सर्वसमृद्धिदा || ६ || शूलं कपालं नृशिरः क्वपाणं दधती करैः | मुण्डस्रङ्मण्डिता ध्येया चामुण्डा रक्तविग्रहा || ७ || अक्षस्रजं रक्तस्रवं कपालं नीलनीरजम् | वहन्ती हेमसङ्काशा व्याघ्रस्य चर्मणोज्ज्वला || ८ || रक्ताक्षीं दण्डिकाञ्चैव नृसिंहीं शिवदूतिकाम् | नारायणीं कालिकाख्यां मायाञ्चैव तु भ्रामरीम् | अरविन्दां विशालाक्षीं भीमाञ्चैव सरस्वतीम् | अपराजितां सोमलतां अनन्ताञ्च कपालिनीम् | भद्रकालीञ्च पुरत एताः षोडश नायिकाः | चतुर्भुजा युवत्यश्च शङ्खचक्रगदाङ्कुशाः | प्. ५१४) सर्वाभरणसन्दीप्ताः सिंहस्थाः शशिशेखराः | बालाद्यास्त्र्यक्षरेणैव सम्पूज्या रक्तविग्रहाः | कालीविलासतन्त्रे विंशतिपटले || आदौ दशभुजा पूज्या घटस्थापनपूर्विका | पञ्च देवान् प्रपूज्यादौ पश्चान्महिषमर्दिनीम् | ततश्च कार्तिकादीनां पूजाञ्च यत्नतश्चरेत् | ततश्च पत्रिकापूजा देवीपुराणसम्मता | इति वचनात् पत्रिकापूजनात् पूर्वं कार्तिकेयादीन् पूजयेत् || देव्याः कस्मिन् देशे कः पूज्य इत्याह तत्रैव || जया वामे स्थिता विद्या विजया चापि दक्षिणे | वामे च कार्तिकं देवं दक्षिणे गणपतिं तथा | अथ कर्तिकेयध्यानमष्टादशपटले || सुतप्तकनकप्रेक्षं खड्गपट्टिधरं वरम् | सोष्णीषमस्तकं देवं मयूरवरवाहनम् | ब्रह्माण्डाभ्यन्तरे वीरं ब्रह्मविष्णुशिवात्मकम् | ध्यात्वा पाद्यादिकं दत्त्वा दशधा प्रजपेन्मनुम् | शृणु मन्त्रं प्रवक्ष्यामि कार्तिकेयं यथोचितम् | ह्रीं गुहाय कार्तिकेयाय सेनान्ये स्वाहयान्विता | चतुर्दशाक्षरी विद्या कार्तिकेयस्य कीर्तिता | प्रतिमायां हृदि स्थाने दत्त्वाङ्गुष्ठं सुलोचने ! | दशधा मन्त्रमुच्चार्य प्राणन्यासस्ततो भवेत् | अथ जयाध्यानम् || तप्तकाञ्चनसङ्काशां द्विभुजां लोललोचनाम् | कटाक्षविशिखोपेतां दिगम्बरपरिच्छदाम् | दिव्याभरणसंयुक्तां ध्यायेत् सिद्धिप्रदायिनीम् | ध्यात्वा पाद्यादिकं दत्त्वा सम्पूज्य प्रजपेन्मनुम् | मन्त्रस्तु ह्रीं ह्रीं जयायै ह्रीं ह्रीं | सप्ताक्षरी महाविद्या जयायाः परिकीर्तिता | मायाद्वयजया ङेऽन्ता पुनर्मायाद्वयं प्रिये ! | सप्ताक्षरी महाविद्या कथिता सुरपूजिता | जयाया हृदयेऽङ्गुष्ठं दत्त्वा मन्त्रं जपेद्दश | प्राणसिद्धिस्तदा देवि ! जायते नात्र संशयः | अधुनाहं प्रवक्ष्यामि विजयाध्यानमुत्तमम् | दलिताञ्जनसङ्काशां द्विभुजां खञ्जनेक्षणाम् | प्. ५१५) कटाक्षविशिखोद्दीप्तामञ्जनाञ्चितलोचनाम् | दिव्याम्बरपरीधानां नानारत्नविभूषिताम् | ध्यायेत्तां विजयां नित्यां सर्वसिद्धिप्रदायिनीम् | ध्यात्वा पाद्यादिकं दत्त्वा दशधा प्रजपेन्मनुम् | मन्त्रस्तु | वाग्भवं शम्भुवनिता नाम सम्बोधनं ततः | माया च वाग्भवञ्चैव मनुः सप्ताक्षरः प्रिये ! | विजयाहृदयेऽङ्गुष्ठं दत्त्वा मन्त्रं जपेद् यदि | प्राणसिद्धिस्तदा देवि ! जायते नात्र संशयः | अथ मयूरध्यानम् || नानाचित्रविचित्राङ्ग ! गरुडाज्जननं तव | अनन्तशक्तिसंयुक्त ! कालाहिभक्षणं तव | गरुडस्त्वं महाभाग ! अतस्त्वां प्रणमाम्यहम् | ध्यात्वा पाद्यादिकं दत्त्वा एकधा मन्त्रमुच्चरेत् | माया भगो नादबिन्दू ङेऽन्तनाम सुलोचना | सप्ताक्षरं महामन्त्रं हृदये प्रजपेद् यदि | प्राणसिद्धिस्तदा देवि ! मयूरस्य भवेद्ध्रुवम् || अथ मूषिकध्यानम् || वृषाकार ! महाभाग ! वृषरूप ! महाबल ! | कर्मरूप ! वृषस्त्वं हि गणेशस्य च वाहनम् | नमस्करोम्यहं देव ! पूजासिद्धिं प्रयच्छ मे | ध्यात्वा पाद्यादिकं दत्त्वा क्षिपेत् पुष्पाञ्जलित्रयम् | मायाद्वयं समुच्चार्य वदेच्च मूषिकं ततः | ङेऽन्तञ्च वनितां शम्भोर्मूषिकस्य मनुः प्रिये ! | प्राणप्रतिष्ठा पूर्ववत् || सिंहध्यानम् || सिंहस्त्वं हरिरूपोऽसि स्वयं विष्णुर्न संशयः | पार्वत्या वाहनस्त्वं हि अतः पूजामि त्वामहम् || सिंहमन्त्रः || मायाद्वयं समुच्चार्य सिंहाय महाबलाय च | पुनर्मायाद्वयं देवि ! मनुरेष प्रकीर्तितः | द्वादशाक्षरी महाविद्या सिंहस्य परिकीर्तिता | ध्यात्वा पाद्यादिकं दत्त्वा एकधा मन्त्रमुच्चरेत् || ऊनविंशतिपटले || महिषध्यानम् || महिषस्त्वं महावीर ! शिवरूप सदाशिव ! | प्. ५१६) अतस्त्वां पूजयिष्यामि क्षमस्व महिषासुर ! | ध्यात्वा पाद्यादिकं दत्त्वा एकधा प्रजपेन्मनुम् | मायाद्वयञ्च नकुलं नादबिन्दुविभूषितम् | महिषञ्च तथा ङेऽन्तं कूर्चं मायाद्वयं तथा | एकादशाक्षरी विद्या भक्त्या ते परिकीर्तिता | अथ गणेशध्यानम् || लम्बोदरं महाकायं गजवक्त्रं त्रिलोचनम् | सर्वदेवमयं देवं पार्वतीनन्दनं भजे | ध्यात्वा पाद्यादिकं दत्त्वा एकधा मन्त्रमुच्चरेत् | मायां कवर्गतृतीयं नादबिन्दुसमन्वितम् | तथा गणपतिं ङेऽन्तं विलोमेन पुनर्लयम् || लक्ष्मीध्यानम् | तप्तकाञ्चनसङ्काशां द्विभुजां लोललोचनाम् | कटाक्षविशिखोद्दीप्तामञ्जनाञ्चितलोचनाम् | शुक्लाम्बरपरीधानां सिन्दूरतिलोकोज्ज्वलाम् | शुक्लपद्मासनगतां ध्यायेन्नारायणप्रियाम् | ध्यात्वा पाद्यादिकं दत्त्वा दशधा प्रजपेन्मनुम् || मन्त्रस्तु || मायां कामञ्च देवेशि ! कमलान्तरवासिनी | ङेऽन्तं कामं ततो मायां लक्ष्मीदेव्या दशाक्षरम् || अथ सरस्वतीध्याम् | शङ्खेन्दुकुन्दसङ्काशां द्विभुजां पद्मलोचनाम् | कटाक्षविशिखोद्दीप्तां दिव्याम्बरपरिच्छदाम् | दिव्याभरणवेशाढ्यां वाग्रूपां परमां भजे || सरस्वतीमन्त्रो यथा || मायाञ्च वामकर्णञ्च बिन्दुनादसमन्वितम् | सरस्वत्यै पुनर्बीजद्वयञ्चाष्टाक्षरी मता || ब्रह्मध्यानम् || तरुणादित्यसङ्काशं चतुर्वक्त्रं चतुर्भुजम् | चतुर्वेदमयं वक्त्रं धर्मकामार्थमोक्षदम् | ब्रह्ममन्त्रः || मायां कवर्गस्याद्यन्तु नादबिन्दुसमन्वितम् | ब्रह्मणे नमश्चवर्गाद्यं नादबिन्दुसमन्वितम् || मायां सप्ताक्षरं मन्त्रं ब्रह्मणः परिकीर्तितम् | प्. ५१७) सावित्रीपूजनं भद्रे ! शृणुष्व कथयामि ते || सावित्रीध्यानम् || तप्तकाञ्चनवर्णाभां द्विभुजां लोललोचनाम् | दिव्याभरणवेशाढ्यां दिव्याम्बरपरिच्छदाम् | सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् | सावित्रीमन्त्रस्तु || मायां सां सावित्र्यै ततः पुरः सां मायां ततः परम् | सप्ताक्षरमिदं देवि ! सावित्र्याः परिकीर्तितम् || अथ नवपत्रिकापूजा मत्स्यसूक्ते || रम्भाञ्च द्विभुजां पीतां शूलपुस्तकधारिणीम् | पूजयेत् कामबीजेन मन्त्रेणानेन शङ्करि ! | दुर्गे ! देवि ! समागच्छ सान्निध्यमिह कल्पय | रम्भारूपेण मे देवि ! शान्तिं कुरु नमोऽस्तु ते || १ || खड्गशूलाङ्कुशधरमभयं दधती करैः | महिषासुरयुद्धे त्वं कच्वीरूपासि सुव्रते ! | शक्रस्यानुग्रहार्थाय आगच्छ मम मन्दिरम् || २ || मायाबीजेन सा पूज्या हरिद्रामथ चिन्तयेत् | द्विभुजां पीतवसनां त्रिनेत्रां खड्गधारिणीम् | महिषस्थां विशालाक्षीं अम्बरं वामहस्तके | हरिद्रे ! वरदे ! देवि ! उमारूपासि सुव्रते ! | मम विघ्नविनाशाय पूजां गृह्ण सुरेश्वरि ! || ३ || जयन्तीं रक्तवसनां पीताञ्च चण्डमालिनीम् | शूलचक्रधरां चैव सर्वालङ्कारभूषिताम् | निशुम्भमथने चैव सेन्द्रैर्देवगणैरपि | पूजितासि जयन्ति ! त्वमस्माकं वरदा भव || ४ || विपद्धन्त्रीञ्च द्विभुजां महावृषभवाहिनीम् | श्वेतामभीतिवरदां गगने तु समर्चयेत् | महादेवप्रियकरः सर्वदेवरतः सदा | उमाप्रीतिकरो यस्मात् तस्मात् त्वां प्रणमाम्यहम् || ५ || दाडिमीपत्रिकां रक्तां रक्ताभरणभूषिताम् | रक्तवस्त्रधरां सौम्यामर्द्धेन्दुकृतशेखराम् | चतुर्भुजां त्रिनयनां महिषोपरिसंस्थिताम् | खड्गचर्मधरां स्कन्धे वामेनोत्पलपुस्तिकाम् | मन्दरेणैव बीजेन बालाद्येन समर्चयेत् | सिद्धमन्त्रं पुरा जातं रक्तबीजस्य सम्मुखे | उमाप्रीतिकरं यस्मात्तस्मात्त्वां प्रणमाम्यहम् || ६ || प्. ५१८) अशोकपत्रिकां रक्तां सिन्दूरारुणविग्रहाम् | वाणचापधरां सौम्यां पद्मस्थां नागवाहनाम् | हरप्रीतिकरो वृक्षो ह्यशोकः पापनाशनः | उमाप्रीतिकरस्त्वं हि मामशोकं सदा कुरु || ७ || श्यामाङ्गीं माणपत्रीञ्च नीलनीरजधारिणीम् | महिषस्थां त्रिनेत्राञ्च कन्याबीजेन चार्चयेत् | पत्रे वससि कौमारि ! माणवृक्षे शचीप्रिये ! | मम चानुग्रहार्थाय पूजां गृह्ण यथासुखम् || ८ || धान्यवृक्षे निमग्नाञ्च द्विभुजां श्वेतविग्रहाम् | श्वेतपद्मोप्रविष्टाञ्च वराभयकरां शुभाम् | श्रीबीजेन सतारेण पूजयेत् कमलाननाम् | जगत्प्राणहितार्थाय ब्रह्मणा निर्मितं पुरा | उमाप्रीतिकरं धान्यं शान्तिं कुरु नमोऽस्तु ते || ९ || वहिः पीठे जयन्त्याख्यां दिक्पतीन् सायुधांस्तथा | उपचारैः समभ्यर्च्य हृष्टपुष्टिकरान् पुनः | कुमुदोत्पलपद्मानि कुन्दशेफालिकाजवाः | वकुलं तगरञ्चैव पुष्पाष्टकमुदाहृतम् | मन्त्रं जपेदष्टशतं होमं कुर्याद् यथाविधि | बलिदानान्तरे चैव पादं संश्रपयेच्चरुम् | कृताञ्जलिस्ततः कृत्वा जानुस्पृष्टमहीतलः | पठेत् स्तोत्रं यथान्यायं वाग्वीजाद्यन्तसंयुतम् || अथ स्तोत्रम् | दुर्गां शिवां शान्तिकरीं ब्रह्माणीं ब्रह्मणः प्रियाम् | सर्वलोकप्रणेत्रीञ्च प्रणमामि सदाम्बिकाम् | मङ्गलां शोभनां शुद्धां निष्कलां परमां कलाम् | विश्वेश्वरीं विश्वमातां चण्डिकां प्रणमाम्यहम् | ईशानमातरं देवीं सर्वलोकभयापहाम् | ब्रह्मेशविष्णुनमितां प्रणमामि सदा उमाम् | विश्वस्थां विश्वनिलयां दिव्यस्थाननिवासिनीम् | योगिनीं योगमाताञ्च चण्डिकां प्रणमाम्यहम् | ईशानमातरं देवीमीश्वरीमीश्वरप्रियाम् | प्रणतोऽस्मि सदा दुर्गां संसारार्णवतारिणीम् | य इदं पठति स्तोत्रं शृणुयाद्वापि भक्तितः | स मुक्तः सर्वपापेभ्यो मोदते दुर्गया सह | पञ्चघोषेण भेर्यादिगीतवाद्यादिनिस्वनैः | प्. ५१९) दिवावसाने स्नात्वा तु सायंसन्ध्यां समाप्य च | पश्चिमाशामुखो भूत्वा गन्धमाल्यैरलङ्कृतम् | ध्यायेत् पूर्वे देवीरूपं हंसमन्त्रेण वाग्यतः | दद्यादर्घ्यं नमस्कुर्यात्ततो देवीगृहं व्रजेत् | पञ्चोपचारैर्विधिवत् पूजयेत् परमेश्वरीम् | हविष्यान्नं ततो भक्त्वा दन्तकाष्ठञ्च भक्षयेत् || इति सप्तमीकृत्यम् || अथाष्टमीकृत्यम् || ततः कल्पं समुत्थाय अष्टम्यां प्रातरेव च | नदीतीरं ततो गत्वा स्नानं कुर्यात् समाहितः | अभावे स्रोतस्तोयेन यत्र सूर्यस्य दर्शनम् | स्वस्ति ततो वाचयित्वा पञ्च देवान्नमस्य च | स्नानं होमं समुद्दिश्य बलिनिर्देशनं नुतिम् | यथा प्रहरपूजा च अर्द्धरात्रे विशेषतः | नवम्याञ्च तथा पूजां दशम्याञ्च विसर्जनम् | तर्पणं ब्राह्मणानाञ्च गोत्रोद्देशं स्वसंज्ञकम् | एवं सङ्कल्प्य मतिमान् देव्याः स्नानं समाचरेत् | तारार्कवचनं ङेऽन्तं चण्डिकाहृदयं ततः | पानीयस्य च कथितं क्षीरस्य शृणु सुन्दरि ! | मायां गां गौर्यै हृदयं पञ्चगव्यस्य च शृणु | तारां वाणीञ्च नेत्राभ्यां सर्वतो हृदयान्तकम् | मायान्तनुवुदाञ्चैव हृदयार्णञ्च शर्कराम् | तारां मायाञ्च गिरिशे ! मधुमन्त्र इतीरितः | मायां शिखायै नम इति पुनः पानीयकेन तु | तारं चक्रं भद्रकाली कवचायेति दधिमन्त्र उदाहृतः | वाग्भवाद्यञ्च तैलस्य मायां गौर्यै नमः स्थितम् | उष्णोदकस्य देवेशि ! तथा गुडघृतस्य च | वाङ्मन्त्रेण महेशानि ! तथैवेक्षुरसेन च | अनुक्ते चण्डिकाशान्तं यच्चान्तेन महेश्वरि ! | दशाक्षरेण मन्त्रेण नानागन्धोदकेन च | त्रिरक्तेन त्रिगन्धेन त्रिशीतेन महेश्वरि ! | फलोदकैस्तीर्थतोयैः पुष्पतोयैः कुशोदकैः | घटस्थापनं ततः कृत्वा पीठपूजां समाप्य च | पूर्ववद्ध्यानं ध्यात्वा च मन्त्रेणारोपयेत्ततः | आगतां स्वागतां पृच्छेद्दयात् पाद्यादिकं ततः | प्. ५२०) गायत्र्या स्नापयेद्देवीमङ्गपूजां विधाय च | मधुपर्कं ततो दद्यात् पुनराचमनीयकम् | पूर्वादिपत्रे सम्पूज्या जयन्त्याद्याश्च मातरः | जयन्ती मङ्गला काली भद्रकाली कपालिनी | दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा ततः परम् | तत्रैव च दलाग्रेषु रुद्रचण्डादिका अपि | रोचनाभां रुद्रचण्डां प्रचण्डामरुणप्रभाम् | चण्डोग्रां कृष्णवर्णाञ्च श्यामाञ्च चण्डनायिकाम् | शुक्लाभां चण्डरूपाञ्च धूम्रां चण्डवतीमपि | अतिचण्डां पाण्डुराभां पीतवर्णान्तु चण्डिकाम् | वागाद्येन तु मन्त्रेण तारादिहृदयान्तकम् | अग्निवर्णामुग्रचण्डां मध्ये तु परिपूजयेत् | पूर्वादिष्वष्टपीठेषु चतुःषष्ठीः समर्चयेत् | ब्राह्मी माहेश्वरी चैव कौमारि वैष्णवी तथा | पञ्चोपचारैर्विधिवज्जयन्त्यादि ततः परम् | जयन्ती मङ्गला काली भद्रकाली कपालिनी | दुर्गा शिवा क्षमा धात्री पूजनीयाः प्रयत्नतः | दक्षिणप्रान्तेषु देव्याः स्वाहाञ्चैव स्वधां ततः | अम्बिकां चर्चिकाञ्चैव तथा कात्यायनीमपि | रक्तदन्तिकाञ्च सर्वादिमङ्गलाञ्च ततः परम् | शाकम्भरीं भ्रामरीञ्च शिवदूतीं ततः परम् | महाकालीञ्च गौरिञ्च तर्जनीं भाविनीं तथा | महामोहाञ्च प्रयजेत् तथा चैव भयङ्करीम् | ततः पश्चिमप्रान्तेषु भीमां पद्मां शचीं तथा | मेधाञ्चैव महामायां सावित्रीं विजयां जयाम् | देवसेनां धृतिञ्चैव पुष्टिं धृतिञ्च भ्रामरीम् | महामायां महादेवीं महामेधां तथैव च | कामेश्वरीमुत्तरस्यां कामदामपि चार्चयेत् | भ्रामरीं कालरात्रिञ्च महारात्रिं तथैव च | चक्रेश्वरीं ततश्चैव पूजयेद्भगमालिनीम् | धूम्रां भीमाञ्च शान्ताञ्च विदारीञ्च महाम्बिकाम् | लक्ष्मीञ्चैव सुपर्णाञ्च महोग्रोमां तथादरात् | कुलदेवीं त्र्यक्षरेण मन्त्रेण च समर्चयेत् | वटुकान् पूजयेद् द्वारे द्वौ द्वौ कृत्वा विभागतः | सिद्धाख्यञ्चैव सन्देहं कालपुत्राख्यमेव च | प्. ५२१) क्रियाकुलनिभञ्चैव मन्त्राङ्गं देवि ! पूत्त्रकम् | मन्दरेणैव बीजेन सतारेण प्रपूजयेत् | भैरवानसिताङ्गादीन् क्षेत्रेशांश्च यजेत् क्रमात् | हेतुकं त्रिपुराङ्गञ्च अग्निजिह्वं तथैव च | कालास्यञ्च करालास्यमेकपादञ्च भीमकम् | अनुग्रहञ्चोर्द्धभागे अधश्च नासिकेश्वरम् | नारसिंहेन बीजेन सतारं हृदयान्तकम् | वहिः पीठे चार्चयेद्वै तेन बीजेन साधकः | जम्भकं मणिभद्रञ्च पूर्णभद्रं तथैव च | विरूपञ्च विरूपाक्षं चित्रकुण्डलमित्यपि | चित्राक्षं चित्ररूपञ्च केलिमालिनमेव च | वरेन्द्रं नन्दिनं सिंहं ग्रहान् लोकपतीन् यजेत् | आदित्यादिग्रहा ये च ये ग्रहाः क्रूरकर्मणः | तिथयो वासराः सर्वे तेषां हि सन्निधौ स्थिताः | ते पूजार्थमिहायान्तु पूजयिष्यामि तानहम् | क्रूरकर्मण इति छान्दसत्वात् ह्रस्वः | अथास्त्रपूजा || दक्षिणादिक्रमेणैव देव्यस्त्राणि प्रपूजयेत् | प्रतिमन्त्रैः स्वबीजैश्च गन्धचन्दनपुष्पकैः | इयं येन धृता क्षौणी हतश्च महिषासुरः | त्रिधाराय च शूलाय तस्मै शुद्धात्मने नमः | असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः | श्रीगर्भो विजयश्चैव धर्मपाल ! नमोऽस्तु ते | इत्यष्टावेव प्रयजेत्तीक्ष्णधाराभिरालिकम् | चक्रेश्वरीतिमत्रेण लौहदण्डं तथैव च | सुदर्शन ! महाचक्र ! दैत्यराजभयङ्कर ! | त्रिपुरान्तकरः श्रीमान् चक्रवर्य ! नमोऽस्तु ते | चार्वङ्गगणसम्पन्न ! चक्राय च नमो नमः | सतारश्चक्रमन्त्रोऽयं सर्वविघ्नविनाशनः | नमोऽस्तु पञ्चवाणाय निर्मलाय महात्मने | पञ्चतत्त्वस्वरूपाय पञ्चवाणाय वै नमः | शक्तिस्त्वं सर्वभूतानां व्यापकानाञ्च व्यापकम् | कालाकालमवष्टभ्य शक्तिवर्य ! नमोऽस्तु ते | रमाबीजं सतारञ्च सजयं मन्त्रमीरितम् | वामादिवामतः पूज्याः पश्चान्मन्त्रैर्यथाविधि | धर्मप्रदस्त्वं समरे धर्माणामायुधोऽप्यसि | प्. ५२२) रक्षणीयस्त्वया यस्मात् वरानघ ! नमोऽस्तु ते | धृतं कृष्णेन रक्षार्थं संहारार्थं हरेण च | त्रयीमूर्तिञ्च सगरं धनुरस्त्रं नमाम्यहम् | अत्यन्तं रामकृष्णाभ्यां धनुषे वह्निवल्लभा | विजयादिशरान्तञ्च धनुर्मन्त्र उदाहृतः | नागराज ! महापाश ! अनन्तवरणाय च | निर्मितो विष्णुना यस्मादतः पाहि नमः स्वधा | चण्डिकायाः प्रदत्तासि सर्वानुबालवर्हिणी | छुरिके ! रक्ष मां नित्यं शान्तिं कुरु नमोऽस्तु ते | छुरिकायै च ठद्वयम् | घण्टायाः शृणु मन्त्रञ्च कोणान्तेन च सुन्दरि ! | परितः पूजयेन्मन्त्रान् देवांश्चैव ऋषीनपि | पीठेशांश्चैव जीवेशानुपचारैरनन्तरम् | तत्रैव च शिवं विष्णुं वनितारञ्च पूजयेत् | वेदोक्तैरागमोक्तैश्च तथा पौराणिकैरपि | मन्त्रैर्यथा विभागेन स्वतन्त्रोक्तैः प्रयत्नतः | शुभ्रेण दधिसूक्तेन गायत्र्या तदनन्तरम् | मन्त्रं जप्त्वा स्तुतिं कुर्याद्धोमं कुर्याद्दशांशकम् | प्रसादनं ततः कुर्यादिमं मन्त्रं पठेत्ततः | यन्मयोपहृतं किञ्चित् पुष्पगन्धानुलेपनैः | तत् सर्वमुपयुञ्जीत प्रसीद वरदा भव | पुष्टीं प्रज्ञां धृतिं मेधामारोग्यं भूतिमेव च || अथ षोडशोपचारमन्त्राः || प्रसीद जगतां मातः ! संसारार्णवतारिणि ! | मया निवेदितं भक्त्या आसनं सफलं कुरु || १ || आसनपरिमाणन्तु मातृकाभेदतन्त्रे पञ्चमपटले || चतुरङ्गुलविस्तारं रौप्यनिर्माणपीठकम् | अलङ्कारं यथायोग्यं पुरुषस्तु निवेदयेत् | मूलप्रकृतिरूपेण सूयते सचराचरम् | पूजामहं विधास्यामि स्वागतन्ते महेश्वरि ! || २ || दुर्गन्धि परमामोदं परं वागीश्वरेश्वरी | पाद्यमेतन्मया दत्तं प्रसीद भुवनेश्वरि ! || ३ || दूर्वातण्डुलसम्मिश्रं कर्पूरागुरुपूरितम् | अर्घ्यं दत्तमिदं गृह्ण मत्तस्त्रिभुवनार्चिते ! || ४ || आपो नारायणः साक्षादप्सु सर्वं चराचरम् | निवेदयामि ते देवि ! अद्भिराचमनीयकम् || ५ || प्. ५२३) वाजिमेधफलावाप्त्यै मया दत्तं वरानने ! | मधुपर्कं प्रतीच्छस्त्र मातर्मे भुवनेश्वरि ! || ६ || पुनराचमनीयमप्याचमनीयमन्त्रेण वा दद्यात् || ७ || शङ्खस्थमुदकं पुण्यं सुगन्धि सुमनोहरम् | निवेदितं मया देवि ! स्नानीयं प्रतिगृह्यताम् || ८ || त्वं देवि ! परमेशानि ! परंब्रह्मस्वरूपिणि ! | गृह्ण वस्त्रमिदं देवि ! यज्ञसूत्रमिदं शुभे ! || ९ || ज्योतिषां ज्योतिरेकस्त्वमनादिनिधनं न ते | मया दत्तमलङ्कारमलङ्कुरु नमोऽस्तु ते || १० || सुगन्धि दुर्गमं नान्यं कुमुदोत्पलमालिनम् | सितपीतारुणादानं गृह्ण पुष्पं वरानने ! || ११ || धूपं गुग्गुलुसंयुक्तं चन्दनागुरुचर्चितम् | दशाष्टाङ्गसमुद्भूतं गृहाण परमेश्वरि ! || १२ || परं ज्योतिः परं ब्रह्म जगदेकं सनातनि ! | भूतये मम देवेशि ! दीपोऽयं प्रतिगृह्यताम् || १३ || यद्दत्तं परया भुक्त्या फलमूलादिकं मया | गृहाण परमेशानि ! नैवेद्यं सुमनोहरम् || १४ || मातृकाभेदतन्त्रे || नैवेद्यं विविधं रम्यं नानाफलसमन्वितम् | शर्करासंयुतं कृत्वा पायसञ्च निवेदयेत् | मत्स्यसूक्ते || अशेषजगदाधारभूते ! त्रैलोक्यवन्दिते ! | प्रदक्षिणमहं वन्दे विद्वत्सु पादपङ्कजम् || १५ || धान्यमुद्गकलायस्य रजोवस्य तिलस्य च | प्रकटानेकफलयुग्रचनां विनिवेदयेत् || १६ || प्राणान् रक्ष यशो रक्ष पुत्त्रदारधनानि च | सर्वरक्षाकरी यस्मात्त्वं देवि ! भुवनत्रये | अत्र बलिदानोक्तस्मार्तभट्टाचार्यलिखिताभिलापवाक्यवद् द्रव्यविशेषेऽपि कामनाविशेषेणाभिलाप उक्तस्तत्रैव || द्रव्यदानोचितं वाक्यं शृणु वक्ष्ये समासतः | यादृशं कल्पसम्पूर्णं तत् प्रयच्छ वरानने ! | ततो यथाभिमतविजयकामो गन्धमहं ददामीति गन्धं दद्यात् | कल्पकोटिस्वर्गनिवासकामश्चन्दनागुरुकर्पूरकुङ्कुमैरनु-लेपनमहं ददामीति मिश्रितानुलेपनं दद्यात् | ततः पुष्पं दशसुवर्णदानफलप्राप्तिकामो नानाविधयुक्तपुष्पमहं ददामीति उद्दिश्य जातीयुक्तविमुक्तचम्पकबिल्वपत्रोत्पलकुमुद- मल्लिकाकाञ्चन्शेफालिकाकह्लारकरवीरजयन्तीबन्धूकयथा- कालप्राप्तजलजारण्यजपर्वतसम्भूतोक्तानुक्तपुष्पाणि दद्यात् | प्. ५२४) अद्य राजसूययज्ञफलप्राप्तिकामो बिल्वपत्रमालाद्वयं दद्यात् | ततः पुष्पदानत्रिगुणफलप्राप्तिकामः करवीरमाल्यमहं ददामीति उक्त्वा नानाकर्मविरचितकृत्यं वकुलमाल्यं दद्यात् | अद्य गोसहस्रदानफलप्राप्तिकामो मालतीमालाद्वयं रक्तोत्पलञ्च दद्यात् || ततो वाजपेयफलप्राप्तिकामो धूपमहं ददामीति बहुविधधूपं दद्यात् | अश्वमेधफलप्राप्तिकामो घृतप्रदीपमहं ददामीत्युद्दिश्य घृतेन दीपमालायां दीपोल्काञ्च दद्यात् | ततो गोमेधशतयज्ञप्राप्तिकामो हृद्यनानाफलान्वितपत्रपुष्पोपेतबहुविधान्नपानताम्बूलादीनि मेध्यान्यमूनि दद्यात् | ततः पुष्कराधिकरणकदशसुवर्णतारदानफलप्राप्तिकामः स्तवकादिफलपञ्चशस्यप्ररूढधान्यशालूकपद्ममृणालानि यथासम्भवमेध्यमतिरूपाणि दद्यात् | एतद्वस्त्रतन्तुसंख्यवर्षसहस्रावच्छिन्नशिवदुर्गालयमोदन-कामो नेत्रक्षौमादियथासम्भववस्त्राण्यहं ददामीति उक्त्वा सूक्ष्ममृदुरूपाणि वस्त्राणि दद्यात् | ततो गङ्गाधिकरणकदशगोदानफलप्राप्तिकामः सोत्तरीययज्ञसूत्रं ददामीत्युद्दिश्य दद्यात् | ततो गोसहस्रदानफलप्राप्तिकामः सुवर्णमहं ददामीत्युक्त्वा दद्यात् | ततः स्वर्गाधिकरणकदीप्यमानकामश्छत्रमहं ददामीति छत्रम् | अग्निष्टोमयज्ञफलप्राप्तिकामश्चामरमहं ददामीति चामरं दद्यात् | अद्य दीर्घायुरारोग्यविजयावच्छिन्नविपुलभोगप्राप्तिकामः अद्य चन्द्रांशुजन्मणिसमः अतिसौभाग्यकामः रूपधान्यकन्यायुतसहस्रावच्छिन्नदुर्गालोकप्राप्तिकामः सोपधानशययापादुकादीनि दद्यात् | दत्त्वा बलिं ततः कुर्यात् कृष्णच्छागं परात्परम् || बलिदानस्य विशेषोऽग्रे वक्ष्यते | प्. ५२५) जप्त्वा प्रदक्षिणं कुर्यात् स्तुतिपाठं सदाचरेत् | अथ स्तुतिः || नारद उवाच || ओं भगवति ! भयोच्छेदे ! कात्यायनि ! च कामदे ! | कौशिकि ! त्वं महेशानि ! कालिके ! त्वां नमाम्यहम् || १ || प्रचण्डे ! पुत्त्रदे ! देवि ! सूप्रीते ! सुरनायिके ! | कुलद्योतिकरे ! चोग्रे ! पार्वति ! त्वं प्रसीद मे || २ || दुर्गोत्तारिणि ! दुर्गे ! त्वं सर्वाशुभनिवारिणि ! | सर्वे ! सर्वार्थदे ! देवि ! भव त्वं वरदा मम || ३ || चण्डोग्रे ! वरदे ! देवि ! प्रचण्डे ! विजयप्रदे ! | धर्मार्थकामदे ! देवि ! कात्यायनि ! नमोऽस्तु ते || ४ || जन्मान्तरसहस्रेषु तिर्यग्योनिगतस्य च | अघं संहर मे देवि ! ज्ञानतोऽज्ञानतः कृतम् || ५ || शान्तिपुष्टिप्रदे ! देवि ! मातस्त्रैलोक्यतारिणि ! | नमस्यामि जगद्धात्रि ! त्वामहं बिल्वभाविनि ! || ६ || नमस्तेऽस्तु शिवे ! देवि ! सर्वव्यापिनि ! शाङ्करि ! | निजधर्मादिकं काम्यं कल्याणञ्च प्रदेहि मे || ७ || सर्वेषां नाथभूतासि त्वमेवैकाकिनी यतः | तस्मान्नमामि देवेशि ! प्रसन्ना वरदा भव || ८ || इयं सर्वेश्वरीपूजा यन्मया देवि ! ते कृता | पूर्णा भवतु सा सर्वा त्वत्प्रसादान्महेश्वरि ! || ९ || जातस्य यजमानस्य गर्भस्थस्य च देहिनः | मा भूत्तत्र कुले जन्म यत्र देवी न चण्डिका || १० || इत्यष्टमीकृत्यम् || अथ निशीथकृत्यम् || अर्द्धरात्रौ ततः कुर्याद् दिवसे वा समाहितः | सन्ध्यायां वा महेशानि ! शरणाम्भसि पूर्वकम् | अष्टम्याञ्च नवम्याञ्च शिविकायां यथेच्छया | निशायात्रां प्रकुर्वीत सन्ध्यायां रजनीमुखे | ततः सम्पूजयेद्भक्त्या बलिभिः पायसादिना | नृत्यगीतविचित्रैश्च वाद्यैरुच्चावचैरपि | रक्तपुष्पस्य कुसुमष्टम्याञ्च निवेदयेत् | सहस्रसंख्यकैर्देवि ! वकुलैर्वा मनोरमैः | पुण्डरीकन्तु यो दद्यादर्द्धरात्रौ विशेषतः | सर्वान् कामानवाप्नोति शतमष्टोत्तरं तथा | प्. ५२६) अथ नवमीकृत्यम् तत्रैव || नवम्यां पूर्ववत् पूजा कर्तव्या भूर्तिमिच्छता | देव्यै नवम्यां सन्ध्यायां पिशितान्नं सशर्करम् | दद्याद् यदि तदा मद्यवर्जितं तदरान्वितम् | अरं काञ्जिकम् || शान्तिं कृत्वा ददेद्धेनुं दक्षिणां विधिवद् यथा | दक्षिणां वस्त्रयुग्मञ्च आचार्याय निवेदयेत् | परितोषं पुनर्दानं विधिज्ञाय च काञ्चनम् | धान्यं वामस्तथा ताम्रं ब्रह्मणे धान्यकाञ्चनम् | ऋत्विजेऽपि तथा धान्यं सतिलं काञ्चनं तथा | ब्राह्मणांश्च कुमारीश्च अन्यानपि च पूजयेत् | दीनान्धकृपणानाञ्च भक्तितः पूजनं चरेत् | दद्यादुक्तमर्कभोज्यं दिनभोज्यं विशेषतः || पतिरन्यं यदा दोर्भिर्बलिदानाद्यशान्तये | शिवभक्तान् पूजयेच्च शिवाभक्तान् विशेषतः | शिवभक्ताश्च ये केचिद् विष्णुभक्ताश्च पार्वति ! | गृहं प्रविश्य च पुनर्गीतवाद्यपुरःसरम् | गृहं सम्पूजयेद्भक्त्या भुञ्जीत बान्धवैः सह || इति नवमीकृत्यम् || तत्रैव | प्रातरेव दशम्यान्तु नित्यं निर्वर्त्य सादृतः | जानुभ्यामवनीं गत्वा इदं संश्रावयेत्ततः | ओं कालि ! कालि ! महाकालि ! कालिके ! पापनाशिनि ! | कालि ! करालनिष्क्रान्ते ! कालिके ! त्वां नमोऽस्तु ते | सिंहवाहिनि ! चामुण्डे ! पिनाकधनुवल्लभे ! | उपहारं गृहीत्वैवं प्रसीद परमेश्वरि ! | ओं उत्तिष्ठ देवि ! चामुण्डे ! शुभां पूजां प्रगृह्य च | व्रज त्वं स्रोतसि जले वृद्धौ च स्थीयतामिह | निर्माल्यधारिणी पूज्या चाण्डाली गन्धचन्दनैः | समर्पयित्वा मन्त्रेण मन्त्रमेतदुदीरयेत् | निमज्याम्भसि सम्पूज्या परिकालार्चिते जले | पुत्त्रायुर्धनवृद्ध्यर्थं स्थापितासि जले मया | यजमानः स्वयञ्चैव चण्डिकां प्रेषयेच्छिवाम् | न वीक्षेत महेशानीं न नग्नां प्रेषयेज्जले | दशम्यां श्रवणाप्राप्ते अप्सु निक्षिप्य दारकः | अलाभे केवलायान्तु न निशायां कथञ्चन | पूजोपहारद्रव्याणि आचार्याय निवेदयेत् | तदर्द्धञ्च विधिज्ञाय तदर्द्धञ्चैव ब्रह्मणे | प्. ५२७) तच्छेषं ऋत्विजे दद्यात् परितोषं तथैव च | पूजालयं न वीक्षेत गृहस्थः स्वं कदाचन | अप्सु निक्षिप्य देवेशीं ब्राह्मणायोपपादयेत् | देवीस्थितगृहेणापि यो गृहं कारयेत् सुधीः | तस्य लक्ष्मीर्बलञ्चायुः सर्वं नश्यति तत्क्षणात् | इति दशमीकृत्यम् || इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे दुर्गोत्सवप्रकरणे प्रतिपदादिकृत्यरूपस्तवकथनं नाम पञ्चमः परिच्छेदः | एकपञ्चाशत्पटले || भगवानुवाच || अथ दुर्गामनुं वक्ष्ये सर्वतन्त्रानुसारतः | शारदीयप्रयोगे तु तद्विशेषं यथा शृणु | वाक्शक्तिकमलास्याश्च त्र्यक्षरं परिकीर्तितम् | नित्ये नैमित्तिके काम्ये मोक्षेषु च नियोजयेत् | ऋषिः स्यान्नारदश्चास्य छन्दोऽनुष्टुप् प्रकीर्तितम् | शम्भुश्च देवता देवी चतुर्वर्गेषु योजयेत् | कामलक्षं जपेन्मन्त्रं तद्दशांशेन तर्पणम् | तत्त्वन्यासं बलिञ्चैव होमं दशदशांशके | षट्पुरञ्चाष्टपत्रञ्च कलापत्रं धरापुरम् | चतुर्द्वारं बीजयुक्तं पीठयुक्तं समर्चयेत् | ब्राह्म्यादीनथ पत्रे च जयन्त्यादींश्च षट्पुरे | शेषशेषं तथा मध्ये अमृताद्याः कलाच्छदे | ध्यानम् || जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् | लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् | तप्तकाञ्चनवर्णाभां सुप्रतिष्ठां सुलोचनाम् | नवयौवनसम्पन्नां सर्वाभरणभूषिताम् | सुचारुदशनां तद्वत् पीनोन्नतपयोधराम् | त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् | त्रिशूलं दक्षिणे हस्ते खड्गं चक्रं तथैव च | तीक्ष्णवाणं तथा शक्तिं दक्षिणेऽपि निबोधत | खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च | घण्टां वा परशुं वापि देव्या वामे विचिन्तयेत् | अधस्तान्महिषं तद्वद्विश्रिरस्कं प्रदर्शयेत् | शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् | प्. ५२८) हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् | रक्तरक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् | वेष्टितं नागपाशेन भृकुटीभीषणाननम् | पिबन्तञ्चैव रक्तञ्च देव्याः सिंहं प्रदर्शयेत् | देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् | किञ्चिदूर्द्ध्वं तथा वाममङ्गुष्ठं महिषोपरि | ध्यात्वानेन जपेन्मन्त्रं बलिं दत्त्वा स्तुतिं पठेत् | ऋषिः स्यान्नारदश्छन्दोऽप्यनुष्टुप् शम्भुरेव च | देवता च समाख्याता चण्डिका परमेश्वरि ! | ओं परंब्रह्मस्वरूपाञ्च वेदगर्भां जगन्मयीम् | शरण्ये ! त्वामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || १ || कामाख्यां कामदां श्यामां कामरूपां मनोरमाम् | ईश्वरीं त्वामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || २ || त्रिनेत्रां हास्यसंयुक्तां सर्वालङ्कारभूषिताम् | विजयां त्वामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ३ || ब्रह्मादिभिः स्तूयमानां सिद्धगन्धर्वसेविताम् | भवानीं त्वामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ४ || निशुम्भशुम्भमथनीं महिषासुरघातिनीम् | दिव्यरूपामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ५ || विंशत्यर्द्धभुजां देवीं शुद्धकाञ्चनसन्निभाम् | गौरीरूपामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ६ || त्रिशूलं खड्गचक्रञ्च वाणशक्तिं परश्वधम् | दधानां त्वामहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ७ || जगन्मयीं महाविद्यां सृष्टिसंहारकारिणीम् | सर्वदैवमहं वन्दे दुर्गां दुर्गतिनाशिनीम् || ८ || इदन्तु कवचं दिव्यं महामन्त्रं महाफलम् | यः पठेन्मानवो नित्यमस्मद्भक्तिसमन्वितः | धनं धान्यं प्रयच्छामि सकृदावर्तनेन तु | इति मत्स्यसूक्ते दुर्गास्तोत्रं समाप्तम् | तत्रैव | दुर्गन्त्वारक्तशृङ्खलम् | निगमाद्यं वह्निजायां दशार्णं परिकीर्तितम् | एषा विद्या महाविद्या जयदुर्गा प्रकीर्तिता | ऋषिः स्यान्नारदश्छन्दो गायत्री परिकीर्तिता | देवता च भवेद्दुर्गा सर्वार्थे विनियोजयेत् | मन्त्रं लक्षं जपेन्मन्त्री तत्त्वन्यास उदाहृतः | प्. ५२९) तद्दशांशं जुहुयाच्च तर्पणं ऋतुसंख्यकम् | दद्यान्महिषमन्त्रेण आसनं परिकीर्तयेत् | मूलेन कल्पयेन्मूर्तिं शृणु ध्यानं वरानने ! | ततो जलनिधेस्तीरे वनराजिविराजितम् | तमालतालहिन्तालपाटलामलकैर्वृतम् | कुन्दमन्दारदाडीमकदम्बकुसुमैर्युतम् | चम्पकाशोकरम्भाढ्यं चन्दनागुरुभूषितम् | सुगन्धिकुसुमामोदगन्धामोदितदिङ्मुखम् | पशुपक्षिगणाकीर्णं बिल्वनोपसरोवरम् | कुमुदोत्पलकह्लारपुण्डरीकोपशोभितम् | तस्मिन्नमृतदं चारुपारिजातचतुष्टयम् | पादपल्लवमामोदि मञ्जरीपुञ्जधारितम् | तस्मिन्मणिमयं कुण्डं मण्डपं मणिकुट्टिमम् | तडित्कोटिप्रतीकाशं बालादित्यसमप्रभम् | मण्डितं पाण्डरच्छत्रैर्विमानेन विराजितम् | शोभितं शतसाहस्रैर्ध्वजैः पाण्डरचामरैः | तत्र सिंहासनं रम्यं रत्नदामविराजितम् | ततो भावयेद्भास्वरं सिंहमाजं चतुर्वेदपादं चतुर्विंशतत्त्वम् | वहिर्लोलजिह्वं चलत्पिङ्गलाक्षं तुषारप्रभं दुर्निरीक्षं समस्तैः || महत्ताप्रभवारक्तपङ्कजं षट्पुरान्वितम् | विभ्राजमानं विस्तीर्णं मृगराजोपरिस्थितम् | ध्यायेत्तस्मिन् तप्तजाम्बूनदाभां दिव्यैर्भव्यैर्भासयन्तीं त्रिनेत्रैः | चन्द्रादित्यौ कुण्डले द्वे दधानामूर्द्ध्वं चन्द्रं धारयन्तीं मुदा हि | स छिन्नबलवीर्यौघो निर्गतो महिषासुरः | सप्रासेन त्रिशूलेन भ्रुकुटीकुटिलाननाम् | गृहीतनागतत्केशमृगेन्द्राकृष्टवाहकम् | लोहितास्यैर्महाघोरैः शार्दूलैरपि भक्षितम् | नियुक्तं रक्तपं सिंहं वीक्षयन्ती मुहुर्मुहुः | सिद्धगन्धर्वरक्षोभिर्यक्षविद्याधरोरगैः | गीतवादित्रनिर्घोषैः स्तूयमाना महेश्वरी | महोत्सवे महारात्रौ उत्थाने शयनेऽपि च | महामखे महायोगे ध्यानं तत्र नियोजयेत् | नित्यां नीलोत्पलाभां तां त्रिनेत्रां शशिशेखराम् | चतुर्भिः स्वकरैर्धत्ते शङ्खचक्रकृपाणकम् | त्रिशिखञ्च जटाजूटं सिंहस्थामपि चिन्तयेत् | प्. ५३०) पीठसिंहे महेशानि ! यजेत् शक्तिसमन्विताम् | प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी तथा | सुप्रभा विजया सर्वसिद्धिदा नव शक्तयः | षट्पुरे भैरवीञ्चैव शेषमध्ये समापयेत् | पूर्वाद्यग्रे च ब्रह्मादीन् यच्छेषं पूर्ववत् प्रिये ! | अष्टादशभुजायाश्च वक्ष्ये मन्त्रं शिवप्रदम् | भावस्थाने समुन्नीय तत्त्वदुष्टे उदाहृतः | ध्यानं देव्याः प्रवक्ष्यामि सर्वपापप्रणाशनम् | सूर्यमण्डलमध्यस्थां दावाग्निसदृशप्रभाम् | जटाजूटसमायुक्तां त्रिनेत्रां शशिशेखराम् | अष्टादशाब्दिकां देवीं रक्ताम्बरविभूषिताम् | निघ्नन्तीं महिषञ्चैव सिंहासनोपरिस्थिताम् | शक्तिञ्च दुर्द्धरं शूलं वज्रं खड्गं तथाङ्कुशम् | शरं चक्रं शलाकञ्च वामदक्षिणतः शृणु | सिद्धाख्यवटुकञ्चैव सन्देहवटुकं पुनः | समयाद्यं तथाङ्गानि पत्राद्यञ्च क्रिया तथा | पुत्रं तेषामनन्तन्तु वटुकं शक्तिवामतः | तारेण भावयुक्तेन नमसान्तेन चार्चयेत् | अजितापराजिता चैव जया च विजया पुनः | काली चैव तथा श्यामा मङ्गला सिद्धिरेव च | कात्यायन्याः प्रवक्ष्यामि मन्त्रं सर्वार्थसाधनम् | वागाद्या जयदुर्गायास्तारमूले महेश्वरि ! | ततश्चार्कभुजायाश्च कमलाद्यं समुद्धरेत् | मायान्यासञ्च सर्वत्र द्विभुजायाश्च वाग्भवम् | सिन्दूरार्कप्रसङ्काशां पीनोन्नतपयोधराम् | त्रिनेत्रां महिषघ्नीञ्च चन्द्रलेखांशुभिर्युताम् | करैश्चतुर्भिः खड्गञ्च शूलं चक्रं गदां तथा | वामे चर्माङ्कुशं घण्टां मुण्डपञ्चकमेव च | यवाद्याः पूजयेत् पत्रे श्रीकण्ठादींश्च तद्वहिः | अथ चाष्टभुजायाश्च ध्यानं वक्ष्ये समाहितः | सूर्यकोटिप्रतीकाशां त्रिनेत्रां शशिशेखराम् | मृगचर्मोत्तरासङ्गां सिंहस्कन्धनिवासिनीम् | अष्टभिर्बाहुभिः खड्गं चक्रं दक्षिणबाहुभिः | वज्राशनिं कपालञ्च वामे चर्म धनुः शरम् | घण्टाञ्च परशुञ्चैव क्रमादस्त्राणि वै प्रिये ! | पुष्ट्यादिमातरः पत्रे श्रीकण्ठादींश्च तद्बहिः | प्. ५३१) चतुर्भुजायाः श्रीवत्सध्यानं वैष्णवचोदितम् | सिंहारूढां महाभीमां शूलं चक्रं धनुस्तथा | शङ्खं पद्मञ्च महिषं निघ्नन्तीं परिचिन्तयेत् | इति दुर्गाविशेषपूजा | अथ दुर्गानाममाहात्म्यं तत्र स्वरूपं दर्शयत्रि रुद्रजामले | तवर्गतृतीयो वर्णः पञ्चमस्वरसंयुतः | कवर्गस्य तृतीयश्च रेफं तस्योपरि प्रिये ! | द्वितीयस्वरसंयुक्तं नामेदं परिकीर्तितम् | अथ नाममाहात्म्यम् | मुण्डमालातन्त्रे द्वितीयपटले | न हि दुर्गासमा पूजा न हि दुर्गासमो जपः | न हि दुर्गासमं ज्ञानं न हि दुर्गासमं तपः | दुर्गायाश्चरितं यत्र तत्र कैलासमन्दिरम् | तृतीयपटले | दुर्गास्मरणजं देवि ! दुर्गास्मरणजं फलम् | दुर्गायाः स्मरणेनैव किं न सिध्यति भूतले | शैवो वा वैष्णवो वापि शाक्तो वा गिरिनन्दिनि ! | भजेद्दुर्गां स्मरेद्दुर्गां यजेद्दुर्गां शिवप्रियाम् | तत्क्षणाद्देवदेवेशि ! मुच्यते भवबन्धनात् | तथा | दुर्गाया मन्त्रमाकारं नानातन्त्रे श्रुतं त्वया | दुर्गे दुर्गेति दुर्गाया दुर्गे नामपरं मनुम् | यो भजेत् सततं चण्डि ! जीवन्मुक्तः स मानवः | हे दुर्गे ! दुर्गे घोरसङ्कटे दुर्गायाः परं मनुं दुर्गे इति नामशतं यो भजेज्जपेत् स जीवन्नपि मुक्तो भवेदित्यन्वयः | फलान्तरमाह तत्रैव | महोत्पाते महारोगे महाविपदसङ्कटे | महादुःखे महाशोके महाभये समुत्थिते | यः सदा संस्मरेद्दुर्गां यो जपेत् परमं मनुम् | स जीवलोके देवेशि ! नीलकण्ठत्वमाप्नुयात् | महोत्पातादिषु दुर्गां यः स्मरेत् स्मृतिविषयताशालिनीं कुर्याद्यश्च जपन् मानसप्रत्यक्षविषयतावतीं कुर्यात् स नीलकण्ठत्वमाप्नुयात् कालकूटस्येव महोत्पातादेः पातृत्वे लभेत् | उत्तरत्र तु नीलकण्ठत्वं शिवत्वमित् सर्वं समञ्जसमिति | प्. ५३२) तदेव स्पष्टयति चतुर्थपटले | श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः स्मरेत् | दुर्गां दुर्गशतं तीर्य स याति परमां गतिम् | सप्तमपटले | नानातन्त्रमतं देवि ! नानारत्नं प्रकाशितम् | ब्रह्मस्वरूपं विज्ञातुं कः समर्थो महीतले | नानामार्गे प्रधावन्ति पशवो हतबुद्धयः | श्रीदुर्गाचरणाम्भोजं हित्वा यान्ति रसातलम् | सत्यं वच्मि हितं वच्मि पथ्यं वच्मि पुनः पुनः | न भुक्तिश्च न मुक्तिश्च विना दुर्गानिषेवणात् | अष्टमपटले | भक्त्या भगवतीं दुर्गां दुःखदारिद्र्यनाशिनीम् | संस्मरेत् प्रजपेद्ध्यायेत् स मुक्तो नात्र संशयः | जीवन्मुक्तः स विज्ञेयस्तन्त्रभक्तिपरायणः | स साधको महाज्ञानी यश्च दुर्गापदानुगः | न च भुक्तिर्न वा मुक्तिर्न गतिर्नगनन्दिनि ! | विना दुर्गां जगद्धात्रि ! निष्फलं जीवनं भवेत् | शक्तिमार्गरतो भूत्वा योऽन्यमार्गे प्रधावति | न च शाक्तास्तस्य वक्त्रं परिपश्यन्ति शङ्करि ! | विना दुर्गां जगद्धात्रि ! वाग्जालशास्त्रमोहिताः | अन्यदेवं भजन्ते ते चान्यशास्त्रेषु घूर्णिताः | पिच्छिलातन्त्रे पूर्वखण्डे तृतीयपटले | न दुर्गानामसदृशं नामास्ति जगतीतले | यस्य स्मरणमात्रेण पलायन्ते मह्यपदः | दुर्गानामस्मरणेन सर्वविद्यास्मरणमाह | तारिणी सुन्दरी काली दुर्गा च भैरवी तथा | भुवनेशी महालक्ष्मीस्तासां दुर्गेति नाम वै | तासामिति बहुवचनाद्गणो लभ्यते | प्रागुक्तनाम्नो मन्त्रत्वमत्र स्पष्टयति | दुर्गानाममहामन्त्रः सर्वमन्त्रोत्तमोत्तमः | लक्षसंख्याजपेनैव पुरश्चर्या विधीयते | राजादिभयमापन्ने दुर्गानाम परा गतिः | महापदि महात्रासे महादारिद्र्यसङ्कटे | लक्षसंख्याजपेनैव पलायन्ते महापदः || जामले | शिव उवाच | आरोग्यस्य च सम्पत्तेर्ज्ञानस्य च महोदयः | प्. ५३३) नामेदं परमो हेतुर्मुक्तये भवसङ्गिनाम् | कलिकाले विशेषेण महापातकिनामपि | निस्तारबीजं विज्ञेयं नामसंस्मरणं प्रिये ! | परदाररतोऽपि स्यात् परद्रव्यापहारकः | सोऽपि पापात् प्रमुच्येत यो वा स्यादतिपातकी | ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः | तस्मादपि प्रमुच्येत यदि नाम स्मरेत् सुधीः | विष्णुनामसहस्रेभ्यो ह्यधिकं परमेश्वरि ! | दुर्गानाम समाख्यातं चतुर्वेदविदां मतम् | दुर्गानामजपात् पापं सर्वं याति हि तत्क्षणात् | वेदेष्वागमतन्त्रेषु पुराणेषु सुनिश्चितम् | हरिनाम्नः परं नास्ति वैष्णवानामिदं स्मृतम् | तादृशाञ्च मते ज्ञेयं दुर्गानाम ततोऽधिकम् | न तस्य दुर्लभं किञ्चित् परत्रेह च सुन्दरि ! | यः स्मरेत् सततं दुर्गां स एव श्रीसदाशिवः | शौचाचारविहीनोऽपि संस्मरेत् परमेश्वरीम् | स एव परमं स्थानं कथितं वीरवन्दिते ! | वैष्णवानाञ्च शैवानां शुद्धानां यादृशी गतिः | नामसंस्मरणाद्यस्य तथा शाक्तजनस्य च | कर्मणानेन देवेशि ! नाधिकारी यमो मम | दुर्गानामजपो यस्य किं तस्य कथयामि ते | अहं पञ्चाननः कान्ते ! वर्षकोटिशतैरपि | यावद्भूर्वायुराकाशं जलं वह्निः शशी ग्रहाः | तावत्तिष्ठन्ति ते स्वर्गे दुर्गानामपरायणाः | धनी पुत्री सुखी सोऽपि चिरजीवी भवेद्भुवि | प्रत्यहं यो जपेद् भक्त्या शतमष्टोत्तरं शुचिः | अष्टोत्तरसहस्रन्तु यो जपेद्भक्तिमान् नरः | प्रत्यहं परमेशानि ! तस्य पुण्यफलं शृणु | धनार्थी धनमाप्नोति ज्ञानार्थो ज्ञानमेव च | रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् | भीतो भयात् प्रमुच्येत पापान्मुच्येत पातकी | पुत्रार्थी पुत्रमाप्नोति देवि ! सत्यं न संशयः | अयुतं यो जपेद्भक्त्या प्रत्यहं परमेश्वरि ! | निग्रहानुग्रहे शक्तः स भवेत् कल्पपादपः | तस्य क्रोधाद्भवेन्मृत्युः प्रसादे परिपूर्णता | प्. ५३४) एवञ्च तं विजानीयात् समर्थं सर्वकर्मणि | मासि मासि च यो लक्षं जपं कुर्याद्वरानने ! | न तस्य ग्रहपीडा स्यान्नापि बन्धुवियोजनम् | न चैश्वर्यं क्षयं याति न च सर्पक्षतं क्वचित् | नाग्निचौरभयं वापि न चारण्ये जले भयम् | पर्वतारोहणे देवि ! सिंहव्याघ्रभयादिके | भूतप्रेतपिशाचानां भयं वा कुत्रचिद्भवेत् | न च वैरिभयं कान्ते ! न च दस्युभयं पथि | ज्वरादीनाञ्च रोगाणां न शरीरे स्थितिः क्वचित् | परलोके भवेत् स्वर्गी कथितं वीरवन्दिते ! | चन्द्रसूर्यसमो भूत्वा वसेत् कल्पायुतं दिवि | वाजपेयसहस्रस्य यत् फलं स्याद्वरानने ! | प्रत्यहं तत् फलं दुर्गानामजापाद्वरानने ! | पूजाकाले जपेद्यस्तु गङ्गातीरे च मानवः | शताश्वमेधयज्ञानां फलमाप्नोति साधकः | प्राजापत्यव्रते यादृक् तथा चान्द्रायणेऽपि वा | एकादस्युपवासेन कोटिसंख्येन यादृशम् | चन्द्रसूर्यग्रहे गत्वा गङ्गायाञ्च सुरेश्वरि ! | कुरुक्षेत्रे च सर्वस्वदाने यत् फलमीरितम् | प्रयागादिषु तीर्थेषु माघस्नाने च यत् फलम् | शिवरात्रिचतुर्दश्यां शम्भोश्चैव प्रपूजनात् | रथस्थं वामनं दृष्ट्वा क्षेत्रे श्रीपुरुषोत्तमे | कामरूपे महामायां कामाख्यायोनिमण्डले | पूजयित्वा फलं यादृक् दुर्गानाम ततोऽधिकम् | अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च महानिशि | श्मशाने च जपं कुर्याच्चाण्डालहृदयोपरि | दिगम्बरो निरातङ्को मुक्तकेशो भवेद्यदि | स सिद्धिं समवाप्नोति देवानामपि दुर्लभाम् | शनिभौमदिने देवि ! भवेदिन्दुक्षयो यदि | तत्रायुतं जपेद्यस्तु निरातङ्को महानिशि | संवन्द्यो देवतानाञ्च मुनीन्द्राणाञ्च सुन्दरि ! | भौमवारे महादेवि ! यदि स्यादष्टमीतिथिः | बिल्वपत्रसहस्रैस्तु तत्र सम्पूज्य पार्वतीम् | बलिं दद्याद्विधानेन जप्त्वा नामसहस्रकम् | यद्यदिष्टतमं लोके तत्तदाप्नोति निश्चितम् | प्. ५३५) कृष्णाष्टमीसमायुक्तनिशायां स गणो भवेत् | तत्र गत्वा श्मशाने वै शनिवारे वरानने ! | पशूनां घातनं कृत्वा योनिमुद्रां विधाय च | सर्वपापविनिर्मुक्तः साधकः साधयेच्छिवाम् | अष्टम्याञ्च चतुर्दश्यां नवम्याञ्चैव पार्वति ! | शतमष्टोत्तरं यस्तु दुर्गानामजपं चरेत् | स लभेद्वाञ्छितं सर्वमिह लोके परत्र च | गङ्गागोदावरीरेवायमुनाजलसन्निधौ | यो जपेत् साधको भक्त्या सहस्रञ्च तिथिक्षये | परस्त्रीहरणात् पापं परद्रव्यापहारणात् | सर्वं तत् क्षयमाप्नोति महारौरवकारणम् | कामरूपे महातीर्थे कामाख्यायोनिसन्निधौ | लक्षमेकं जपेद्यस्तु निशायां वीरवन्दिते ! | स च वागीश्वरो भूत्वा परत्र शिवतां व्रजेत् | भवानीसन्निधौ यस्तु वाराणस्यां जपं चरेत् | दरिद्रोऽपि धनी भूत्वा शिवलोके महीयते | इति दुर्गानामफलम् | अथ दुर्गाशतनामस्तोत्रम् | मुण्डमालातन्त्रे द्वितीयपटले | दुर्गायाः शतनामानि शृणु त्वं भवगेहिनि ! | दुर्गा भवानि देवेशी विश्वनाथप्रिया शिवा | घोरदंष्ट्रा करालास्या मुण्डमालाविभूषणा | रुद्राणी तारिणी तारा माहेशी भववल्लभा | नारायणी जगद्धात्री महादेवप्रिया जया | विजया च जयाराध्या शर्वाणी हरवल्लभा | असिता चाणिमा देवी लघिमा गरिमा तथा | महेशशक्तिर्विश्वेशी गौरी पर्वतनन्दिनी | नित्या च निष्कलङ्का च निरीहा नित्यनूतना | रक्ता रक्तमुखी वाणी वसुयुक्ता वसुप्रदा | रामप्रिया रामरता रघुनाथवरप्रदा | राज्येश्वरी राज्यरता कृष्णा कृष्णवरप्रदा | यशोदा राधिका चण्डी द्रौपदी रुक्मिणी तथा | गुहप्रिया गुहरता गुहवंशविलासिनी | गणेशजननी माता विश्वरूपा च जाह्नवी | गङ्गा काली च काशी च भैरवी भुवनेश्वरी | निर्मला च सुगन्धा च दैवकी देवपूजिता | दक्षजा दक्षिणा दक्षा दक्षयज्ञविनाशिनी | सुशीला सुन्दरी सौम्या मातङ्गी कमला कला | प्. ५३६) निशुम्भनाशिनी शुम्भनाशिनी चण्डनाशिनी | धूम्रलोचनसंहर्त्री महिषासुरमर्दिनी | उमा गौरी कराला च कामिनी विश्वमोहिनी | इत्येवं शतनामानि कथितानि वरानने ! | नामस्मरणमात्रेण जीवन्मुक्तो भवेन्नरः | यः पठेत् प्रातरुत्थाय स्मृत्वा दुर्गापदद्वयम् | मुच्यते जन्मबन्धेभ्यो नात्र कार्या विचारणा | सन्ध्याकाले दिवाभागे निशायां वा निशामुखे | पठित्वा शतनामानि मन्त्रसिद्धिं लभेद्ध्रुवं | अज्ञात्वा स्तवराजञ्च दश विद्या भजेद् यदि | तथापि नैव सिद्धिः स्यात् सत्यं सत्यं महेश्वरि ! | इति मुण्डमालातन्त्रे दुर्गाशतनामस्तोत्रं समाप्तम् | अथ दुर्गागीता | तथा सप्तमप्टले | नानातन्त्रमतं देवि ! नानारत्नं प्रकाशितम् | ब्रह्मस्वरूपं विज्ञातुं कः समर्थो महीतले | नानामार्गे प्रधावन्ति पशवो हतबुद्धयः | श्रीदुर्गाचरणाम्भोजं हित्वा यान्ति रसातलम् | सत्यं वच्मि हितं वच्मि पथ्यं वच्मि पुनः पुनः | न भुक्तिश्च न मुक्तिश्च विना दुर्गानिषेवणात् | पार्वत्युवाच | गोलके चैव राधाहं वैकुण्ठे कमलात्मिका | ब्रह्मलोके च सावित्री भारती वाक्स्वरूपिणी | कैलासे पार्वती देवी मिथिलायाञ्च जानकी | द्वारकायां रुक्मिणी च द्रौपदी नागसाह्वये | गायत्री वेदजननी सन्ध्याहञ्च द्विजन्मनाम् | योगमध्ये पूषाहञ्च पुष्पे कृष्णाऽपराजिता | पत्रे मालूरपत्रञ्च पीठे योनिस्वरूपिणी | हरिहरात्मिका विद्या ब्रह्मविष्णुशिवार्चिता | विशेषानुग्रहेणैव विज्ञेया शङ्कर ! प्रभो ! | यत्र कुत्र स्थले नाथ ! शक्तिस्तिष्ठति शङ्कर ! | तत्रैवाहं महादेव ! निश्चितं मतमुत्तमम् | शक्तिमार्गं परित्यज्य योऽन्यमार्गे हि धावति | करस्थं स मणिं त्यक्त्वा भूतिभारं प्रधावति | भूतिभारं भस्मभारं || इति दुर्गागीता समाप्ता || प्. ५३७) अथ बलिः || समयाचारतन्ते || सर्वासां देवतानाञ्च बलिदानं शृणुष्व मे | येन कृत्वाशु लभते यथोक्तफलमुत्तमम् | नित्यन्तु भोजने काले मूलमन्त्रेण साधकः | कारयेद्बलिदानञ्च भोजनात् प्रथमं प्रिये ! | ततश्चानन्तरं कुर्याद्भोजनं स्थिरमानसः | भोजनानन्तरं देवि ! शुचिस्थः कृतवान् भवेत् | बलिं समुद्धरेद् यत्रादेकान्ते स्थापयेत्तदा | स्थापयित्वा बलिं तत्र विहरेच्च यथासुखम् | उत्तराम्नायेषु देवेशि ! मातङ्गी या प्रकीर्तिता | तस्या बलिं भोजनान्ते विनैवाचमने कृते | मूलमन्त्रेण सुभगे ! बलिं दद्याद्दिने दिने| ततः किञ्चिज्जपं कृत्वा ततश्चाचमनादिकम् | पुनश्च रात्रौ सर्वेषां बलिं कृत्वा प्रयत्नतः | यथोक्तविधिना कुर्याद् यथोक्तफलमाप्नुयात् | बलिश्च द्विविधो देवि ! सात्त्विको राजसस्तथा | सात्त्विको बलिराख्यातो मांसरक्तादिवर्जितः | राजसो मांसरक्तादियुक्तः स प्रोच्यते प्रिये ! | गायत्रीतन्त्रे पञ्चमब्राह्मणपटले | त्रिविधा बलयः प्रोक्ता उत्तमाधममध्यमाः | उत्तमश्चोत्तमं दद्यान्मध्यमो मध्यमं तथा | अधमः कथ्यते देवि ! अधमेऽप्यधमा गतिः | दशसंख्यबलिर्यत्र मध्यमस्तेन कथ्यते | सात्त्विकी उत्तमा पूजा यदि दद्यान्महाबलिम् | अष्टमीनवमीसन्धौ दद्याद्यत्रान्महाबलिम् | शतं सहस्रं लक्षं वा अयुतं कोटिकोटिशः | शस्यते नृपतिश्रेष्ठः सात्त्विकोपूजने बलिः | एकेन बलिदानेन चतुर्वर्गमवाप्नुयात् | बहुभिर्बलिदानैस्तु परंब्रह्ममयो भवेत् | बहुभिर्बलिदानैस्तु जपयज्ञैस्तु भूपतेः | क्रियते सात्त्विकी पूजा सात्त्विकी तेन कथ्यते | दशभिः पशुभिः पूजा जपयज्ञैस्तथैव च | या कृता शारदी पूजा राजसी तेन कीर्तिता | बलिभिः पञ्चभिः पूजा तामसी तेन कीर्तिता | मत्स्यसूक्ते || साधकास्त्रिविधाः प्रोक्ताः सात्त्विका राजसास्तथा | प्. ५३८) तामसाश्च तथा देवि ! तेषां वक्ष्यामि लक्षणम् | सात्त्विकः सात्त्विकैर्युक्तो लक्षणैश्चैव सुन्दरि ! | सात्त्विकं बलिदानादि नित्यं कुर्यात् प्रयत्नतः | राजसो राजसगुणैर्युक्तः सत्यं वरानने ! | राजसं बलिदानादि सुरेशे ! राजसैर्युतः | तामसस्तामसगुणै राजसाद्यैर्युतः प्रिये ! | न श्रद्धा बलिदानेषु पूजनादिषु सुन्दरि ! | न स्तोत्रपाठहोमेषु नाममात्रेण साधकः | योगिनीतन्त्रे उत्तरखण्डे सप्तमपटले || विप्राणां क्षीरबलयः शाल्यन्नं वाथ पायसम् | घृतप्लुतं चरुफलं पुष्पं तस्य घृतान्वितम् | प्रदद्याच्च गवां क्षीरं दुग्धाम्राम्लान् निवेदयेत् | शाल्यन्नं वाथ समधुं ससरं खण्डमोदकम् | राज्ञां हि पशवः शस्ता वैश्यानां व्रीहयस्तथा | क्षौद्रं वृषलजातीनां सर्वेषां पशवोऽथवा | निवेदयेत् शोणगण्डं मानुषं वा लुलापकम् | वराहं वाथ छगलं चामरं वारुणं तथा | मेषञ्चाथ वराहञ्च गोधिकाञ्च निवेदयेत् || मत्स्यसूक्ते || लुलापञ्च तथा खड्गं चामरञ्च वराहकम् | कच्छपं शल्लकीं गोधां मानुषं तदनन्तरम् | न दद्याद्ब्राह्मणो मद्यं मानुषञ्च तथा रुरुम् | त्रैपक्षिकान्न विवर्णान् मानुषान्न कृशानपि | संवत्सरात् परं छागं यावत् स्यात्तु त्रिहायणम् | वराहदन्तसदृशविषाणाभ्यां सुशोभनम् | मदगन्धसमायुक्तं रोमराजिविराजितम् | कृष्णं तारणकञ्चैवं तृप्तौ द्वादशवार्षिकम् || जातिभेदे वर्णविशेषमाह तत्रैव || श्वेतञ्च छागलञ्चैव ब्राह्मणस्य विशिष्यते | रक्तं श्वेतं क्षत्रियस्य वैश्यस्य गौरमेव च | नानावर्णं हि शूद्रस्य सर्वेषामञ्जनप्रभम् | योगिनीतन्त्रे || पशूनाञ्चैव षण्मासात् परतश्च बलिर्भवेत् | छागलः कृष्णः श्वेतो वा द्विवर्षात्परतो यदि | तथा चाश्वं मृगञ्चैव छागञ्च पर्वतीयकम् | मूषिकञ्च करालञ्च क्षुद्रमार्जारमेव च || वर्ज्यमपि तत्रैव || काकोलं कलविङ्गञ्च राजहंसञ्च शारिकम् | प्. ५३९) शुकं गृध्रञ्च काकोलं मयरं चित्रकं तथा | अश्वञ्च वेणुपृष्ठञ्च कृष्णपारावतञ्च यत् | वृहत्कपोतकञ्चैव खञ्जरीटं तथैव च | वकञ्चैव बलाकञ्च प्रयत्नेन विवर्जयेत् || बल्यन्तरमाह तत्रैव || रम्भा जाती बीजपूरं सुगन्धिपरिमिश्रितम् | मिश्रीकृत्य बलिं दद्यादष्टम्याञ्च विशेषतः | प्रयोगे बलिमन्त्रोऽयं प्रयोगान् धारयेद् यदि | अर्द्धरात्रे बलिं दद्यान्नित्यं देवि ! चतुष्पथे | परसैन्यग्रहाविष्टरोगकृत्यानिवारणम् | प्रणवं पूर्वमुच्चार्य उग्रतारे ततः परम् | विकटदंष्ट्रं परपक्षं मोहयद्वयमुच्चरेत् | खादयद्वन्द्वमुच्चार्य पक्षद्वन्द्वं वदेत् पुनः | ये मां हिंसितुमुद्यता योगिनीचक्रे तान् दारय हुं फट् स्वाहा | सर्वविद्यामाकर्षयाकर्षय छेदय छेदय हन हन कपाले गृह्ण गृह्ण स्वाहेति || अनेनैव च देवेशि ! बलिं दद्यान्महेश्वरि ! | वृहन्नीलतन्त्रे षष्ठपटले || ततः शत्रुबलिं राजा दद्यात् क्षीरेण निर्मितम् | द्वयं छिन्द्यात् क्रोधदृष्ट्या प्रहारजनकेन च | कोपेन च सकृद्देवि ! सत्यं सत्यं महेश्वरि ! | प्राणप्रतिष्ठां कृत्वा वै शत्रुनाम्ना महेश्वरि ! | शत्रुक्षयो महेशानि ! भवत्येव न संशयः | शत्रुमधिकृत्य विशेषस्तु मत्स्यसूक्ते || मन्त्रेणानेन देवेशि ! प्रकुर्यात् पूर्वनिर्मितम् | कात्यायन्यम्बिके ! तारं हनयुग्मं दहद्वयम् | पचद्वन्द्वं मथद्वन्द्वं प्रथमद्वन्द्वमेव च | माया द्वयं वशञ्चैव चण्डि ! चण्डि ! च तारकम् | नारसिंहद्वयं पश्चात् मन्दरञ्च सतारकम् | चामुण्डे ! प्रणवञ्चैव भक्षयेति दहद्वयम् | मथद्वयं पचद्वन्द्वं छिन्धियुग्मं ततो न्यसेत् | ओं जयद्वितयञ्चैव स्फोटयद्वितयं तथा | कर्तयद्वितयस्यान्ते ततो दह समीरयेत् | मम शत्रुं समुत्तार्य ततो बीजं समुच्चरेत् | दाहयदाहय द्वन्द्वं ततश्छेदय मोहय | छेदयद्वितयस्यान्ते विश्लेषय ततः परम् | मम शत्रुपदस्यान्ते मन्त्र मुच्चारयेत्ततः | तारं हनयुगस्यान्ते भक्षयद्वितयं तथा | प्. ५४०) त्रासयनाशयद्वन्द्वमावेशय ततः परम् | आरोहयस्फोटयान्ते उच्चाटययुगं ततः | उन्मत्तययुगस्यान्ते इमं मन्त्रमुदीरयेत् | कृष्णपुष्पं समादाय कुर्यान्निर्मञ्छनं स्वयम् | कलत्राणाञ्च देवेशि ! मन्त्रेणानेन दापयेत् | विलयं यान्तु ते सर्वे ये मां हिंसन्ति जन्तवः | मृत्युरोगभयक्लेशाः पतन्तु शत्रुमस्तके | विमुखं क्रोधदृष्टिञ्च पातयेच्छत्रुमस्तके | कवचद्वन्द्वमुच्चार्य स्वाहाद्वन्द्वमुदीरयेत् | छागादीनामुत्तरोत्तरं प्राशस्त्यमुक्तं मत्स्यसूक्ते महातन्त्रे || चामराणाञ्च दशकैश्छागलैकं विशिष्यते | दशभिश्छागलैर्देव ! कूर्म एकः प्रशस्यते | कूर्मस्य च शतेनापि शशकैको विशिष्यते | शशकस्य शतेनापि स्वगात्ररुधिरं श्रुतम् | यावत् पद्मदलं पूर्णं तावन्मात्रं महेश्वरि ! | ततः शतपुटानाञ्च शललैको विशिष्यते | शललस्य सहस्रेण वराहस्तु विशिष्यते | द्वे सहस्रे वराहस्य महिषः श्रेष्ठ उच्यते | द्वे सहस्रे लुलापस्य खड्ग एको विशिष्यते | खड्गानान्तु सहस्रेण मानुषे चातुलं फलम् | द्वे सहस्रे मनुष्यस्य शोणतुण्डः प्रशस्यते | द्वे शते शोणतुण्डस्य श्वेतग्रीवः प्रशस्यते | श्वेतग्रीवशतेनापि गोधिका तूत्तमा मता | गोधिकानां शतेनापि नरस्य च कुमारकः | दशैणस्य समा गोधा गोधाया दशपार्षतम् | पार्षतस्य दशानान्तु मेष एको विशिष्यते | मेषस्य दशमध्ये तु छागलश्च विशिष्यते | दशानां छागलानाञ्च कृष्णवर्णो विशिष्यते | तिलाक्षतेन पुष्पेण चाष्टाष्टौ च विशिष्यते | छागस्य कृष्णवर्णस्य श्वेत एको विशिष्यते | श्वेतवर्णस्य दशकं मुकुटं यदि मस्तके | प्रशस्तं तं विजानीयादक्षतञ्च विचारयेत् | शतं तस्माल्लुलापैकं तच्छतं खड्गमेव च | शतानामथ खड्गानां मानुषश्च विशिष्यते | दशकञ्च नराणाञ्च वराहैको विशिष्यते | प्. ५४१) वराहस्य फलं देवि ! सैरिभैस्तोषयेच्छिवाम् | सैरिभस्य शतानाञ्च गोधाह्वयो विशिष्यते | गोधिकानां शतानाञ्च स्वगात्ररुधिरं तथा | तत्समं शोणतुण्डञ्च श्वेतग्रीवं तथैव च | अर्द्धरात्रौ तु कुष्माण्डं पर्वतीयं विना प्रिये ! | लुलापदाने यत् प्रोक्तं छित्वा दत्त्वा च यत् फलम् | खड्गञ्च दशवर्षीयं लुलापं वत्सरात्परम् | प्रशस्तं श्वेतवर्णन्तु खड्गं श्वेतं विवर्जयेत् | सैरिभञ्च श्वेतकृष्णं मनुष्यं श्यामसुन्दरम् | द्वादशाब्दात् परञ्चैव यावद्यावत् स पुष्कलम् | तावदेव महेशानि ! किञ्चिन्नाद्यान्महामुनिः | पक्षिणः कच्छपा ग्राहाः स्थलजा जलजा अपि | कामना तु || अद्य दीर्घायुरारोग्यविजयावच्छिन्नविपुलभोगप्राप्तिपूर्वक- ध्वजमालाकुलविमानवरारोहणावच्छिन्नब्रह्मलोकप्राप्तिकामो भगवत्यै छागलदशकं दद्यात् || खड्गाभिमन्त्रणं कुर्यात्तेन खड्गेन छेदयेत् | पूजयेद्रक्तपुष्पेण गन्धेन चन्दनेन च | तारं मायायुगं कालियुग्मं स्याद्विकटं न्यसेत् | दंष्ट्राकरालि निष्पेषफेत्कारिणि च खादय | सृ अजं पिब पिब तूर्णं रुधिरं नारसिंहके | द्वितीयं किरिकिरिद्वन्द्वं कालियुग्मं ततः परम् | व्रजेश्वरिपदं ङेऽन्तं वसखड्गधनुः स्मृतम् | रुधिरे शर्करां दद्यात् पानीयञ्च ससैन्धवम् | गन्धं सुकुसुमं दद्याद्दर्भयुग्मन्तु निक्षिपेत् || त्रिपदं त्रिशूलम् || ओं कालि ! कालि ! महाकालि ! कालिके ! पापनाशिनि ! | शोणितञ्च बलिं गृह्ण वरदे ! वामलोचने ! | तारं तारं ततो मायां ह्रां ह्रैं ह्रौञ्च ठद्वयम् | तारं स्थाणुयुगं दद्यात् शेषाङ्गञ्च समुद्धरेत् | खट्वाङ्गं नृमुण्डञ्चेति त्रिशूलधारिणीत्यपि | विकटदंष्ट्रे करालास्ये कपालमालिनि तत्परं हां हां गृह्ण साट्टहासिनिपदस्यान्ते मन्त्रञ्च विकटद्वयम् | शिवं कान्तं ततो वान्तं कं कं काल्यै नमः स्थितिः | एष मात्स्यबलिः स्वाहा अनेनामन्त्र्य दापयेत् | प्. ५४२) तारं मायास्फुरद्वन्द्वं हनयुगञ्च ठद्वयम् | इन्धनमगुरुद्वन्द्वं गृह्ण गृह्ण च ठद्वयम् | धराभिमन्त्रणं कृत्वा त्रिवर्गं परिकल्पयेत् | पूतनां कौशिकीञ्चैव कालिकाञ्च यथाक्रमात् || योगिनीतन्त्रे खड्गपूजादौ विशेषो यथा || मायाबीजं समुच्चार्य कालिकालीति सुन्दरि ! | व्रजेश्वरिपदं पश्चात् लौहदण्डाय ते नरः | इति सम्पूज्य देवेशि ! शक्तिं सम्पूजयेत्ततः | हुं हुं वागीश्वरीब्रह्मभ्यां नमः | हुं लक्ष्मीनारायणाभ्याञ्च पदं ब्रूयाद्देवि ! चण्डे ! महेश्वरि ! | नम उमामहेश्वराभ्यां नम इत्यादिनार्चयेत् | प्रणवञ्च ततः पश्चात् कार्तिकेश्वराभ्यां नमः | इत्यनेनैव मन्त्रेण शक्तिं प्रयोजयेन्नरः | इति खड्गं प्रपूज्यैव विशेषेण प्रपूजयेत् | खड्गाय खरनाशाय शक्तिकार्यार्थतत्पर ! | पशुश्छेद्यस्त्वया शीघ्रं खड्गनाथ ! नमोऽस्तु ते | अनेनैव च मन्त्रेण प्रणमेत् खड्गमुत्तमम् | गृहीत्वा ताम्रपात्रञ्च जलपूर्णमुदङ्मुखः | हर्षकामो महादेव्यै पशोश्च प्रोक्षणञ्चरेत् | प्रोक्षणञ्च पशोः कृत्वा चोत्सृजेद्देवताधिया | यथोक्तेन विधानेन तुभ्यमस्तु समर्पितम् || मत्स्यसूक्ते || चन्द्रहासेन खड्गेन छेदयेदुत्तमं बलिम् | चन्द्रहासश्चतुस्तालः करवीरदलाकृतिः || मध्यमम् || पञ्चविंशाङ्गुलं मानं प्रस्तारं सार्द्धत्र्यङ्गुलम् | एकधारेण खड्गेन यः प्राणी बध्यते किल | न तत् फलमवाप्नोति छेत्ता च नरकं व्रजेत् || एकधारप्रतिप्रसवस्तु तत्रैव || पद्मपत्रदलाकारमेकधारं प्रशस्यते | दण्डखड्गस्त्रिवक्रस्तु प्रशस्तो बलिकर्मणि | सकृत् प्रहारमात्रेण बलिः स्यादुत्तरामुखः | स्वयं पूर्वमुखो भूत्वा छेदयेदप्रमादतः | बलिं पूर्वमुखं कृत्वा स्वयं स्यादुत्तरामुखः | छेदयेत् तीक्ष्णखड्गेन प्रहारेण सकृद्बुधः || योगिनीतन्त्रे || छिन्ने च पतिते तस्मिन् वामभागे च निन्दितम् | दैन्यं मध्ये च पतितं देवीच्छेदं स्मरेद्बुधः | प्. ५४३) तत्प्रायश्चित्तमपि तत्रैव || ततः कुण्डान्तिके गत्वा आहुतिर्दशपञ्चभिः | तेनैवमुत्सृजेद्दोषं बलिं लक्षेत् सलक्षणम् || मत्स्यसूक्ते || शिरश्छित्वा बलिं दद्यादजस्य रक्तमेव च | मन्त्रेणानेन देवेशि ! प्रकुर्यात् पूर्वनिर्मितम् || अथ रुधिरपात्रम् || मत्स्यसूक्ते || राजतं मृण्मयं कांस्यं रैत्यं काष्ठमयं तथा | प्रशस्तं रुधिरालोके दारुलौहमयं त्यजेत् | शङ्खञ्चाश्मयञ्चैव अपवित्रं विवर्जयेत् | स्वस्तिकायाः सुप्रशस्तं तथा पद्मदलस्य च | अर्घ्यतोयप्रदानेन नरदानफलं लभेत् | कण्ठरक्तं न दद्यात् छागलस्य विशिष्यते | पद्मपुष्पदलस्यान्ते तथा मध्यगतस्य च | तावद्दलप्रमाणं स्यान्मातृवदनुपूर्वकम् || अथ रुधिरग्रहणप्रकारस्तत्रैव || कियन्मांसं सरुधिरं तथा खड्गगतस्य च | रुधिरं मस्तकञ्चैव पशोश्चापि विशेषतः | विपरीतं पशोर्मस्ते पक्षिमस्ते च दापयेत् | कच्छपे चामरे भासे यः प्रदीपन्तु ज्वालयेत् | स दुर्गतिमवाप्नोति न चिरेण महेश्वरि ! | दर्भेणापि द्विधा कृत्वा पञ्चधा रुधिरस्य | पूर्वभागादितो दद्यान्मध्ये च तदनन्तरम् | वामहस्ततले कृत्वा मन्त्रेणानेन मन्त्रयेत् | कालि ! कालि ! महाकालि ! कालिके ! पापनाशिनि ! | शोणितं तप्तकं देवदेवि ! गृह्ण नमोऽस्तु ते | कालि कालीति मन्त्रेण चण्डिकायै निवेदयेत् | चरकीञ्च विदारीञ्च पूतनां पापराक्षसीम् | कौशिकीं पुरतः कृत्वा देव्यै रक्तं प्रदापयेत् | कौशिक्याद्यामनुं वक्ष्ये धर्मकामार्थसिद्धिदम् | तारं वा कमला माया कमला कमलामिति | कामकला स्फें स्फें खिरञ्चैव द्विठान्तं समुदाहृतम् | तेषामाद्यक्षरेणैव बिन्दुयुक्तेन वा पुनः | एतत् सर्वप्रयत्नेन मन्त्रं वक्ष्यामि शङ्करि ! | तारं व्योम ततो मायां यश्च पद्ममिदं पठेत् | ओं त्रिनेत्रे ! विकरालास्ये ! अस्त्रमालाविभूषिते ! | सर्वासुरकृतान्ते ! त्वं खड्गखट्वाङ्गशूलधृक् | प्. ५४४) त्वं खड्गखट्वाङ्गशूलधृक् | वक्ष्ये महामनुं देवि ! तारं क्रौं क्रौमुदीरयेत् | कौशिकाय गृह्ण गृह्ण एषान्ते च बलिद्वयम् | अपरं तारमाया च प्रस्फुरद्वितयं दह | चलद्वयं कुहुञ्चैव कुहुश्चैव गुलुद्वयम् | पुनश्च मारय द्वन्द्वं बुधैर्यत् परिकीर्तितम् | विशाखाद्यमनुं वक्ष्य येन उत्पद्यते शुभम् | तारं ततो विकटदंष्ट्रे ङेऽन्तं हन हन द्वयम् | वै विशिखाय स्वाहेति बलिमन्त्र उदाहृतः || योगिनीतन्त्रे || ततो रुधिरमादाय वटुकादीन् समर्चयेत् | नै-ऋत्याञ्च महेशानि ! क्रूरं वटुकभैरवम् | वायव्यां हुं यां योगिनीभ्यो नम इत्यादिनार्चयेत् | ऐशान्याञ्च महेशानि ! हुं क्षौं क्षेत्रपालाय नम इत्यादिना देवि ! गन्धपुष्पैः समर्चयेत् | आग्नेययां हुं गों गणेशाय नम इत्यादिनार्चयेत् | गन्धपुष्पैः समभ्यर्च्य बलिदानं समर्पयेत् || मत्स्यसूक्ते || भूगतं रुधिरं यत्तु भुञ्जन्ति परिचारिकाः | यावच्च तावद्देवेशि ! लेपनं परिवर्जयेत् || इति बलिदानविधिः || अथ होमः || शारदातिलके पञ्चमपटले || वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् | तेनैव ताडनं दर्भैर्वर्मणाभ्युक्षणं स्मृतम् | अस्त्रेण खननोद्धारौ हृन्मन्त्रेण प्रपूरणम् | समीकरणमन्त्रेण सेचनं वर्मणा मतम् | कुट्टनं हेतिमन्त्रेण मर्ममन्त्रेण मार्जनम् | विलेपनं कलारूपकल्पनं तदनन्तरम् | त्रिसूत्रीकरणं पश्चात् हृदयेनार्चनं मतम् | अस्त्रेण वज्रीकरणं हृन्मन्त्रेण कुशैः शुभैः | चतुष्पथं तन्मन्त्रेण तनुयादक्षपाटनम् | यागे कुण्डानि संस्कुर्यात् संस्कारैरेभिरीरितैः | शरेण फडिति मन्त्रेण उत्तानेन तु हस्तेन प्रोक्षयेदिति सूत्रदर्शनाद्धस्ताग्रेण प्रोक्षणं तेनैव फडितिमन्त्रेणैव | वर्मणा हुमितिमन्त्रेण मुष्टिबद्धेन हस्तेन सेचनाभ्युक्षणमिति | हेतिमन्त्रेणास्त्रमन्त्रेण वर्ममन्त्रेणेति चतुर्षु सम्बध्यते | तदुक्तं सोमशम्भुना | सम्मर्जनं समालेपं कलारूपप्रकल्पनम् | प्. ५४५) त्रिसूत्रीपरिधानञ्च वर्मणाभ्यर्चनं हृदेति | कलारूपप्रकल्पनमिति चन्द्रसूर्याग्निकलाकल्पनमिति त्रिसूत्रीकरणं इति सूत्रत्रयेण वेष्टनम् | वज्रीकरणमिति वज्रवद्दृढीकरणमिति | कुशैरिति प्रागुदगग्रैः | मध्ये चतुष्पथरूपं भागं कृत्वा आवसथ्यादिकं भावयेत् | तदुक्तं राघवभट्टधृतेन | आवसथ्यं मध्यभागे प्राच्यां सत्यन्तु पश्चिमे | आहवनीयस्ततोऽन्वाहार्यं दक्षिणदेशतः | गार्हपत्यञ्च मन्त्रज्ञो भावयेदुत्तरक्रमादिति | मन्त्रेण कवचमन्त्रेण हुमित्यनेन अक्षपाटनमन्त्रेणोद्घाटनम् | एभिः संस्कारैरीरितैर्मूलमन्त्रेण वीक्षणमित्यादिकथितैः कुण्डानि संस्कुर्यादित्यन्वयः | अशक्तान् प्रत्याह | अथवा तानि संस्कुर्याच्चतुर्भिर्वीक्षणादिभिः | वीक्षणाभ्युक्षणान्तैश्च चतुर्भिरित्यर्थः | तिस्रस्तिस्रो लिखेद्रेखा हृदाप्रागुदगग्रगाः | प्रागग्राणां स्मृता देवा मुकुन्देशपुरन्दराः | रेखानामुदगग्राणां ब्रह्मवैवस्वतेन्दवः || तिस्रस्तिस्र इति वीप्सया प्रागग्रास्तिस्र उदगग्रास्तिस्र इति लभ्यते | ततश्चादौ प्रागग्राणां लिखनं पश्चादुदग्राणां लिखनं सर्वास्तु प्रादेशप्रमाणा इति साम्प्रदायिकाः | तदुक्तं राघवभट्टधृतसौत्रामणीतन्त्रे || प्राचीस्थमुत्तरस्थञ्च पश्चिमारम्भमालिखेत् | तिस्रस्तिस्रो लिखित्वैवं प्रोक्षयेद्वाग्भवेन चेति | अथवा षट्कोणवृत्तं त्रिकोणं तत्र संलिखेत् | सर्वाण्यभ्युक्ष्य तारेण योगपीठमथार्चयेत् | अत्र तु आधारशक्तीत्यादिज्ञानात्मान्तं सम्पूज्य वागीश्वरयोर्योगपीठाय नम इति योगपीठं पूजयेत् | वागीश्वरीमृतुस्नातां नीलेन्दीवरसन्निभाम् | वागीश्वरेण संयुक्तामुपचारैः प्रपूजयेत् | शक्तिमन्त्रेण वागीशीं साध्यमन्त्रेण वागीशीं पूजयेत् | तदुक्तं गणेशविमर्षण्याम् || शक्तिमन्त्रेण वागीशीं वागीशं साध्यमन्त्रत इति || शारदायाम् || सूर्यकान्तादिसम्भूतं यद्वा श्रोत्रियगेहजम् | प्. ५४६) आनीय चाग्निं पात्रेण क्रव्यादांशं परित्यजेत् | सूर्यकान्तादीत्यादिशब्दादरणिजन्य इति लभ्यते | तदुक्तं वशिष्ठसंहितायाम् | जातं मार्तण्डकान्ताद्धुतवहमरणेः श्रोत्रियागारजं वा आहिताग्नेर्गृहादपीति | पात्रेण कांस्यपात्रेण पात्रान्तरेणापिहितेन | तदुक्तं राघवभट्टधृतेन यथा | पात्रान्तरेणापिहिते ताम्रपात्रादिके शुभे | अग्निप्रणयनं कुर्यात् शरावे तादृशेऽपि च | यत्तु स्मृतिसारे || शरावे भिन्नपात्रे च कपाले चोन्मुखेऽपि वा | नाग्निप्रणयनं कुर्यात् व्याधिं हानिं भयावहमिति | तस्य मुखमुख्यपात्रसम्भवे शरावो न ग्राह्य इति तात्पर्यम् | क्रव्यादांशं परित्यजेत् अस्त्रमन्त्रेणेति ज्ञेयम् | तदुक्तं राघवभट्टधृतेन || अस्त्रेणाग्निं समाधाय कवचेन पिधाय तु | क्रव्यादांशन्तु चास्त्रेण नैर्-ऋत्यां सन्त्यजेत् प्रिये ! | अन्यत्र तु वह्निवीजेन क्रव्यादांशत्यागः | तदुक्तं वह्निबीजेन मन्त्री क्रव्यादांशं त्यजेत्तदनु च मनुना शोधयेदस्त्रकेण इति | मन्त्रमुक्तावल्यान्तु विशेषः | आनीयास्त्रेण नैर्-ऋत्ये क्रव्यादांशं परित्यजेत् | देवांशं मूलमन्त्रेण स्थापयेत् पुरतः सुधीरिति | संस्कुर्यात्तं यथा न्यायं देशिको वीक्षणादिभिः | औदर्यवैन्दवाग्निभ्यां भीमस्यैकं स्मरन् वसोः | योजयेद्वह्निबीजेन चैतन्यं पावके तदा | औदर्येति बिन्दुः प्रसिद्धः परमात्मस्वरूपस्तस्याग्नीषोमरूपत्वात्तयोर्वह्निवैन्दव इति | अन्ये तु बिन्दुर्भ्रूमध्यं तद्भवो वैन्दवः | वसोरग्नेर्भौमस्य पार्थिवस्य एकमेकं स्मरन् देवांशं नियोजयेत् कुण्डादिषु निदध्यादित्यन्वयः | निधानप्रकारमाह || तारेण मन्त्रित मन्त्री धेनुमुद्रामृतीकृतम् | अस्त्रेण रक्षितं पश्चात्तनुत्रेणावगुण्ठनम् | अर्चितं त्रिः परिभ्राम्य कुण्डस्योपरि देशिकः | प्रदक्षिणं तदा तारमन्त्रोच्चारणपूर्वकः | आत्मनोऽभिमुखं वह्निः जानुस्पृष्टमहीतलः | प्. ५४७) शिवबीजधिया देव्या योनावेनं विनिक्षिपेत् | एनमग्निम् | पश्चाद्देवस्य देव्याश्च दद्यादाचमनीयकम् | ज्वालयेन्मनुनानेन तमग्निमथ देशिकः | चित्पिङ्गलहनदहपचयुग्ममुदीर्य च | सर्वाज्ञाज्ञापय स्वाहामन्त्रोऽयं प्रागुदीरितः | ज्वालनेन विशेषो यथा राघवभट्टे | जुहुयुश्च हुताग्निश्च पाणिसूर्पस्रुवादिभिः | न कुर्यादग्निधमनं न कुर्याद्व्यजनादिना | मुखे नैव धमेदग्निं मुखदोषो हि जायते | नाग्निं मुखेनेतिच यल्लौकिके योजयन्ति तत् || अग्निप्रणाममन्त्रस्तु | अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् | सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् | उपतिष्ठेत विधिवन्मनुनानेन पावकम् | विन्यसेदात्मनो देहे मन्त्रैर्जिह्वां हविर्भुजः | लिङ्गपायुशिरोवक्त्रघ्राणनेत्रेषु सर्वतः | वह्नीरार्घीशसंयुक्ताः सादियान्ताः सविन्दवः | वर्णमन्त्राः समुद्दिष्टा जिह्वानां सप्तदेशिकैः || वह्नीरेफः | इरो यकारः | अर्घीश उकारः | एतद्युक्ताः सादियान्ताः सकारादियकारान्ताः वैपरित्येनैते वर्णाः सविन्दवः सप्त जिह्वानां सप्त विन्दवो मन्त्राः समुद्दिष्टाः कथिता देशिकैरित्यर्थः | सत्त्वादिगुणभेदेन सप्तजिह्वाभेदमाह | जिह्वास्तास्त्रिविधाः प्रोक्ता गुणभेदेन कर्मसु | हिरण्या गगना रक्ता कृष्णान्या सुप्रभा मता | बहुरूपातिरक्ता च सात्त्विक्यो योगकर्मसु | परागाभा सुवर्णान्या तृतीया भद्रलोहिता | लोहितानन्तरं श्वेता धूमिनी च करालिका | राजस्यो रजसा वह्नेः विहिताः काम्यकर्मसु | विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा | लोहितान्या करालाख्या काली तामस्य ईरिताः | एताः सप्त नियुज्यन्ते क्रूरकर्मसु मन्त्रिभिः || इति जिह्वाभेदकथनम् | जिह्वानां रूपतदधिष्ठातृदेवताञ्चाह | स्वस्वनाम समाभाः स्युर्जिह्वाः कल्याणरेतसः | अमर्त्त्यपितृगन्धर्वयक्षनागपिशाचकाः | प्. ५४८) राक्षसः सप्तजिह्वानामीरिताश्चाधिदेवताः | अमर्त्यो देवः | जिह्वाविशेषे द्रव्यविशेषहोमो राघवभट्टादावनुसन्धेयः | वह्नेरङ्गमनुं न्यस्येत्तमावुक्तेन वर्त्मना | सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठ पुरुषः पुनः | धूमव्यापी सप्तजिह्वो धनुर्द्धर इति क्रमात् | षडङ्गमनवः प्रोक्ता जातिभिः सह संयुताः | सहस्रार्चिरादीनां चतुर्थ्यन्तत्वं सम्प्रदानात् | प्रयोगस्तु | ओं सहस्रार्चिषे हृदयाय नम इत्यादि ज्ञेयम् | मूर्तोरष्टौ तनौ न्यस्येद्देशिको जातवेदसः | मूर्ध्नां पार्श्वकट्यन्धुकटिपार्श्वांसके पुनः | प्रदक्षिणवशान्न्यस्येदुच्यन्ते ता यथाक्रमात् | जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः | अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानरादयः | कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः | ताराग्नये पदाद्याः स्यूर्नत्यन्ता वह्निमूर्तयः | तारः प्रणवः | अग्नये इति स्वरूपं तेनाग्न्यन्तेन ओं अग्नये इति पदमादौ येषामिति विग्रहः | प्रयोगे तु मूर्द्ध्नि ओं अग्नये जातवेदसे नम इत्याद्यूह्यम् | आसनं कल्पयित्वाग्नेर्मूर्तिं तस्य विचिन्तयेत् | इष्टशक्तिं स्वस्तिकाभीतिमुच्चेर्दीर्घैर्दोर्भिर्धारयन्तं जवाभम् | हेमकल्पं पद्मरागं त्रिनेत्रं ध्यायेद्वह्निं बद्धमौलिं जटाभिः | परिषिञ्चेत्ततस्तोयैर्विशुद्धैर्मैखलोपरि | दर्भैरगर्भैर्मध्यस्थमेखलायां परिस्तरेत् | निक्षिपेद्दिक्षु परिधीन् प्राचीवर्जं गुरूत्तमः | प्राचीवर्जं दिक्षु गुरूत्तमः परिधीन्निक्षिपेदित्यन्वयः | परिधयस्तु कात्यायनेनोक्ता यथा | परिधीन् परिदधत्यार्द्रान् एकवृक्षीयान् बाहुमात्रान् पलाशवैकङ्कतवैल्वानिति | प्रादक्षिण्येन सम्पूज्यास्तेषु ब्रह्मादिमूर्तयः | ध्यायन् वह्निं यजेन्मध्ये गन्धाद्यैर्मनुनामुना | वैश्वानरजातवेदः पदे पश्चादिहावह | लोहिताक्षपदस्यान्ते सर्वकर्माणि साधय | वह्निजायावधिः प्रोक्तो मन्त्रः पावकवल्लभः | एतत् पूजनमष्टमूर्तिसप्तजिह्वापूजनान्तरं कार्यम् | प्. ५४९) यदाह मत्स्यसूक्ते दशमपटले | अथाग्नियजनं वक्ष्ये सर्वयज्ञेषु भूतिदम् | आदौ समीरणं कृत्वा पश्चात् पूजां समाचरेत् | आसनं पूजयित्वा तु गृहीत्वा रक्तपुष्पकम् | पात्रान्तरस्थं कुसुमं ध्यायेद्देवं हुताशनम् || ध्यानन्तु शारदोक्तसमानम् | यजेत् पूर्वादिपत्रेषु | हं जातवेदसे नमः, हं हुताशनाय नमः | हं सुवर्णवर्णाय नमः हं हिरण्याख्याय नमः | हं सुसिद्धाय नमः | हं हिरण्याय नमः | हं सर्वतोमुखाय नमः | पूर्वादिपत्रेषु | हिरण्यवर्णां प्रथमां वह्नेर्जिह्वां महाद्युतिम् | वराभयकरां वन्दे हिरण्याख्यां सुसिद्धये | ओं ययां हिरण्यायै नमः | कनकां द्विभुजां शुक्लां हस्ताभ्यां दर्भसञ्चयान् | कमण्डलुञ्च बिभ्राणां नमः साधकसिद्धिदाम् ओं ययां कनकायै नमः स्वाहा | उद्यदिन्दुनिभां वर्णान् चतुर्भिर्भुजपल्लवैः | शङ्खचक्राभयवरान् दधतीं प्रणमाम्यहम् | ओं रक्तायै नमः स्वाहा | सुप्रभा पाण्डरा श्वेतकराभ्याञ्च कृताञ्जलिः | पद्मासनस्था नौ शेषरसना मां प्रसीदतु | सुप्रभायै नमः स्वाहा | ओं बहुरूपायै नमः स्वाहा | नीलोत्पलनिभे ! देवि ! वह्निवर्णे ! सुरार्चिते | ! जवारूपधरे ! नित्यमितिरूपे प्रसीद माम् || ओं ययं ययं अभिरूपायै नमः स्वाहा | यद्वा | विरेफावन्तिमौ वर्गौ रेफः षष्ठः स्वरस्थितौ | इन्दुबिन्दुशिखायुक्तौ जिह्वाबीजान्यनुक्रमात् || ७ || ओं चित्पिङ्गलहनहनदहदहपचपचसर्वाज्ञाज्ञापय स्वाहा | इति मन्त्रेण च पुनरग्निं सम्पूजयेत् सुधीः | शापचारे नमस्तेऽस्तु नमस्ते हव्यवाहन ! | गवान्तक ! सुरश्रेष्ठ ! शान्तिं कुरु नमोऽस्तु ते || इति स्वागतम् || १ || नमस्ते भगवन् देव ! आपो नारायणात्मक ! | सर्वलोकहितार्थाय पाद्यञ्च प्रतिगृह्यताम् | इति पाद्यम् || २ || नारायणपरं नाम ज्योतीरूप ! सनातन ! | गृहाणार्घ्यं मया दत्तं विश्वरूप ! नमोऽस्तु ते || प्. ५५०) इत्यर्घ्यम् || ३ || जगदादित्यरूपेण प्रकाशयति यः सदा | तस्मै प्रकाशरूपाय नमस्ते जातवेदसे || इत्याचमनीयम् || ४ || धनञ्जय ! नमस्तेऽस्तु सर्वपापप्रणाशन ! | मधुपर्कं प्रयच्छामि गृहाण परमेश्वर ! | इति मधुपर्कः || ५ || त्रैगुण्यविषयाधान त्रिधारूप परात्पर ! | त्रैलोक्यस्थितिसंहत्रे वीतिहोत्राय ते नमः || इति पुनराचमनीयम् || ६ || जवासिन्दूरसङ्काशं सर्वपापप्रणाशनम् | स्नानीयं ते मया दत्तं सर्वकामार्थसिद्धये || इति स्नानीयम् || ७ || हुताशन ! महावाहो ! देवदेव सनातन ! | वसनन्ते प्रयच्छामि देहि मे परमं पदम् || इति वस्त्रम् || ८ || ज्योतिषां ज्योतीरूपस्त्वमनादिनिधनाच्युत ! | मया दत्तमलङ्कारमङ्कुरु नमोऽस्तु ते || इत्यलङ्कारः || ९ || देवीदेवा मुदं यान्ति यस्य सम्यक् समागमात् | सर्वदोषोपशान्त्यर्थं गन्धोऽयं प्रतिगृह्यताम् || इति गन्धः || १० || त्वं विष्णुस्त्वं हि ब्रह्मा च ज्योतिषां पतिरीश्वरः | गृहाण पुष्पं देवेश ! सानुरूपं जगद्गुरो ! || इति पुष्पम् || ११ || देवतानां पितॄणाञ्च सुखमेकं सनातनम् | धूपोऽयं देवदेवेश ! गृह्यतां श्रीधनञ्जय ! || इति धूपः || १२ || त्वामेकं सर्वभूतेषु स्थावरेषु चरेषु च | परमाहुः पराकारः प्रदीपः प्रतिगृह्यताम् || १३ || इति दीपः || नमोऽस्तु यज्ञपतये प्रभवे जातवेदसे | सर्वलोकहितार्थाय नैवेद्यं प्रतिगृह्यताम् || इति नैवेद्यम् || १४ || हुताशन ! नमस्तुभ्यं नमस्ते सुरवाहवे ! | लोकनाथ ! नमस्तेऽस्तु नमस्ते जातवेदसे || इति वन्दनम् || १५ || जिह्वापूजास्थानमाह शारदायाम् | मध्ये ईश्वरकोणेषु जिह्वा ज्वालारुचो यजेत् | केशरोक्तेन मार्गेण पूजयेदङ्गदेवताः | पश्चादादाय पाणिभ्यां स्रुक्स्रुवौ तावधोमुखौ | त्रिः सम्प्रतापयेद्वह्नो दर्भानादाय देशिकः | तदग्रमूलमध्यानि शोधयेत्त्येयाक्रमात् | गृहीत्वा वामहस्तेन प्रोक्षयेद्दक्षिणे तनौ | प्. ५५१) पुनः प्रताप्य तौ मन्त्री दर्भानग्नौ विनिक्षिपेत् | आत्मनो दक्षिणे भागे स्थापयेत्तौ कुशान्तरे | आज्यस्थालीमथादाय प्रोक्षयेद्वस्त्रवारिणा | तस्यामाज्यं विनिक्षिप्य संस्कृतं वीक्षणादिभिः | निरुह्य वायव्येऽङ्गरान् हृदा तेषु निवेशयेत् | इदं तापनमुद्दिष्टं देशिकैस्तन्त्रवेदिभिः | सन्दीप्य दर्भयुगलमाज्ये क्ष्प्त्वानले क्षिपेत् | गुरुर्हृदयमन्त्रेण पवित्रीकरणं त्विदम् | दीप्तेन दर्भयुग्मेन नीराज्याज्यात् स वर्मणा | अग्नौ विसर्जयेद्दर्भमभिद्योतनमीरितम् | घृतेषु ज्वलितान् दर्भान् प्रदर्श्यास्त्राणुना गुरुः | जातवेदसि तान्न्यास्येदाज्योत्पवनमीरितम् | गृहीत्वा घृतमङ्गारान् प्रत्युह्याग्नौ जलं स्पृशेत् | अङ्गुष्ठोपकनिष्ठाभ्यां दर्भौ प्रादेशसम्मितौ | कृत्वोपनीयादस्त्रेण घृतमुत्पवनन्त्विदम् | तद्वद् हृदयमन्त्रेण कुशाभ्यामात्मसंमुखम् | घृतेसंप्लवनं कुर्यात् संस्काराः षडुदीरिताः | प्रादेशमात्रं सग्रन्थिदर्भयुग्मं घृतान्तरे | निक्षिप्य भागौ द्वौ कृत्वा पक्षे शुक्लेतरे स्मरेत् | वामे नाडीमिडां भागे दक्षिणे पिङ्गलां पुनः | सुषुम्नां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि | अत्र स्थानविशेषे होमनिन्दा मत्स्यसूक्ते चतुर्दशपटले || यथा || कर्णहोमे भवेद् व्याधिर्नेत्रेऽन्धत्वमुदीरितम् | नासिकायां मनःपीडा मस्तके च धनक्षयः | एतेषु प्रधानाहुतिपरमन्यथा शारदोक्तो दोषः स्यात् | तद्यथा | स्रुवेण दक्षिणाद्भागादादायाज्यं सदा गुरुः | जुहुयादग्नये स्वाहेत्यग्नेर्दक्षिणलोचने | वामतस्तद्वदादाय वामे वह्निविलोचने | जुहुयादग्नीषोमाभ्यां स्वाहेति हृदयाणुना | हृन्मन्त्रेण स्रुवेणाज्यं भागादादाय दक्षिणात् | जुहुयादग्नये स्विष्टिकृते स्वाहेति तन्मुखे | हेतिं सम्पादयेद्भागे स्वाज्यस्यान्नाहुतिक्रमात् | इत्यग्निनेत्रवक्त्राणां कुर्यादुद्घाटनं गुरुः | प्. ५५२) सताराभिर्व्याहृतिभिराज्येन जुहुयात् पुनः | जुहुयादग्निमन्त्रेण त्रिवारं देशिकोत्तमः | कुण्डस्य रूपं जानीयात् परमं प्रकृतेर्वपुः | प्राच्यां शिरः समाख्यातं बाहुं दक्षिणसौम्ययोः | जठरं कुण्डमित्युक्तं योनिः पादौ च पश्चिमे | गर्भाधानादिका वह्नेः क्रिया निर्वर्तयेत् क्रमात् | अष्टाभिराज्याहुतिभिः प्रणवेन पृथक् पृथक् | गर्भाधानं पुंसवनं सीमन्तोन्नयनं पुनः | अनन्तरं जातकर्म स्यान्नामकरणं तथा | उपनिष्क्रमणं पश्चादन्नप्राशनमेव च | चौडोपनयने भूयो महानाम्न्यं महाव्रतम् | महानाम्न्यं वेदारम्भः || तथोपनिषदं पश्चाद्गोदानोद्वाहकौ मृतिः | शुभेषु स्युर्विवाहान्ताः क्रियास्ताः क्रूरकर्मसु | मरणान्ताः समुद्दिष्टा वह्नेरागमवेदिभिः | ततश्च पितरौ तस्य सम्पूज्यात्मनि योजयेत् | समिधः पञ्च जुहुयात् मूलाग्रघृतसंप्लुताः | मन्त्रैर्जिह्वाङ्गमूर्तीनां क्रमाद्वह्नेर्यथाविधि | प्रत्येकं जुहुयादेकामाहुतिं मन्त्रवित्तमः | अवदाय स्रुवेणाज्यं चतुःस्रुचि पिधाय ताम् | स्रुवेण तिष्ठन्नेवाग्नौ देशिको यतमानसः | जुहुयाद्वह्निमन्त्रेण वौषडन्तेन सम्पदे | विघ्नेश्वरस्य मन्त्रेण जुहुयादाहुतीर्दश | सामान्यं सर्वतन्त्राणामेतदग्निमखं मतम् | ततः पीठं समभ्यर्च्य देवतायै हुताशने | अर्चयेद्वह्निरूपां तां देवतामीष्टदायिनीम् | तन्मुखेजुहुयान्मन्त्री पञ्चविंशतिसंख्यया | आज्येन मूलमन्त्रेण वक्त्रैकीकरणन्त्विदम् | वह्निदेवतयोरैक्यमात्मना सह भावयन् | मूलमन्त्रेण जुहुयादाज्येनैकादशाहुतीः | नाडीसन्धानमुद्दिष्टमेतदागमवेदिभिः | जुहुयादङ्गमुख्यानामावृतीनामनुक्रमात् | एकैकामाहुतिं सम्यक् सर्पिषा देशिकोत्तमः | ततोऽन्येष्वपि कुण्डेषु संस्कृतेषु यथाविधि | आचार्यो विहरेदग्निं पूर्वादिष समाहितम् | ऋत्विजो गन्धपुष्पाद्यैरङ्गाद्यावरणान्विताम् | प्. ५५३) तन्त्रोक्तामेतामिष्ट्वा च पञ्चविंशतिसंख्यया | मूलेनाज्येन जुहुयुः साज्येन चरुणा तथा | आहुतिदानप्रकारश्च मत्स्यसूक्ते || उत्तानेन तु हस्तेन अङ्गुष्ठाग्रेण पीडितम् | संहताङ्गुलिपाणिस्तु जुहुयाद्देशिकोत्तमः | आहुतिस्तु घृतादीनां स्रुवेणाधोमुखेन तु | दद्यात्तिलाद्याहुतिं तु दैवेनोत्तानपाणिना | समिद्धोमश्च तिलवन्मोदकाद्याहुतिस्तथा | अङ्गुष्ठादित्रिचतुरैर्बिल्वपत्र इति क्रमात् || द्रव्यविशेषहोमे जिह्वाविशेषोऽपि तत्रैव || घृताहुतौ हिरण्याख्या कनका शस्यहोमतः | रक्ता ख्याता समिद्धोमे कृष्णा सा आहुतौ तथा | सुप्रभा मोदकविधौ बहुरूपातिरूपका | पुष्पा पत्रविधौ वह्नेर्जिह्वाः सप्त प्रकीर्तिताः | द्रव्यालाभे प्रतिनिधिरपि तत्रैव || उक्तं न लभ्यते तत्र प्रतिकृत्या च होमयेत् | अर्कस्योडुम्बरं प्रोक्तं खदिरस्य शमीरिता | पिप्पलस्य पलाशः स्यात् पलाश स्यापि पिप्पलः | उभयोरेवमेवं स्यादपामार्गे पलाशकम् | कुशाभावे भवेद्दूर्वा दूर्वाभावे कुशो भवेत् | इक्षोरभावे त्वमृताऽमृतायाश्च पलाशकम् | पद्माभावे हयारिः स्याज्जलजानां विशेषतः | घृतं न लभ्यते यत्र शुद्धक्षीरेण होमयेत् | क्षीरस्य तु दधिज्ञेयं मधुनश्च गुडं भवेत् | शर्करायाश्च श्रीखण्डं गुडखण्डमथापि वा | रसानाञ्च रसेनैव सर्वमिक्षुरसेन वा | मोदके पिष्टकं ज्ञेयं फलानाञ्च फलेन तु | काष्ठस्य चैव काष्ठेन पुष्पस्य कुसुमेन च | एवमन्योन्यतः सर्वं सर्वद्रव्येषु सर्वदा || अद्भुतेषु तु सर्वेषु उत्तराभिमुखो भवेत् | समिधः प्रावरणं कुर्यादन्यत्र पूर्वदिग् भवेत् | यजमानः स्वयं नैव समिधं प्रवयेत् क्वचित् | पुत्रशिष्यादिभिः कुर्यान्न पुत्रं विनियोजयेत् || तथा || न कदाचिदसृग्दानं गृहयज्ञे विचक्षणः | भूतिकामः क्वचित् कुर्यादेवं तन्त्रविदां मतम् | प्. ५५४) आज्यादिकं भवेद्यत्र समिधः श्रावणे स्थितम् | शेषं न योजयेन्मन्त्री अन्यत्रैवं विचक्षणः | एकाङ्गं लग्नमेकत्र न पात्रे स्थापयेत् क्वचित् | देशिकः प्राङ्मुखो भूत्वा ऐशान्यादिक्रमेण तु | प्रदक्षिणेन कुर्वीत मन्त्रैः परिसमूहनम् | मन्त्रपूर्वं साग्निकानां दृष्टिमेव निरग्निकम् | त्रिकुशेन महायागे विवाहादौ त्रिपत्रकम् | वैश्वदेवे त्वेकपत्रं नित्यहोमे तथैव च | दिग्विदिक्षु परिस्तीर्य महायागेषु सर्वदा | दिक्षुमात्रे नित्यहोमे वैश्वदेवे तथैव च | अकृत्वा कर्म नित्यन्तु वृथा नैमित्तिकं चरेत् | तस्मात् पुष्पफलाद्येन कृत्वा नैमित्तिकं चरेत् || तथा || प्रजापतिं तथेन्द्रञ्च अग्निं सोमं तथैव च | एतान्नित्याहुतिं कृत्वा समिद्धोममनन्तरम् | हुत्वा व्याहृतिभिः पश्चात् सर्वत्रैवं महेश्वरि ! | भूर्भुवः स्वः स्वाहा तत्र इत्यादिमन्त्रपञ्चकम् | अन्ते स्विष्टिकृतिं दद्याद्धोमद्रव्येण शङ्करि ! | दानमध्ये यज्ञभेदे ग्रहयज्ञे शतान्तरे | सप्तभेदे त्विमे पूर्णाः पुनस्ते च त्रिधा क्रमात् | ऋत्विक्स्कन्धं स्पृशन्मन्त्री दक्षिणं वा स्पृशन् भुजम् | यजमानः सपत्नीको जुहुयाद्देशिकोत्तमः | उत्थाय दद्यात् पूर्णाञ्च नोपविश्य कदाचन | कनकायान्तु जिह्वायां रक्तायां ग्रहयज्ञके | ग्रहहोमशतान्ते च पूर्णा एका विधीयते | सहस्रान्ते द्वयं कुर्यादयुतान्ते चतुर्थकम् | अन्नहोमे युगं दद्यात् पद्महोमे चतुर्थकम् | आज्यलाजतिलादीनां होमे च दशलक्षके | पनसाम्रफलैर्होमे द्वितीयं समुदाहृतम् | शतार्द्धे वा तदर्द्धे वा गर्भाधानान्नप्राशने | सीमन्तोन्नयने चैव प्रायश्चित्ताहुतिषु च | दधिहोमे च नित्ये च एषु पूर्णां विवर्जयेत् || अथ होमद्रव्यप्रमाणम् मत्स्यसूक्ते चतुर्दशपटले || कर्षैकं घृतहोमे तु द्वितोलञ्च पयः स्मृतम् | वाणतोलं पञ्चगव्यं तोलकैर्मधुदुग्धकम् | दधि प्रसृतिमात्रन्तु लाजाः स्युर्मुष्टिसम्मिताः | प्. ५५५) पृथुकाष्टप्रमाणेन अथवा पूर्वपूरणम् | शक्तवो मुष्टिमात्रेण शर्करा तोलकार्द्धकम् | त्रितोलञ्च गुडं विद्याद्दिक्षुपुर्वावधि स्मृतम् | मोदकं धात्रीमानञ्च मार्गं वदरमानतः | पिण्डकस्य यथा मानं नारिकेलादिपर्वकम् | तालन्तु द्व्यङ्गुलं चैव पनसं बीजसंख्यया | मारणोच्चटने चैव पनसं दशधा कृतम् | अष्टधा नारिकेलन्तु मातुलुङ्गं त्रिधा मतम् | त्रिधा कृतं फलं बैल्वमन्यथा दशभागकम् | प्रादेशमात्रं समिधं दूर्वापत्रत्रयं स्मृतम् | पत्रावसानहोमे च प्रादेशं परिकल्पयेत् || समिद्विशेषो यथा राघवभट्टे || विशीर्णा विदला ह्रस्वा वक्रा स्थूला कृशा द्विधा | क्रिमिदष्टाश्च दीर्घाश्च निस्त्वचः परिवर्जिताः | विशीर्णायुःक्षयं कुर्याद्विदला व्याधिसम्भवा | ह्रस्वायां व्याधिमाप्नोति वक्रा विघ्नकरी सदा | स्थूलाभिहरते लक्ष्मीं कृशायां याजकक्षयः | द्विधायां नेत्ररोगाः स्युः कीटदष्टार्थनाशिनी | दोषं प्रकुर्वते दीर्घाः प्राणघ्न्यो निस्त्वचः स्मृताः | न क्षीणा नाधिका न्यूनाः समिधः सर्वकामदाः | आर्द्रत्वचां समच्छदां तर्जन्यङ्गुलिवर्तुलाम् | ईदृशीं होमयेत् प्राज्ञः प्राप्नोति विपुलां श्रियम् | श्रौते स्मार्ते चतस्रोक्ताः समिधः परिकीर्तिताः || मत्स्यसूक्ते || चतुरङ्गुला च गुडूची व्रीहयो मुष्टिसम्मिताः | सर्षपं सूक्तिमानेन सूक्तिः स्यात् पञ्चतोलकम् | मरिचे विंशकं कृत्वा मारणे दशकं विदुः | दशधा च मृणालं स्यान्मूलकं सप्तभागकम् | एकैकशः कशेरुश्च शृङ्गवेराङ्गुलेन तु | मातुलुङ्गं समं कुर्यादन्नं व्यञ्जनसंयुतम् | पूर्ववदेव मानं स्यात्तण्डुलं चैव तत्समम् | चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादि च | नकुले तु कुलं ज्ञात्वा कुले द्रव्यान्तरेण तु | यथा योगो न गन्धेन राज्यकामे विशेषतः | तिन्तिडीबीजमानेन समुद्दिष्टानि तान्त्रिकैः || योगिनीतन्त्रेऽपि || कर्षमात्रं घृतं देयं सूक्तिमात्रं पयः स्मृतम् | प्. ५५६) दधि प्रसृतिमानन्तु तदर्द्धञ्च मधुस्पृशम् | एषां व्यापारकं वक्ष्ये यथावत् शृणु पार्वति ! | सुवर्णाष्टप्रमाणेन घृतं देयं विचक्षणः | पयो भवेत्तदर्द्धेन दधि पञ्चसुवर्णकम् | दधि चैव तदर्द्धेन एवं मानविदो विदुः | एवं शतस्य मानन्तु प्राबल्यं विभवे सति | पञ्चाशत्तत्र जानीयात् सर्वत्रैव विचक्षणः | अथ मानाध्यायः || योगिनीतन्त्रे द्वितीयभागे || गवाक्षमात्रे यदृश्या अर्करश्मेस्तु लेखिका | लेखिकाष्टौ भवेद्धूली धूलयोऽष्टौ च सर्षपः | सर्षपाणां चतुष्केण रत्तिकेत्यभिधीयते | रत्तिकानां विंशतिश्च पादञ्च परिकीर्तितम् | तोलिका तु चतुष्पादैश्चतुस्तोलैः प्रसृतिका | प्रसृती द्वे कर्षकञ्च द्वे कर्षे तु पलं भवेत् | पलार्द्धेन भवेत् सूक्तिर्द्वे सूक्ती गुडकं मतम् | वीरमित्रोदयधृतहस्तिहृदयप्रबन्धे || जालान्तरप्रविष्टायां सूर्यभासि यदीक्ष्यते | रजस्तत्परमाण्वाख्यं प्रमाणं प्रथमं मतम् | त्रसरेणुर्मतस्तैश्च परमाणुभिरष्टभिः | तैरष्टभिर्भवेल्लिख्यो यूका लिख्यैस्तथाष्टभिः | यवो यूकाभिरष्टाभिर्यवैरष्टभिरङ्गुलम् | मुष्टिस्तानि च चत्वारि द्वे च मुष्टी धनुर्ग्रहः | त्रिमुष्टिको वितस्तिः स्यादरत्नौ द्वे वितस्तिके | किष्कुर्द्वाभ्यामरत्निभ्यां धनुः किष्कुद्वयेन च | सहस्रं धनुषां क्रोशो गव्यूतिर्द्विगुणा ततः | गव्यूतयश्च चतस्रो योजनं कल्पितं कला || मत्स्यसूक्ते षोडशपटले तु || सर्षपाणां चतुष्केण माष इत्यभिधीयते || अत्र माषः शस्यवाचकः || माषाणाञ्चैव तूर्येण रत्तिकेत्यभिधीयते | रत्तिकानां विंशकञ्च पादञ्च परिकीर्तितम् | तोलिका च चतुष्पादैश्चतुस्तोलैः प्रसृतिका | प्रसृती द्वे कर्षकञ्च द्वे कर्षे तु पलं भवेत् | पलद्वये तु सूक्तिः स्याद् द्वे सूक्ती दग्धकं मतम् || इति श्रीप्राणतोषिण्यां चतुर्थे काम्यकाण्डे दुर्गामन्त्रस्तुतिनाम- माहात्म्यशतनामबलिहोमहोमीयानुकल्पपरिमाणात्मक- दुर्गोत्सवप्रकरणरूपपुष्पकथनं नाम षष्ठः परिच्छेदः | प्. ५५७) इष्टदेवीं नमस्कृत्य भुक्तिमुक्तिप्रदायिनीम् | मासकृत्यमथो वक्ष्ये विदुषां परितुष्टये || अथ मासकृत्यम् | चान्द्र एवात्र मासस्तिथिकृत्यनिमित्तत्वादभिलापादिकन्तु सौरेणैव प्रागुक्तधर्मकाण्डधृतवचनात् | मत्स्यसूक्ते द्विपञ्चाशत्पटले || आश्विने शुक्लपक्षे च अष्टम्याञ्च निशागमे | सिद्धगौरीव्रतं कुर्याद् या साध्वी धर्मचारिणी || इति सिद्धगौरीव्रतमस्मिन् देशे अप्रचरद्रूपत्वेन न लिखितम् | यस्यात्र प्रयोजनं विद्यते तेन तत्तु अन्वेष्यम् | शुक्लपक्षे दशम्यान्तु आश्विने परमेश्वरि ! | विजया नाम सा ख्याता सर्वत्रनिगमालयम् | रेवन्तं पूजयेत्तत्र ईश्वरीञ्च वरानने ! | इह लोके सुखं प्राप्य यास्यन्ति शिवमन्दिरम् | तेजोऽसीति च द्विभुजं तुरङ्गासनसंस्थितम् | खड्गचर्मधरञ्चैव मन्त्रेणानेन पूजयेत् | नमस्ते सूर्यपुत्राय तुरङ्गानां हिताय च | शान्तिं कुरु तुरङ्गानां रेवन्ताय नमो नमः | ओं गन्धर्वकुलजातस्त्वं भूपालाय च केशव ! | ब्रह्मणस्तत्त्ववाह्येन सोमस्य वरुणस्य च | तेजसा चैव सूर्यस्य स्वलीला ते पदा तथा | रुद्रस्य ब्रह्मचर्यस्य पवनस्य बलेन च | धान्यकं पशुकं वीजं ध्यानं सिद्धार्थकानि च | पद्मपत्रं निशान्ते च सूत्रेण द्विगुणेन च | बध्नीयादक्षमालायां गले चापि विशेषतः | अस्त्रशस्त्रादिकञ्चैव राज्याङ्गानि च भाविनि ! | प्रतिवीजेन पुष्पाद्यैः पूजयेदविचारयन् || अथ खञ्जनदर्शनं तत्रैव || दशम्यामपराह्णे तु भुक्तवत्सु स्वयं प्रिये ! | शोभनं खञ्जनं पश्यन् नमस्कुर्याद्विभूतये | वासुदेवस्वरूपेण सर्वकामफलप्रद ! | पृथिव्यामवतीर्णोऽसि खञ्जरीट ! नमोऽस्तु ते | खञ्जनाय नमस्तुभ्यं सर्वाभीष्टप्रदाय च | नीलकण्ठाय भद्राय भद्ररूपाय ते नमः | भद्र ! त्वं देहि मे भद्रमाशां पूरय पूरक ! | स्वस्तिकोऽसि कुरु स्वस्ति खञ्जरीट ! नमोऽस्तु ते | प्. ५५८) नारायणस्वरूपाथ संवत्सरसुखप्रद ! | नीलकण्ठ ! महादेव ! खञ्जरीट ! नमोऽस्तु ते | देवदानवयक्षाणां नराणां पुष्टिवर्धनम् | दर्शनं तव भद्रस्य विष्णुरूप ! नमोऽस्तु ते | अथ दर्शनशुभाशुभफलम् || जलप्रासादशिखरे पर्वते च जलान्तिके | दृष्टे शुभं भवेत् कीर्तिर्गोष्ठेषु धनवर्धनम् | अब्जेषु नृपतिर्भूयात्तथा देवालयेषु च | तडागतीरे धनवान् श्मशाने मरणं भवेत् | कृष्णग्रीवो नीलकण्ठः श्वेतकण्ठो जनार्दनः | पीते तु पार्वती देवी धुन्वत्पक्षे तु वीक्षणम् | व्याधिर्भवति देवेशि ! स्थिरे सम्पत्तिकारकम् | भक्तं भुञ्जन् भवेद्रोगी श्रियं दृष्ट्वा च वासवः | सुमानः कीर्तनादेव आयुषस्तु क्षयो भवेत् | तस्मात्तु खञ्जनं नाम कीर्तयेदविचारयन् || तत्रैव || कौमुद्यां रात्रियोगे तु गृहिणी या पतिव्रता | इन्द्रं लक्ष्मीं समभ्यर्च्य सुगन्धिकुसुमादिभिः | पायसञ्च बलिं दद्यादन्नं व्यञ्जनसंयुतम् | नारिकेलफलैर्देवान् पितॄनथ समर्चयेत् | बन्धूंश्च पूजयेद्रात्रौ प्रकुर्यात् क्रयविक्रयम् | न करोति महालक्ष्मीः शापं दत्त्वा व्रजेत् पुरम् | निशीथे वरदा लक्ष्मीः को जागर्ति विभाषिणी | नारिकेलोदकं पीत्वा अक्षैर्जागरणं निशि | तद्विभूतिं प्रयच्छामि को जागर्ति महीतले | सोमञ्च पूजयेत् कुम्भे पट्टे वा पीठकेषु च || अथ लक्ष्मीध्यानं तत्रैव || नवयौवनसम्पन्नां तप्तकाञ्चनसन्निभाम् | त्रिनेत्रां द्विभुजां रम्यां दिव्यकुण्डलधारिणीम् | श्रीफलं दक्षिणे पाणौ वामे पद्मञ्च बिभ्रतीम् | सर्वालङ्कारसम्पूर्णां सर्वालङ्कारगर्विताम् | किन्नरामरगन्धर्वसिद्धचारणसेविताम् | वीजेन दीर्घयुक्तेन षडङ्गमथ कल्पयेत् | पूजयेदुपचाराद्यैर्नानानैवेद्यवन्दनैः || पूजामन्त्रस्तु तत्रैव || क्षीरोदार्णवसम्भूते ! विष्णोरुरसि संस्थिते ! | गृहाण पूजां देवेशि ! कौमुद्याञ्च नमोऽस्तु ते | प्रणाममन्त्रस्तु | प्. ५५९) विश्वरूपस्य भार्यासि पद्मे ! पद्मालये ! शुभे ! | महालक्ष्मि ! नमस्तुभ्यं कौमुदीञ्च कुरुस्व मे | नमस्ते सर्वजगतां वरदासि हरिप्रिये ! | या गतिस्त्वत्प्रपन्नानां सा मे भूयात् त्वदर्चनात् | लक्ष्मि ! देवि ! नमस्तुभ्यमचला भव सर्वदा | कमले ! वरदे ! देवि ! कुलोद्योतकरी मम | हिताय सर्वभूतानां यथा नारायणे स्थिता | तथा त्वं पाहि मां देवि ! सर्वलक्षणसम्भवे ! | कृता पूजा मया भक्त्या कमले ! वरदे ! शुभे ! | पूजां गृह्ण सुरेशानि ! नमस्ते कमलालये ! | पूर्वादिपत्रे सम्पूज्य भूत्यादिनवशक्तिकाः | वासुदेवादिकं तत्र वामनादिकमर्चयेत् | तत्रैव कलसे चैव इन्द्रं ध्यात्वा समर्चयेत् | सर्वलक्षणसम्पूर्णमिन्द्रमैरावतस्थितम् | शचीसमेतं वरदं ध्यानेन परिचिन्तयेत् | पूजामन्त्रोऽपि || वज्रहस्त ! महावाहो ! बहुनेत्र ! पुरन्दर ! | रक्षार्थं सर्वभूतानां पूजेयं प्रतिगृह्यताम् | दिक्पालांश्च ग्रहांश्चैव ब्राह्मणांश्चाग्रतोऽर्चयेत् | विष्णुं नारायणञ्चैव भावभूतेश्वरं यजेत् | पूजयित्वा ह्यनेनापि विल्वमुद्रां प्रदर्शयेत् | पद्ममुद्रां धेनुमुद्रां मन्त्रं जप्त्वा स्तुतिं पठेत् || इत्याश्विनकृत्यम् || त्रिपञ्चाशत्पटले || श्रीभगवानुवाच || तुलाराशिं गते भानौ शुक्लपक्षे विशेषतः | प्रतिपद्येव गोशृङ्गे पूजयेत् कमलालयाम् | उपोष्य यावकाहारं बलिं दद्याच्च पायसम् | कुन्दपुष्पैः समभ्यर्च्य सर्वपापहरो भवेत् | तत्रैव पूजयेद्देवीं महिषेण मम प्रिये ! | दूर्वयाङ्करपुष्पाभ्यां पूजयेज्जगतां पतिम् | शाल्योदनं ततो भुक्त्वाचम्य गत्वा जलान्तिके | घृतञ्च द्विविधं कुर्यात् पलं कृत्वा महेश्वरि ! | जयं संवत्सरं तस्य भङ्गे भङ्गं समादिशेत् | विभीषणं बलिञ्चैव सीमञ्च परमेश्वरम् | पूजयेद्गन्धपुष्पाद्यैर्नानानैवेद्यवन्दनैः | कृष्णपक्षे तथा कुर्याद्दम्पतीपूजनञ्चरेत् | प्. ५६०) मधुमांसाशनं कुर्यादेकभक्तेन वर्तयेत् | शुक्लपक्षे द्वितीयायां धर्मराजं समर्चयेत् | चरुं कृत्वा विधानेन सोदरानथ भोजयेत् | ऐश्वर्यं लभते सौख्यं बहुभोगानवाप्नुयात् | कृष्णपक्षे तथा लक्ष्मीं कुन्दपुष्पैः समर्चयेत् | कृष्णद्रव्यबलिं तद्यात्तस्मै वित्तं प्रयच्छति | तृतीयायां गणेशञ्च पूजयेत् पिष्टकादिना | वर्तयेदेकभक्तेन न शोको जायते भुवि | चतुर्थ्यां मोदकैर्देवीं पूजयेत् कुशलार्थकम् | दधिखण्डबलिं दद्याद्वाञ्छितं लभते ध्रुवम् | कृष्णपक्षे प्रतिपदि देवीं माहेश्वरीं यजेत् | सितपारावतैः पूजा भूतिदा जायते ध्रुवम् | पञ्चम्यां विल्वपत्रैश्च हरं गौरीं समर्चयेत् | बलिञ्च मोदकं दद्याद्विद्याकामः सुरेश्वरि ! | क्षीरस्य प्राशनादेव पापात् पूतो न संशयः | पञ्चम्यां कृष्णपक्षस्य देवं नारायणं हरम् | महायोनौ समभ्यर्च्य कुलानां तारयेद्दश || महायोनौ कामाख्यायां || षष्ठ्यां वै शुक्लपक्षस्य देवं धनपतिं यजेत् | यो जनः षोडशं दद्यान्मोदते नाकमण्डले | सप्तम्यां संयतो भूत्वा उभे पक्षे तु कार्तिके | देवं मत्स्यं तथा काममिन्द्रदेवं प्रपूजयेत् | ब्राह्मणान् दम्पतीं चैव भोजयेत् प्रातरेव च | फलमूलं तथा धान्यं प्रदद्यात् दक्षिणां शुभाम् | न च व्याधिः क्षुधा वापि कुले तस्य प्रजायते | अष्टम्याञ्चैव देवेशि ! शुक्लपक्षे विशेषतः | दुर्गां मत्तानिलीञ्चैव कृष्णखड्गे समर्चयेत् | त्रिकालं पूजयेद्भक्त्या यशस्वी तेजवान् भवेत् | कृष्णपक्षे शिवं दुर्गां कमलां कालिकां तथा | मृणमययां पूजयेद्देवीं मध्यरात्रे प्रयत्नतः | न च व्याधिभयं घोरं यावत्तु वत्सरावधि || वृहन्नीलतन्त्रे षष्ठपटले || कार्तिके शुक्लपक्षस्य नवमी या शुभा भवेत् | तस्यां पूज्या महेशानि ! सुन्दरी परदेवता | सुन्दर्याः पटले सम्यक् पूजा च कथिता शुभे ! || मत्स्यसूक्ते || शुक्लपक्षे नवम्यान्तु तिलैर्होमं समाचरेत् | प्. ५६१) देवमुद्दिश्य फलदमुपर्युपरि पञ्चमे | कृष्णे चैव यजेद्देवीं सप्तम्यां सूर्यमर्चयेत | धनधान्यलक्ष्मीकरं पुत्रपौत्रविवर्द्धनम् | कार्तिकस्य तु शुक्लायां दशम्यां नियतः शुचिः | तैलेन शुद्धतैलेन अर्चयेन्मधुसूदनम् | कृष्णपक्षे तु क्षीरेण मधुना च विशिष्यते | रात्रौ फलाशनं कुर्यान्मोदते विष्णुमन्दिरे | कृष्णपक्षेऽर्च्चयेत् कृष्णं हृषीकेशं शतक्रतुम् | तोषयेत् परमान्नाद्यैर्नरी न निरयंव्रजेत् | एकादश्यां कार्त्तिकस्य शुक्लपक्षे यशस्विनि ! | स्नानं शुक्लतिलैः कुर्यात्त्रिशुक्लैर्हरिमर्च्चयेत् | प्रातरेव तु द्वादश्यां नित्यकृत्यं समाहितं | सङ्कल्प्य च गणेशानं ब्रह्माणं दिक्पतीनपि | ग्रहांश्च प्रतिकुम्भेषु स्थण्डिले च हरिं यजेत् | पञ्चामृतेन गन्धेन तीर्थतोयेन स्नापयेत् | पूजयेच्च्युतपत्राद्यैः कुमुदैः पङ्कजैरपि | शारदीयेन पुष्पेण यथाविभवविस्तरैः | त्रिकालं चार्चयेद्भक्त्या अग्निकार्ययं ततो निशि | प्रबोधनं ततः कुर्यान्मध्याह्ने परमेश्वरि ! | दिवा स्नाने भवेद्धानिस्तथा रात्रौ प्रबोधने | आद्ये अष्टाक्षरं दद्यात् प्रतिमन्त्रे महेश्वरि ! | कृताञ्जलिं ततो बद्ध्वा इमं मन्त्रमुदाहरेत् | ब्रह्मेन्द्ररुद्रैरभिनूयमानो भवान् सुरौघैश्च विवन्दनीयः | प्राप्ता तवेयं द्वादशी कौमुद्याख्या त्वमेव जागृष्व हि लोकनाथ ! | ततः स्पृष्ट्वा पठेन्मन्त्री शनैर्मन्त्रं पठेत्ततः | मेघागतैर्निर्म्मलचन्द्रतोयैरारण्यपुष्पैरथ सौरभेयैः | अहं ददामीति च धर्महेतोः जागृष्व जागृष्व च लोकनाथ ! | जानुभ्यामवनीं गत्वा पठेन्मन्त्रं सतारकम् | प्रसीद नारायन ! कृष्ण ! विष्णो ! मुकुन्द ! लक्ष्मीश ! भवन्नमस्ते | सम्पश्य लक्ष्मीं तव भावभूतिमाश्रित्य चाश्रित्य च लोकनाथ ! | नृत्यगीतैर्बहुविधैः पुराणश्रवणेन च | नयेद्रात्रिं महेशानि ! पञ्चघोषपुरःसरम् | प्रभाते पूजयेद्भक्त्या धेनुं दद्याच्च दक्षिणाम् | ब्राह्मणान् पूजयेद्भक्त्यादीनान्धकृपणानपि | प्. ५६२) पार्श्वपरिवर्तने चैव मन्त्रमष्टाक्षरान्तरे | पार्श्वो भव जगन्नाथ ! नमो नारायणाच्युत ! | प्रसीद भगवन्नाथ ! भव संसारमाक्षण ! | परिवर्त्तय पार्श्वोऽपि गोविन्दाच्युत ! तद्वयम् | दिवाभागेन कर्त्तव्यं पूर्ववद् विधिना प्रिये ! | कृष्णपक्षस्य द्वादश्यां कुर्याद्ब्राह्मणतर्पणम् | शुक्लायाञ्च चतुर्दश्यां पार्वत्या सह शङ्करम् | विल्वपत्रैः समभ्यर्च्य न शोको जायते भुवि | अथ कृष्णत्रयोदश्यां कार्त्तिके मासि शङ्करि ! | प्रातः स्नानं ततः कृत्वा स्रोतसि विधिवन्नरः | उमां हरं रविं विष्णुं चन्दनेन विलिख्य च | पद्मपत्रैर्महेशानि ! विल्वपत्रैः समर्चयेत् | शाकेन तोषयेद्देवान् स्वयं शाकेन वर्त्तयेत् || तथा | मध्याह्ने स्नापयेत् कुम्भं वसनं तत्र विन्यसेत् | अभिषिञ्चेत्ततः पश्चादात्मानं बान्धवैः सह | अपामार्गस्य पुष्पेण त्रिवारं शिरसोपरि | वामावर्त्तेन देवेशि ! अपामार्गस्य पत्रकम् | वक्ष्यमाणेन वा कुर्याद् गायत्र्या वा समाहितः | यत् कृतं दुष्कृतं कर्म मया जन्मशतान्यपि | व्याप्याद्य त्वत्प्रसादेन अपामार्ग ! हरस्वमे | संहिताख्याञ्च पुण्याख्यां प्रेताख्यानान्तरेण च | श्रुत्वा संख्यां द्विजातिभ्यो दानं दद्याद्विभूतये | चतुर्दशी तथा प्रेता पूज्या पूर्वेण संयुता | यदा परदिने रात्रौ दर्शयुक्ता न सा भवेत् | एवमेतत् परं ग्राह्यं निथ्यन्ते दीपमुत्सृजेत् | देवैरपि निवृत्ते चेत् पूर्णिमा सचतुर्दशी | तदा पूर्वा ग्रहीतव्या सदा रात्रिगता अपि | स्नाने प्रेतकथायाश्च श्रवणे यमतर्पणे | सूर्योदयगता ग्राह्या नरैः प्रेतचतुर्दशी | एकादशीं समारभ्य यावत् पञ्चदर्शीं प्रति | निरामिषेण भोक्तव्यमेकभक्तेन वर्त्तयेत् | भीष्मव्रतमिदं प्रोक्तं सावकाशेन सेवयेत् | पौर्णमास्यां तुलादित्ये श्रीपतिं लोलया सह | चन्दनैः पूजयेद्भक्त्या कुलच्छेदो भवेन्न हि | तुलागतं समावाप्य लक्ष्मीर्निद्रां विमुञ्चति | प्. ५६३) तत्र सम्पूजनादेव लक्ष्मीः स्यादनपायिनी | श्वेतकुम्भेऽर्चयेल्लक्ष्मीं कुवेरं रक्तकुम्भके | पीतकुम्भेऽर्चयेद्विष्णुं नानानैवेद्यवन्दनै || नारदपञ्चरात्रे द्वितीयरात्रे सप्तमाध्याये || कार्तिकीपार्णमायाञ्च राधार्च्चा वुष्णुपूजनम् | यत्र तत्र त्वनियमः पर निर्वाणकारणम् || मत्स्यसूक्तं || कदाचित् कार्तिके मासि यदि दर्शद्वयं भवेत् | तत्राद्या सुखरात्रिः स्यादपरस्तु मलिम्लु चः | मलिम्लुचे वृश्चिके तु वुष्णूत्थानादनन्तरम् | लक्ष्मीप्रबोधो भवति सा ज्ञेया सुखसुप्तिका | दण्डैकरजनीयोगो दर्शेन स्यात् परेऽहनि | तदा विहाय पूर्वेद्युः परतः सुखरात्रिका | तत्र श्राद्धं कृतं येन अक्षयं भवति ध्रुवम् | शतग्रहणजं पुण्यं तीर्थे स्नानं महाफलम् | इष्टदेवं समुद्दिश्य पितॄनुद्दिश्य यत्नतः | जीवितञ्चेत् समुद्दिश्य दीपं दद्यात् शिवालये | आयुष्कामो हि देवेशि ! दीपं दद्याच्चतुष्पथे | द्वात्रिंशत्तु समुत्मृज्य पञ्चविंशतिकं प्रिये ! | आकाशदीपं दद्यात्तु नवपञ्चयुगेन वा | त्रिदीपं पञ्चदीपञ्च एकं वा दापयेद्बुधः | अर्घ्यञ्चैव वहन् जन्तून् जायते नात्र संशयः | त्रिहस्तं सार्द्धहस्तं वा हस्तमात्रमथापि वा | ऊर्द्धे तु दापयेद्दीपान् लभते वाञ्छितं फलम् | शिरे वक्षःस्थले चैव अङ्गे वा मणिबन्धके | यो दीपं दर्शयेद्देवि ! स्वर्गलोके महीयते | कमलां ह्लादिनीञ्चैव धरणीं विजयां तथा | जयां लक्ष्मीं सुभद्राञ्च महामायां दलेऽर्चयेत् | ब्रह्मादीन् पूजयेदग्रे वासुदेवादिकानपि | शङ्खं पद्मनिधिं पूजेत् कुवेरं वरुणं तथा | इन्द्राणीमय सम्पूज्य मन्त्रेणानेन संयजेत् | नमस्ते इत्यादि | विश्वरूपस्येत्यादि | त्वं गतिः सर्वभूतानां वरदासि हरिप्रिये ! | सर्वानन्दकरे ! देवि ! सर्वशाखे ! नमोऽस्तुते | लोले ! देवि ! नमस्तेऽस्तु नरकार्णवतारिणि ! | क्षीरोदमथनोद्भूते ! प्रसीद परमेश्वरि ! | प्. ५६४) जय पद्मालये ! देवि ! जय लक्ष्मि ! हरिप्रिये ! | सर्वानन्दकरे ! देवि ! सर्वशाखे ! नमोऽस्तु ते | जय क्षीरोददुहितर्मद्गेहे सुस्थिरा भव | इयं सांवत्सरी पूजा नैवेद्यादिकमुत्तमम् | लोले ! गृहीत्वा तत्सर्वं गृहाण परमेश्वरि ! | दीपदानान्तरे चैव मन्त्रमेतमुदीरयेत् | दामोदराय नभसि तुलायां लोलया सह | प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे | ऊर्द्ध्वतः सप्त लोका ये ये चाधोवर्त्तिनः सदा | दत्ताकाशप्रदीपेन प्रकाशं विचरन्तुते | ये च नारकिणो लोकाः पीडया बाधिताः सदा | भवस्थास्ते प्रकाशन्तु दत्ताकाशप्रदीपतः | अन्धकारे स्थिता ये च ये च लोकविवर्जिताः | तेषां प्रकाशनार्थाय प्रदीपो दीयते मया | यमद्वारे महाघोरे सन्ति ये पुरुषा मम | तेषां प्रकल्पितार्थाय प्रदीपो दीयते मया | वातवर्षपतङ्गादिस्नेहवर्त्तिक्षयादिना | निर्वाणस्य प्रदीपस्य न दोषो मम केशव ! | नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे | नमो धर्माय रुद्राय कान्तारपतये नमः | ईशकोणे प्रदद्यात्तु मालये विजनेऽपि च | उल्का निशि तथा देया दक्षिणाभिमुखेन तु | निक्षिपेत्तत्र प्रथमं मन्त्रेणानेन शङ्करि ! | उल्कामुखाश्च ये केचिच्चरन्ति इह भूतले | उज्ज्वलज्योतिषा दग्धास्तेषान्तु परमा गतिः | आपदो मम नश्यन्तु मुखरात्रिप्रसादतः | उल्कासन्दीपनेनैव वर्द्धन्तु मम पूरुषाः | कार्तिकस्य अमायां वै समारभ्य यशस्विनि | कालरात्रिव्रतं कुर्याद् यथाकार्यं तथा शृणु | व्रतविध्यादिस्तु त्रिपञ्चाशत्पटलेऽनुसन्धेयः || इति कार्त्तिककृत्यम् || तत्रैव चतुःपञ्चाशत्पटले || वृश्चिके शुक्लपक्षस्य प्रतिपत्सु महेश्वरम् | दूर्वाङ्कुरैः समभ्यर्च्य गणनामीश्वरो भवेत् || १ || द्वितीयायां जगद्धात्रीं जले सम्पूज्ययत्नतः | एकाहारं ततः कृत्वा तृतीयायां जनार्दनम् | प्. ५६५) चतुर्थ्याञ्चैव श्रीकान्तमेकादश्यां जनार्दनम् | द्वादश्याञ्चैव ब्रह्माणं त्रयोदश्यां शतक्रतुम् | चतुर्दश्याञ्च गौरीशं सितपद्मैः समर्च्चयेत् | श्वेताम्बरधरो भूत्वा त्रिकालं संयतेन्द्रियः | मधुना तर्पयेद्देवान् ब्रह्मलोके महीयते | वृश्चिके पौर्णमास्यान्तु कल्यमुत्थाय वाग्यतः | पूजयेत् क्षेत्रविघ्नेशं पञ्चम्यां कमलां तथा | षष्ठ्यां वसुं समभ्यर्च्य सप्तम्याञ्च दिवाकरम् | अष्टम्यां त्रिपुराञ्चैव नवम्यां सुरसुन्दरीम् | दुर्गां बालां समुद्दिश्य एकभक्तेन वर्त्तयेत् | दशम्याञ्चैव तां देवीं दिक्पतींश्चापि पूजयेत् | सवितारं स्नापयित्वा देवान् रात्रौ बलिं चरेत् | वृहन्नीलतन्त्रे षष्ठपटले || मार्गे मासि सिते पक्षे सप्तमी रविवल्लभा | अन्नदां पूजयेद्भक्त्या पुत्रपौत्रसमन्वितः | लक्ष्मीः स्थिरायतेऽवश्यं यावच्च सचराचरम् | तावत्तस्य गृहे लक्ष्मीश्चौद्धत्यं परिवर्जयेत् | निश्चला च भेद्देवि ! सत्यं सत्यं गणेश्वरि ! | पूजा चास्या महेशानि ! कथिता तव सन्निधौ | अन्नदाकल्पके सम्यग् जानीहि नगनन्दिनि ! | मत्स्यसूक्ते || वृश्चिके पौर्णमासी तु विज्ञेया क्षेत्रपूर्णिमा | द्वापरे पूर्णिमा पौषे त्रेतायां माघमासके | बलिभिर्गुडखण्डैश्च पूजयित्वा द्विजोत्तमम् | अलक्ष्मीं नाशयेद्दाता लक्ष्मीञ्च लभते पराम् | यावकैः शर्कराद्यैश्च मोदकैर्विविधैरपि | क्षेत्रपूर्णिमामारभ्य त्रिरात्रं परमेश्वरि ! | कृत्वा नक्तं महेशानि ! विष्णुलोके महीयते | सुरयज्ञमिदं प्रोक्तं महाविभवदायकम् | धनधान्यलक्ष्मीकरं श्रीसौभाग्यप्रदायकम् | कृष्णप्रतिपदि विष्णुं पूजयेत् पार्वतीपतिम् | अग्निकार्यं त्रिकालञ्च लक्ष्मीवान् जायते कुले | द्वितीयायां गुडं प्राश्य पूजयेत् सुन्दरीमपि | तृतीयायाञ्च गोविन्दं तिलं प्राश्य ततो निशि | चतुर्थ्यां यावकाहारो मदनञ्च निशापतिम् | दधि प्राश्य ततो रात्रौ शिवलोके महीयते | पञ्चम्यां दिननाथञ्च विष्णुञ्च लोलया सह | प्. ५६६) पूजयेत् पीवरे कुम्भे क्षीरं प्राश्य लभेत् श्रियम् | पूजयेच्चैव गोविन्दं गवामप्यधिपो भवेत् | सप्तम्याञ्च तथाष्टम्यां नवम्यां विजितेन्द्रियः | धनाध्यक्षं श्वेतकुम्भे त्रिकालं नियतः शुचिः | महाविभवमाप्नोति लक्ष्मीः स्यादनपायिनी | नादेयतोये देवेशि ! कृष्णपक्षे जगद्गुरुम् | चित्रपट्टे समभ्यर्च्य क्षीरं प्राश्य ततो निशि | अणिमादिगुणैः सिद्धिर्जायते नात्र संशयः | दशम्याञ्च महेशानि ! एकादश्यां शतक्रतुम् | द्वादश्यां केशवं मूले त्रयोदश्याञ्च पार्वति ! | चतुर्दश्यामशोकेन कामं विष्णुं समर्च्चयेत् | त्रिकालं स्नानमासाद्य एकभक्तेन वर्त्तयेत् | एवं कृत्वा सकृद्देवि ! ब्रह्मलोके महीयते | अमावस्यायां गोमुख्ये गले विप्रमुखे गले | गोक्षीरेण चरुं कृत्वा पितॄनुद्दिश्य शङ्करि ! | मधुना गुडखण्डेन लवणेनोदकेन च | त्रिकालं तर्पयित्वा तु काममाप्नोत्यभीप्सितम् | ऐश्वर्यमतुलं प्राप्य पितृलोके महीयते || इत्याग्रहायणकृत्यम् || तत्रैव || धनुःस्थे च ततः सूर्ये शुक्लपक्षे वरानने ! | प्रतिपदि महेशानि ! प्रातःस्नायी जितेन्द्रियः | त्रिकालं पूजयेत् सूर्ययं रोगान्मुच्येत नान्यथा | कृष्णपक्षे जगन्नाथं पूजयेत् पार्वतीपतिम् | अग्निकार्ययं ततं कृत्वा ततो मुच्येत बन्धनात् | द्वितीयायां समारभ्य शुक्लपक्षे विशेषतः | आदित्यमथ रुद्रांश्च पूजयेद्भक्तिभावतः | यावत् पञ्चदशीञ्चैव तावदेव महेश्वरि ! | संसारान्मुच्यते देवि ! नात्र कार्या विचारणा | चतुर्थ्यां शुक्लपक्षे तु धनूराशिं गते रवौ | एकभक्तेन देवेशि ! रमेशं प्रति पूजयेत् | कृष्णं शचीपतिं विष्णुं पञ्चम्यां मधुसूदनम् | षष्ठ्यां स्कन्दं विशाखाञ्च रात्रौ तु क्षीरभोजनम् | सप्तम्याञ्च तथाष्टम्यां नवम्यां पक्षयोर्द्वयोः | प्. ५६७) कात्यायनीं समभ्यर्च्य एकभक्तेन शङ्करि ! | दशम्यां पार्वतीनाथमेकादश्यां श्रियः पतिम् | पिष्टकैः पूजयेद्द्विष्णुं स्वयं नक्तं समाचरेत् | यावच्चतुर्दशीं प्राप्य अमावास्याञ्च प्रेत्यषे | पौर्णमास्यां ततः कल्पे पितॄनुद्दिश्य तर्पयेत् | पुरोडाशेन विधिना कदाचिन्नावसीदति || इति पौषकृत्यम् || तत्रैवं पञ्चाशत्पटले || श्रीभगवानुवाच || मकरस्थे सहस्रांशौ शुक्लपक्षे यशस्विनि ! | प्रतिपदि सरित्तोये स्नात्वाभ्यच्य जनार्दनम् | वत्तयेदेकभक्तेन अग्निकार्ययपुरःसरम् | क्षीरेणाघ्यं विधातव्यं मुच्यते शोकसागरात् | द्वितीयायां तथा शक्रं चन्दनेन विलिप्य च | पीठे वाऽगुरुपत्रे च पूजयेद्भक्तितत्परः | हविष्याशी भवेद्रात्रौ रूपवानभिजायते | तृतीयायामुमाकान्तं श्रीपतिं कमलालयाम् | समभ्यर्च्य निशानाथं कुन्दपुष्पैः पृथग्विधैः | मुद्गञ्च प्राशनं कुर्यान्महापातकनाशनम् | चतुर्थ्यां शुक्लपक्षस्य पूजयेद्गणनायकम् | ताम्रकुम्भे विशेषेण पञ्चरत्नेन शङ्करि ! | तिलान् सम्प्राशयेद्रात्रौ तिलैर्होमं समाचरेत् | लक्ष्मीवान् मुतरां चापि धनवान् स प्रजायते | पञ्चम्याञ्च जगद्धात्रीं प्रातरेव नदीजलैः | स्नापयित्वा सुलक्ष्मीं तां कुम्भैर्मारकतैरपि | वसन्तपञ्चमी नाम सर्वपापप्रमोचनी | वसन्तञ्च समभ्यर्च्य कन्दर्पं सरतिं प्रिये ! | वसन्तरागश्रवणात् श्रियमाप्नोत्यभीप्सिताम् | श्रीपञ्चमीं तु केचित्तां मनयः प्रवदन्ति वै | वर्त्तयेदेकभक्तेन श्रियो न विच्युतिर्भवेत् | षष्ठ्यां प्रातः कृतस्नानः पूजयेच्च दिवाकरम् | क्षीरेणार्घ्यं ततो दद्यान्मुच्यते व्याधिबन्धनात् | सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी | अरुणोदयवेलायां तस्यां स्नानं महाफलम् | वदर्याश्चार्कपत्रस्य सप्त पत्राणि शालिजान् | रक्तांश्च तण्डुलान् दूर्वाः कृत्वा शिरसि मज्जयेत् | ओं यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु | प्. ५६८) तन्मे रोगञ्च शोकञ्च माकरी हन्तु सप्तमी | सप्तार्कपत्रैरक्तैश्च तण्डुलैर्गन्धचन्दनैः | फलैर्दूर्वाजवापुष्पैरर्घ्यं दद्यात् कृतक्रियः | सप्तसप्तिप्रीतिवहे ! सप्तलोकप्रदीपनि ! | सप्तव्याहृतिके ! देवि ! नमस्ते रविमण्डले | जननी सर्वभूतानां सप्तमी सप्तसप्तिके ! | सप्तव्याहृतिके ! देवि ! नमस्ते रविमण्डले | दानं कोटिगुणं प्रोक्तं होमं जापं सुरार्चनम् | ब्राह्मणान् भोजयित्वा च हविष्यान्नं स्वयं ततः | तीर्थे स्नानं दशगुणं गङ्गायां कोटिरेव च | रविवारे च सम्प्राप्ते कोटिकोटिगुणं भवेत् | दद्यादर्घ्यं सहस्रञ्च शतं वापि तदर्द्धकम् | अयुतेन लभेद्दास्यं लक्षैः सायुज्यमेव च | अशक्तो द्वादशं दद्यात् पञ्चविंशमथापि वा | द्विगुणत्वान्महेशानि ! व्रताङ्गेऽर्घ्य मुदाहृतम् | भजेद्रविदिने प्राप्ते प्रवृत्ते चोत्तरायणे | पुन्नामधेयनक्षत्रे गृह्णीयाद्दशमीव्रतम् | हस्तो मित्रस्तथा पुष्यो ज्येष्ठा भृगुपुनर्वसू | पुन्नामधेयनक्षत्राण्येतान्याहुर्मनीषिणः | सप्तम्यां शुक्लपक्षे तु कृतकृत्यः समाहितः | पार्वतीशं गणेशञ्च पूजयेद्दयितया सह | त्रिकालं पूजयित्वा तु तिलपायसमोदकैः | ततो नक्तं चरेन्मन्त्री हविष्यान्नेन शङ्करि ! | यत् कृतं द्वादशाष्टम्यामेकेनैव तु तत् फलम् | भवेत्तस्मात् प्रयत्नेन सर्वस्वेनापि भाविनि ! | पितॄनुद्दिश्य यत् श्राद्धं यः करोति स्वभक्तितः | सर्वश्राद्धे यत् फलञ्च काङ्क्षन्तिस्म न संशयः | पितृतर्पणतः शेषे सर्वे वर्णा द्विजातयः | तिलोदकन्तु भीष्माय प्रदद्यादञ्जलित्रयम् | वामोपवीतिना देवि ! दक्षिणाशामुखेन तु | दद्यादनेन मन्त्रेण शुचिः प्रयतमानसः | एहि भीष्म ! महाबाहो ! शान्तनोः कुलनन्दन ! | गृहाण दत्तमस्माभिः पानीयं वरदो भव | वैयाघ्रपद्यगोत्राय साङ्कतिः प्रवराय च | अपुत्राय ददाम्येतत् सलिलं भीष्मवर्मणे | प्. ५६९) मध्याह्नव्यापिनी ग्राह्या श्राद्धे भीष्माष्टमी सदा | स्नाने च तर्पणे दाने ग्राह्या सूर्योदयात् परा | यद्येकस्मिंस्तु वै मासि यदि स्वान्माकरीद्वयम् | भीष्माष्टमी भवेद्वापि तदा ग्राह्या परा तिथिः | नवम्यान्तु जगद्धात्रीं गौरीं कमलया सह | श्रीवृक्षे पूजनादेव महतीं श्रीयमाप्नुयात् | दशम्यामथ नक्ताशो सप्तमीं सप्तकुम्भके | पूजयेन्मरुपत्रैश्च नानाविभवविस्तरैः | ब्राह्मणान् भोजयेद्भक्त्या ऋषिं सम्पूज्य वैष्णवम् | तोषयेद्भावबुद्ध्या च तत्तुल्यो जायते प्रिये ! | एकादश्यां प्रातरेव ततः सङ्कल्पयेद्व्रती | त्रिकालं पूजयेद्विष्णुमग्निकार्यसमन्वितम् | एकेनैवोपवासेन कृतेन परमेश्वरि ! | सर्वपापैर्विशुद्धात्मा हरिसायुज्यमाप्नुयात् | जागरं कारयेद्रात्रौ संहिताश्रवणादिभिः | न चात्र वारदोषोऽस्ति माघे चैव घटेषु च | उत्थाने शयने विष्णोर्वासरन्तु न लङ्घयेत् | दिनक्षये दशाविद्धे सदैव परिवर्जयेत् | गृहस्थस्तु विशेषेण पुत्रवांश्चेद्विशेषतः | नक्तं पुण्यक्षयश्चैव पूर्वसङ्कल्पितं विना | द्वादश्यामप्युषःकाले स्नानं कुर्यान्नदीजले | धात्रीस्नानं प्रकुर्यात्तु महापातकनाशनम् | गोविन्दं पूजयेद्भक्त्या धेनुं दद्यात्ततो व्रती | दानञ्चैवाग्निकार्यञ्च ब्राह्मणानथ योजयेत् | शृणु देवि ! महागुह्यं श्रीविष्णोर्व्रतपञ्चकम् | विभूतिद्वादशी नाम पञ्चैव परिकीर्तिताः | कार्तिकस्य च मार्गस्य माघस्य फाल्गुनस्य च | आषाढस्य वरारोहे ! द्वादश्यां शुक्लपक्षके | श्रावणस्य तु सिंहस्य अशून्या नाम द्वादशी | जनार्दनं समुद्दिश्य उपवासं करोति यः | अशून्या च भवेत् शयया जन्मजन्मनि शङ्करि ! | त्रयोदश्यान्तु शुक्लायां विभूत्याख्या त्रयोदशी | माधवं कलसे कृत्वा भूतिमाप्नोति शाश्वतीम् | माघे मासि सिते पक्षे ख्याता रामचतुर्दशी | कामविद्धापि सा कार्या शिवरात्रिविधानतः | प्. ५७०) पौर्णमास्यामुषःकाले स्नानं कुर्याद्विधानतः | सम्पूज्य च जगन्नाथं दानं दद्याद्विभूतये | धेनुं दद्याद्विजातिभ्यो विष्णुलोके महीयते | इन्धनञ्चैव पक्वान्नं हविष्यान्नेन वर्त्तयेत् | कृष्णपक्षे प्रतिपदि स्कन्दमुद्दिश्य यत्नतः | दानं दद्याद्द्विजाग्रेभ्यः पूजयित्वा विधानतः | द्वितीयायां जगन्नाथं समुद्दिश्य प्रपूजयेत् | प्रदद्याच्चरुनैवेद्यं हविष्यान्नेन वर्त्तयेत् | तृतीयायां तथा धर्मं चित्रगुप्तं समर्चयेत् | पिष्टकाशी भवेद्रात्री धर्मलोकाद्भवेच्च्युतिः | चतुर्थ्यां कृष्णपक्षे तु लक्ष्मीं कुम्भे समर्च्चयेत् | पायसाशी भवेन्नित्यं रमाया न च्युतिर्भवेत् | पञ्चभ्यां मदनं देवं गोपालं रुक्मिणीमपि | चित्रे वाक्षतपुञ्जेषु नरो न निरयं व्रजेत् | षष्ठ्यां धन्वन्तरिं शम्भुं कुमारं पूजयेन्निशि | क्षीरकुम्भे महेशानि ! न शोको जायते भुवि | सप्तम्यां कमलानाथं घृतकुम्भे समर्चयेत् | वारिधारां तओ दद्याद्भार्यया च व्रतस्य वै | कृष्णाष्टम्यां नवम्याञ्च विल्वपत्रेण शङ्करम् | त्रिकालं पूजयेद्भक्त्या पार्वत्या सह गोमये | पिण्डेभ्योऽर्च्य हृषीकेशमेकभक्तेन वर्त्तयेत् | दशम्यां कृष्णपक्षस्य गङ्गां सम्पूजयेद्व्रती | एकादश्यां हविष्याशी माधवञ्च समर्च्चयेत् | त्रयोदश्यां तथा कामं चतुर्दश्याञ्च प्रत्युषे | अनर्काभ्युदिते काले स्नानं कुर्यात् सरिज्जले | शतजन्मकृतं पापं तत्क्षणादेव नश्यति | रटन्ती नाम विख्याता सर्वपापहरा शिवा || वृहन्नीलतन्त्रे सप्तमपटले || माधे मास्यसिते पक्षे रटन्त्याख्या चतुर्दशी | तस्यां सम्पूजयेत्तारां महाविभवविस्तरैः | चक्रवर्त्ती महाराजो भवत्येव न संशयः || मत्स्यसूक्ते || अमावस्यां कृतस्नानस्तिलान्नेन महेश्वरि ! | श्राद्धं कुर्याद्धविष्याशी पितृलोके महीयते || इति माघकृत्यम् || मत्स्यसूक्ते | श्रीभगवानुवाच || कुम्भसंस्थे सहस्रांशौ पूजामारभ्य देशिकः | प्. ५७१) तथा कृष्णे महेशानि ! प्रतिपत्प्रभृति क्रमात् | ब्रह्माणञ्चैव गायत्रीं सतीं गौरीं जयन्तिकाम् | कमलां पार्वतीञ्चैव महामहिषमर्दिनीम् | सरस्वतीं महामायां महालक्ष्मीं रतिं तथा | कालरात्रिमुमाञ्चैव यजेत्तैरुपचारकैः | कर्णेनाकर्णनी तूर्णी पूर्णा मदनप्रीतिदा | क्रीडयेयुश्च पूर्वाह्णे नराः सिन्दूरमण्डिताः | पूजयेच्च महेशानि ! गोपालं गोपिवल्लभम् | मन्दारैः किंशुकैश्चैव तथा चूताङ्कुरैरपि | पूजयेद्विधिवद्देवं शिविकायां ततोन्यस्येत् | मुहूर्तेऽभिजिते पञ्चवाद्यैर्यात्रां समाचरेत् || नारदपञ्चरात्रे द्वितीयरात्रे सप्तमाध्याये || परं शिवचतुर्दश्यां शिवं सम्प्राप्य पूजनम् | तद्दिनेऽनशनं विप्र ! परं निर्वाणकारणम् | मत्स्यसूक्ते || शिवव्रतमथो वक्ष्ये सर्वपापप्रणाशनम् | चन्द्राब्जे करणे देवि ! रुद्रसायुज्यमाप्नुयात् | चतुर्दश्याममावास्यादिवसं यदि संस्पृशेत् | यदा तर्योदशी चन्द्रा त्रयोदश्यां शिवव्रतम् | प्राप्नोन्यतुलभोगन्तु यस्य रात्रौ चतुर्दशी | शिवरात्रिव्रतं तत्र कर्तव्यं तिथिपूजनम् | माघफाल्गुनयोर्मध्ये या च कृष्णा चतुर्दशी | शिवयोगेन संयुक्ता शिवरात्रिरुदाहृता | दिवास्पर्शे व्रतं विद्याद्रात्रौ वा पूर्णमेव तु | हीनेनैव व्रतं कुर्यात् शिवयोगस्य शङ्करि ! | माघीतं परतो या स्यात् कृष्णा माघी चतुर्दशी | तस्यां सम्पूजनादेव सर्वपापैः प्रमुच्यते | योगतिथ्यन्तरे चैव प्रवेशञ्च समाचरेत् | न रात्रौ पारणं कुर्यान्न सन्ध्यायां कथञ्चन | स्नानमावाहनं कुर्याच्चतुर्दश्याः समागमे | आतुरे मार्जनं ज्ञेयं स्नानात् कोटिगुणं फलम् | एकादशगुणं कुर्यान्नैवेद्यं परमेश्वरि ! | बलिञ्च त्रिविदं कुर्यात् शृणुष्व वरवर्णिनि ! | अष्टम्यां पञ्चदश्यां वा चतुर्दश्यामथापि वा | कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिचतुर्दशी | घनिष्ठा शिवयोगे च या च कृष्णा चतुर्दशी | प्. ५७२) रात्रियोगे तु सम्प्राप्ता सा तु पुण्यतमामता | योगस्पर्शे पुण्यमात्रं रात्रियोगेऽधिकं फलम् | सर्वरात्रौ दशगुणं दिवास्पर्शे सहस्रकम् | स्नात्वा संस्थापयेल्लिङ्गं स्थण्डिले यत्र पूजयेत् | तत्र वै दर्पणे कुर्यात् शालग्रामे मनौ तथा | वारिणा प्रथमे स्नानं पञ्चनद्येति वा पुनः | आप्यायस्येति क्षीरेण दधिक्राव्नेति वै दधि | मधुवातेति मधुना गायत्र्या च गुडेनं च | आपोहिष्ठेति मन्त्रेण तथा रत्नोदकैरपि | तोयेनानेन मन्त्रेण तथा पञ्चामृतेन तु | मार्जयेद्विल्वपत्रेण घटस्थापनमारभेत् | सङ्कल्पान्ते पठेन्मन्त्रं कृताञ्जलिपुटेन तु | अद्य शैव चतुर्दश्यां जागरयाम्यहं निशाम् | पूजां दानं जपं होमं कारयाम्यग्र शक्तितः | शिव ! शङ्कर ! सर्वज्ञ ! व्रतानां फलदायक ! | शिवरात्रिव्रतं देव ! करोमि त्वत्प्रसादतः | चतुर्दश्यां निराहारो भूत्वा चैवापरेऽहनि | भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ! | उत्तराभिमुखो भूत्वा प्राणायामं समाचरेत् | गणेशं दिक्पतींश्चैव ग्रहाश्चैव मरुद्गणान् | ब्रह्माणं प्रतिकुम्भे च ततो देवासनं यजेत् | नन्दिनञ्च महाकालं पूर्वद्वारि यजेद्बुधः | भूतेशं चण्डपाणिञ्च दक्षिणद्वारि संयजेत् | उत्तरे चैव वेतालं वृषभञ्च ततो यजेत् | मध्ये आधारशक्त्यादीन् साङ्गोपाङ्गं समर्च्चयेत् | ध्यायेद्देवं महेशानं ध्यानं शृणु वरानने ! | वृषासनगतं पद्मं तत्र पद्मासने स्थितम् | शुद्धस्फटिकसङ्काशमणिमादिगुणैर्युतम् | दशभिर्बाहुभिर्धत्ते शूलशक्तिवराभयम् | खट्वाङ्गं भुजगञ्चैव घण्टाङ्कुशं तथैव च | डमरुं बीजपूरञ्च नीलोत्पलवरं तथा | द्वात्रिंशल्लक्षणोपेतं पञ्चवक्त्रं त्रिलोचनम् | इच्छादिशक्तिसहितं बीजेनारोपयेत्ततः | अङ्गपूजां विधायाथ दद्यात् पाद्यादिकं शुभम् | ततः स्वशक्तिसंयुक्तान् पूर्वादिदिग्दले यजेत् | श्रीकण्ठादींश्च तद्वाह्ये मूर्तीरष्टौ च सं यजेत् | प्. ५७३) उपचारैः समभ्यर्च्य अङ्गपूजावसानके | अनन विधिमन्त्रेण दद्यादर्घ्यं विभूतये | दधिदूर्वाक्षतञ्चैव गन्धपुष्पसमन्वितम् | जानुभ्यामवनीं गत्वा मन्त्रेणानेन साधकः | नमः शिवाय शान्ताय सर्वपापहराय च | शिवरात्रौ ददाम्यर्घ्यं प्रसीद उमया सह | त्रिमध्वक्तेन देवेशि ! प्रथमप्रहरेण तु | मोदकं पायसान्नं वा संयुक्तं वा विशिष्यते | द्वितीयप्रहरे चैव स्वयं स्याद्वारुणेन तु | स्नानं कुर्यात्तु मन्त्रेण शृणु मन्त्रं वरानने ! | अज्ञानतिमिरान्धानां प्रणीतकल्मषात्मनाम् | स्नानं करोमि देवेश ! सर्वपापविशुद्धये | देवञ्च पूर्ववत् स्नात्वा पूर्ववच्चार्चनञ्चरेत् | रुद्रसूक्तेन कामेन रुद्रसूक्तेन चार्चयेत् | हरं महेशं विजयं यक्षेशं वरदं शिवम् | नारायणञ्च ब्रह्माणं पूजयेद्भक्तितत्परः | होमान्ते प्रददेदर्घ्यं मधुक्षीराज्यसंयुतम् | कुशपुष्पसमायुक्तं गुडशर्करयान्वितम् | नमः शिवाय शान्ताय भुक्तिमुक्तिप्रदाय च | शिवरात्रौ ददाम्यर्घ्यं सर्वाभिमतसाधनम् | तृतीयप्रहरे चैव स्नानं कुर्याद्विशुद्धये | वक्ष्यमाणेन मन्त्रेण कुशेनाभ्युक्ष्य वारिणा | विरूपाक्ष ! महादेव ! सुचिन्त्यो मे भवाधिप ! | शिवरात्रौ कृतस्नानाद्भुक्तिमुक्तिप्रदो भव | शिव ! शङ्कर ! देवेश ! प्रभो ! पशुपते ! हर ! | हृहाणार्घ्यमिदं देव ! उमाकान्त ! प्रसीद मे | दत्त्वार्घ्यं विधिवद्देवि ! पूजयेन्मन्मथं हरम् | योगेशं माधवं धर्मं विष्णुलोकं तथैव च | चतुर्थप्रहरे चैव स्नानं कुर्याद्विचक्षणः | मार्जनञ्च ततः कुर्यान्मन्त्रेणानेन सुन्दरि ! | यथाष्टकोटिलिङ्गानां यत् फलं पूजनाद्विभो ! | तदेतत् प्राप्यते नाथ ! शिवरात्रौ स्नानकर्मणा | पावकं भुवनं विष्णु नरसिंहं शतक्रतुम् | जनार्दनं माधवञ्च मध्यपीठे समर्चयेत् | गौरीञ्च वीरभद्रञ्च चन्द्रार्द्धकृतशेखरम् | सर्वपापविशुद्ध्यर्थमर्घ्यो मे प्रतिगृह्यताम् | संसारक्लेशदग्धस्य व्रतेनानेन शङ्कर ! | गृहाणार्घ्यं मया दत्तं शिवरात्रौ प्रसीद मे | प्. ५७४) प्रभाते च ततः कृत्वा नित्यंकृत्यं समाहितः | देवं त्र्यम्बकमन्त्रेण स्नापयेत् पूजयेत्ततः | दक्षिणां विधिवद्दद्यात् पारणञ्च समाचरेत् | नमः शिवायेति मन्त्रेण ब्राह्मणान् भोजयेत्ततः | वृहन्नीलतन्त्रे सप्तमपटले | प्राङ्गणे मध्यरात्रौ च फाल्गुने मासि सुन्दरि ! | चतुर्दिक्षु महेशानि ! कदलीखण्डमुत्तमम् | अपापयागे देवेशि ! मण्डपं कारय प्रियम् | चूताश्वत्थवटैर्देवि ! छन्नं कुर्याच्च मण्डपम् | कुमारीवेष्टितं कुर्यान्मण्डपं सर्वमोहनम् | तारामूर्तिस्तथा कालीमूर्त्तिर्वा देवराजक ! | सर्वकार्यप्रदां देव ! तां कुरुष्व महेश्वर ! | अन्नदा मूर्तिमेतां हि कुरु वा सुरवन्दित ! | पट्टवस्त्रैर्महादेव्यै बलिं यत्नेन दापयेत् | आसनं कम्बलं दद्यात् स्वागतं मधुनिर्मितम् | पाद्यन्तु पयमा दद्यादर्घ्यं दद्यात् कुशेन च | मधुपर्कं घृतेनैव जलेनाचमनीयकम् | क्रमेण स्नानमाचर्य वसनं लोहितं स्मृतम् | रजताभरणं दद्यात् सर्वदेवमनोरमम् | तण्डुलेन विना देव ! नैवेद्यं दापयेत् प्रिय ! | चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्मनोरमम् | रक्तचन्दनबीजेन जपेदष्टसहस्रकम् | शुक्लप्रतिपदारभ्य नवम्याञ्च समापयेत् | बलिं दद्यान्महादेव्यैछागेन महिषेण वा | अन्नं मत्स्यं तथा मांसं घृतं परमशोभनम् | पिष्टकं परमं दिव्यं दद्याद्देव्यै मनोरमम् | होमयेद् देवदेवेश ! यथाशक्ति विधानतः | कुमारीं पूजयेद्यत्नैर्द्रव्यैर्बहुविधैरपि | होमादिकन्तु सकलं कुमारीपूजनं विना | परिपूर्णफलं नैव सफलं पूजनं भवेत् | ततः सकलसिद्ध्यर्थं कुमारीं वा प्रपूजयेत् || तथा | तारिणीं कालिकाञ्चैवान्नपूर्णां भैरवीं पराम् | सम्पूज्य विधिवद्भक्त्या सर्वसिद्धिर्भविष्यति | पूजाविधानं देवेश ! श्रीतुमर्हस्यसंशयः || मत्स्यसूक्ते सप्तपञ्चाशत्पटले | प्. ५७५) श्रीभगवानुवाच | अथ मासाश्रितं कर्म वक्ष्ये देवि ! समासतः | यथाक्रम यथाकालं यथाशक्ति विधानतः | व्रतस्थो दापयेद्दानं यज्ञं कुर्याद्व्रतागमे | प्रतिग्रहं विनोदञ्च स्त्रीणां सम्प्रेक्षणादिकम् | भोजनं कांस्यलौहे च ताम्बूलस्य च भक्षणम् | क्षारञ्च कटुकञ्चैव वर्जयेन्मूलकं तथा | विल्वयावकमाषांश्च तिक्तान्नं माक्षिकं त्यजेत् | शाकं सर्वव्रते शस्तं सकृत्पक्वं विशिष्यते | मूलपत्रकरौरादिफलकान्तादियोजनम् || इति फाल्गुनकृत्यम् || रामार्चनचन्द्रिकायां पञ्चमपटले | मधौ शुक्लतृतीयायां जानकीरमणं प्रभुम् | राजोपचारैः सम्पूज्य राममामन्त्रयेत् कलौ | दोलारूढं प्रपश्यन्ति ये कृष्णं मधुमाधवे | अपराधसहस्रैस्तु मुक्तास्ते नात्र संशयः | दोलारूढस्य देवस्य येऽग्रे कुर्वन्ति जागरम् | सम्यक् पुण्यफलावाप्तिर्निमिषे निमिषे भवेत् | चैत्रशुक्लनवम्यान्तु कर्त्तव्यं व्रतमुत्तमम् | राम एव परं ब्रह्म तद्दिनं रामतोषकम् | व्रतस्य विस्तारस्तत्रानुसन्धेयोऽत्र तु ग्रन्थगौरवभिया न लिखितः | तद्दिने उपवासस्यावश्यकत्वमपि तत्रैव | यस्तु रामनवम्यान्तु भुङ्क्ते मोहाद्विमूढधीः | कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः | उपवासासमर्थस्य एकभक्तमप्युक्तं तत्रैव | नवम्यामेकभक्तेन अङ्गभूतेन राघवः | इक्ष्वाकुवंशतिलकः प्रीतो भवति नान्यथा | तथा | एकभक्तव्रती तत्र सहाचार्यो जितेन्द्रियः | शृण्वन् रामकथां दिव्यामहः शेषं नयेन्मुने ! | अन्यत् सर्वं तिथितत्त्वादावनुसन्धेयम् | तथा | द्वादश्यां चैत्रमासस्य शुक्लायां दमनोत्सव | बौधायनादिभिः प्रोक्तः कर्त्तव्यः प्रतिवत्सरम् | तत्र स्यात् स्वीयतिथिषु वह्न्यादौ दमनार्पणम् | वह्निर्विरिञ्चिर्गिरिजा गणेशः फणी विशाखो दिनकृन्महेशः | दुर्गान्तको विघ्नहरिस्मराश्च सर्वेऽपि पीठेऽत्र तिथौ तु पूज्याः | प्. ५७६) दमनोत्सवयात्रा तत्रैवानुसन्धेया अत्र तु ग्रन्थगौरवभिया न लिखिता | तत्फलन्तु तत्रैव | स्वयं धृत्वाभ्यर्च्य बन्धून् विप्रान् सम्भोज्य पारयेत् | स्यादश्वमेधजं पुण्यमित्याह भगवान् शिवः | पारणाहेन लभ्येत द्वादशी घटिका न चेत् | तदा त्रयोदशी ग्राह्यापवित्रा दमनार्पणे | माधवे दमनारोपः स्यान्मधौ विस्मृतो यदि | वैशाख्यां श्रावणे भाद्रे कर्त्तव्यं वा तदर्पणम् || इति चैत्रकृत्यम् | वैशाखे पौर्णमास्यान्तु जलस्थं जगदीश्वरम् | शुक्लामेकादशीं यावत् पूजयेत्तं प्रहर्षितः | निक्षिप्य जलपात्रे तु मासे माधवसंज्ञिते | माधवं येऽर्चयिष्यन्ति देवास्ते न नरा भुवि | स्वर्णपात्रे तथा रौप्ये ताम्रे वा मृण्मयेऽपि वा | तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम् | प्रतिमां वा महाभाग ! तस्य पुण्यमनन्तकम् | तस्मात् ज्यैष्ठे सदा भूप ! तोयस्थं पूजयेद्धरिम् | वीतपापो नरस्तिष्ठेद् यावदाभूतसंप्लवम् | ज्ञेयः कालविकल्पाऽयं मुक्तस्य द्वयमेव वा | गन्धोदकं वा तत्पात्रे नित्यपूजां समाप्य च | अभिवाद्य दिवा रात्रौ देवं नीत्वा निजासनम् | पञ्चोपचारैः सम्पूज्य तीर्थं प्राप्या विसर्जयेत् | आत्मानं गृहदारादीन् तेन तीर्थेन पावयेत् | द्वादश्यान्त जले रात्रावर्चयेद्गारुडोक्तितः | द्वादश्यां पूजयेद्रात्रौ जलस्थः जलशायितम् || इति वैशाखज्यैष्ठयोः कृत्यम् || तत्रैव || आषाढशुक्लद्वादश्याम् क्षीराब्धिशनोत्सवः | कार्योऽन्यथा त्वनावृष्टिर्भवेत् पौराणवाक्यतः | मिथुनस्थे सहस्रांशौ स्वापयेन्मधुसूदनम् | तुलाञ्चापि गते तस्मिन् पुनरुत्थापयेत् प्रभुम् | मिथुनस्थे सहस्रांशौ न स्वापयति यो हरिम् | वैष्णवैः सह सम्भूय ह्यनावृष्टिस्तदान्यथा | अस्मिंस्तिथौ वैष्णवानां मुद्राङ्कधारणमुक्तं तत्रैव | शौनकोक्तप्रकारेण तप्तमुद्राङ्कधारणम् | प्. ५७७) कर्त्तव्यं वैष्णवैः सर्वैः सम्प्रदायानुरोधतः | सामवेदेऽपि | प्रतद्विष्णो अब्जचक्रे सुतप्ते जन्माम्भोधा उत्तरे कर्षणीन्द्राः | मूले बाह्वोर्दधति प्रणवानि लिङ्गान्यङ्गे तप्तायुधानि पर्यन्त इति | तत्फलमुक्तमथर्वणा | यथा | उरुक्रमस्य चिन्हैरङ्किता लोके उरुभागा भवन्तीति | ब्राह्मणस्यापि वैष्णवस्याङ्कधारणमुक्तं रामार्चनचन्द्रिकायाम् | यथा | अग्निहोत्रं तथा नित्यं वेदस्याध्ययनं तथा | ब्राह्मणस्य तथैवेदं तप्तचक्राङ्कधारणम् | यद्यपि वैष्णवस्येति नोक्तं केवलं ब्राह्मणस्येति तथाप्यत्र प्रागुक्तवचनैकवाक्यतया वैष्णवस्येति लभ्यते | धारण क्रमस्तु तत्रैव | षोडशोपचारैर्भगवन्तमभ्यर्च्य चाक्षरे परमे व्योम शन्नो मित्रसंबरुण इत्येताभ्यां चक्रं शङ्खं चाभ्यर्च्य द्वादशाक्षरम् | नहि तज्जरायाग्नेर्मथे प्रथमस्य प्रचेतसमित्याभ्याम् अग्नावादध्यात् | वैश्वदेवस्य स्यामित्यग्निष्वर्थयेत् | पुरुषसूक्तेन शतमाहुतीर्हुत्वा भगवन्तं पुरुषसूक्तेनोपस्तुत्य यो ब्राह्मणमिति दण्डवत् पुरतो निपतेत् | ततः | सुदर्शन ! महाज्वाल ! सूर्यकोटिसमप्रभम् | अज्ञातार्थस्य मे नित्यं विष्णोर्मार्गं प्रदर्शय || इति गृहीत्वा ओं सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रं प्रचोदयादिति चक्राधानम् | ततः | पाञ्चजन्य ! महाध्वान !! ध्वस्तपातकसञ्चय ! | पाहि मां पापिनं घोरसंसारार्णवपातितम् || इत्यादाय पाञ्चजन्याय विद्महे पवमानाय धीमहि तन्नः शङ्खः प्रचोदयादिति शङ्खाधानम् || मुद्राधारणफलमपि तत्रैव || य एवं कुरुते विद्वान् ब्राह्मणः श्रोत्रियः शुचिः | सर्वपापैः प्रमुच्येत विष्णुलोकञ्च गच्छति | अथवा उत्थानद्वादश्यामपि मुद्राङ्कधारणम् कार्ययम् | शयन्याञ्चैव बोधिन्यां चक्रतीर्थे तथैव च | शङ्खचक्रविधानेन वह्निपूतो भवेन्नरः || इति तद्धृतवचनादिति मुद्राधारणविधिः || प्. ५७८) प्राण्यङ्गचूर्णं चर्म्माम्बुजम्बीरे बीजपूरकम् | अयज्ञमिष्टमन्नाद्यं यद्विष्णोरनिवेदितम् | दग्धमन्नं मसूरञ्च माषञ्चेत्यष्टधामिषम् | रुच्यं तत्तद्देशलभ्यं फलमूलादि वर्जयेत् | निष्पावान् राजमाषांश्च मसूरसन्मितानि च | वृन्ताकुञ्च कलिङ्ग सुप्ते देवे न भक्षयेत् | मत्स्यसूक्ते अष्टपञ्चाशतपटले || धरण्यामृतुमत्यान्तु तथा सप्त दिनानि च | वटे सोमवटे चैव न दत्तेऽपि मधूजके | पूजयेत् क्षेत्रपालञ्च जयपालं महाबलम् | नगरग्रामपीठाद्ये ह्यगस्त्ये चोत्तरेऽपि वा | न कुर्याद्ग्राममध्ये तु न कोणेऽपि वरानने ! | उत्तराशां गते सूर्यं पुण्यर्क्षे तु शुभेऽहनि | स्थापयेत् प्रथमं वृक्षं स्थिरो भव इतीरयन् | स्नापयेत् पञ्चगव्येन त्रिःसूत्रेण च वेष्टयेत् | कृताकृतज्ञविप्रेण स्थितभार्येण सुन्दरि ! | वृषान्ते त्रिदिनञ्चैव मिथनान्ते दिनत्रयम् | रविसंक्रमणे मध्ये भूमिदाहः प्रकीर्तितः | कलौ दिनत्रयं वर्ज्यं वृषान्ते मिथुनादितः | रविसंक्रमणे चैव भूमीदाहो दिनत्रयम् | भूमिदाहे त्यजेत् सर्वं दाहे दाहफलं लभेत् | व्यवहारे कोषहानिः पुत्रस्योत्पादनात् क्षाम् | प्रग्रहे दर्शने स्त्रीणामसौभाग्यं विजानीहि | तस्य शान्तिं प्रवक्ष्यामि कृत्स्नां चामीकरं फलम् | दद्याद्दोषोपशान्त्यर्थं दद्याद्वा तिलकाञ्चनम् | काम्यं नैमित्तिकञ्चैव यात्रा मन्त्रं क्रियां तथा | ऋतुमत्यां न कुर्वीत पूर्वसङ्कल्पिताट्टते | न कुर्यात् खननं भूमेः सूच्यग्रेणापि शङ्करि ! | बीजानां वपनञ्चैव चतुर्विंशतियामकम् | प्रमादाद्वपनं कृत्वा गाश्च तत्र प्रचारयेत् | कृच्छ्रं कुर्याद्भक्षणाच्च खननात्तिलकाञ्चनम् | दुर्गाद्या मातरः सर्वा ऋतुमत्यो भवन्ति षट् | जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च | पुलस्त्यः पुलहश्चैव पञ्चैव पञ्चैते वव्ववादृणाः | पठेद्वा धारयेद्गेहे न वव्वाग्निभयं तथा | मेषे वृषे च मिथुने दद्याद्वारि सुशीतलम् | प्. ५७९) प्रतिमायां महालिङ्गे शालग्रामे तथैव च | यज्ञवृक्षस्य मूले वा पञ्च त्रिधारयान्वितम् | मुहूर्त्तमपि यो दद्यान्मम विष्णोः शिरोपरि | वाजपेयफलं प्राप्य मोदते ब्रह्मणा सह | शालग्रामशिलायान्तु अश्वमेधफलं लभेत् | विप्राय मोदकं दत्त्वा सोऽश्वमेधफलं लभेत् | तृषार्तेभ्योऽपि जन्तुभ्यः स्वर्गलोके महीयते | कुशाग्रनिःसृतं वारि यो ददाति दिने दिने | देहेषु तरुमूलेषु विष्णुलोकं स गच्छति | गन्धोदकस्य यो धारां गुडक्षीरमथापि वा | एकैकं वारिणा सिक्तं चन्दनोक्षितमेव वा | दिनैकं मधुधारापि परं ब्रह्माधिगच्छति | कर्पूरागुरुसम्मिश्रं यो दद्यात् शर्करान्वितम् | स स्वर्गे विपुलान् भोगान् भुङ्क्ते च पितृभिः सह || इत्याषाढकृत्यम् || रामार्च्चनचन्द्रिकायाम् || श्रावणस्य सिते पक्षे द्वादश्यां शौनकादिभिः | उक्तस्तदा प्रकर्तव्यः पवित्रारोपणोत्सवः | स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः | हरिश्च प्रीतिमाप्नोति यः पवित्रं समाचरेत् | विधिना शास्त्रदृष्टेन यो न कुर्यात् पवित्रकम् | हरन्ति राक्षसास्तस्य सर्वं पूजादिकं फलम् || इति श्रावणकृत्यम् || तत्रैव || अथ भाद्रपदे शुक्लद्वादश्यां कर्णिकोत्सवः | कर्त्तव्यो वैष्णवैः सार्द्धं शयनोत्सववद्धरेः | प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि | कटदानं भवेद्विष्णोर्महापातकनाशनम् | शयनोत्सवरीत्या तु देवं नीत्वा जलाशयम् | कटदानोत्सवं कुर्वे इति सङ्कल्प्य पूजयेत् | देवदेव ! जगन्नाथ ! योगगम्य ! जनार्दन ! | कटदानं करोम्यद्य प्राप्ते भाद्रपदे शुभे | अनेन दक्षिणावृत्तं दक्षिणाङ्गे प्रकल्पयेत् | महापूजां ततः कृत्वा पूर्ववत् स्वगृहं व्रजेत् || इति भाद्रकृत्यम् || प्. ५८०) अथ वर्षकृत्यम् || वरदातन्त्रे द्वितीयपटले || आद्यायाख्यक्षरीमधिकृत्य || कर्म कुर्यात् फलावाप्त्यै चन्द्रादिशोभने बुधः | बिना नैमित्तिकं देवि ! अन्यथा विफलं भवेत् [ वार्षिकी कालिका पूजा राज्यदाऽन्यक्रियां विना | सा चापि तत्र कर्त्तव्या शृणुष्व परमेश्वरि ! | सा पूजा इति | राज्यदा धनदा पूजा जयदाऽशुभसङ्कुले | शत्रुकार्यक्षतिकरी निजकार्यप्रसाधिनी | राजवश्यप्रदा सर्वं ग्रहदोषनिवारिका | प्रकाशे दोषदा शीघ्रफलदा कथ्यते मया | महाविषुवसंक्रान्त्या सवस्त्रं घटमुत्सृजेत् | उपानहौ] च छत्रञ्च कालीप्रीणनहेतवे | अक्षयायां तृतीयायां तथैवमुत्सृजेद्घटम् | स्वर्णं वा राजतं वापि तेजसं मार्त्तिकं तथा | वैशाखे जलदानन्तु स्वर्णदानसमं प्रिये ! | ज्यैष्ठे पक्वान्नदानेन आषाढे पनसेन च | श्रावणे परमान्नेन पूजयेत् परमेश्वरीम् | भाद्रे तु पिटकैः पूजा आश्विने शारदोत्सवः | भगवत्यै रत्नवस्त्रं दत्त्वान्यद्द्रव्यमेव च | पश्चात् स्वयञ्च तद्ग्राह्यं कार्त्तिके शीतवाससा | नवान्नेन मार्गशीर्षे नवमुद्गेन पौषके | माघे च फाल्गुने चैव दुग्धेन च घृतेन च | चैत्रे दध्ना महापूजा सर्वदुःखविनाशिनी | इयं ते वार्षिकी पूजा सर्वसाम्राज्यदायिनी | आत्मप्रियं तथा वस्तु यथावद्धि निवेदयेत् | वार्षिकीषु महेशानि ! सर्वाभीष्टानि साधयेत् | एतत्तु दक्षिणाविद्याविषये साधकोत्तमः | कुर्याद्यः प्रतिवर्षन्तु स भवेद्भूमिपाग्रणीः | पञ्चवर्षे भवेद्राष्ट्रं साम्राज्यं दशवर्षके | विंशवर्षे महेशानि ! महासाम्राज्यदायिनी | लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दशलक्षके | शतलक्षे महेशानि ! महासाम्राज्यमाप्नुयात् | दासोऽपि भृत्यतां त्यक्त्वा अकस्माज्जायते महान् | मनसा न स्मृतं यत्तु वचसा कथितं न यत् | दक्षिणासेवकः सत्यं तथा राज्यमवाप्नुयात् || पञ्चममटले | अतिराज्यस्य राज्याप्तिसाधनं कथयामि ते | प्. ५८१) शुभे काले समारभ्य वर्षमेकं समाचरेत् | चन्द्रतारानुकूलं हि दिनं ग्राह्यं महेश्वरि ! | प्रातः स्नात्वा शुद्धवासः परिधाय प्रसन्नधीः | सङ्कल्पं हृतराज्यस्य लाभाय समुपाचरेत् | कालिका त्र्यक्षरीविद्यामधिगम्य गुरोर्मुखात् | साधनं विधिवत् कृत्वावश्यं राज्यमवाप्नुयात् | आद्येऽह्नि पूजयेद्देवीं जवाकुङ्कुमवर्बरैः | पूजान्ते परमेशानि ! सहस्रं प्रजपेन्मनुम् | जनशून्यगृहे स्थित्वा समाप्य जपमुत्तमम् | ततस्तु जुहुयात् साष्टशतं दूर्वाघृतेन्दुकैः | मन्त्रेणानेन देवेशि ! कालागुरुघृतेन वा | कालि ! कालि ! ततो राजेश्वरि ! राज्यप्रदे ! पदम् | राज्यं देहि पदञ्चोक्त्वा दयामयि ! पदं ठठः | इदं हि परमं मूलमन्त्रं राज्याप्तये शिवे ! | जपहोमौ तु कर्त्तव्यौ मन्त्रेणानेन देशिकः | स्वेच्छाच्चारोऽत्र देवेशि ! स्थानादिशोधनं न च | ततः प्रतिदिनं यावद्वर्षमेकं जपेन्मनुम् | अष्टोत्तरशतं मन्त्रं कदाचिन्न परित्यजेत् | न पूरश्चरणापेक्षा मन्त्रेऽस्मिन् परमेश्वरि ! | भूमिलग्नैकपादस्तु पौर्णमास्यां जपेन्मनुम् | कालागुरुद्रवेणैव तत्सख्ये तर्पयेच्छिवाम् | कृष्णाष्टम्यां विल्ववृक्षं चतुर्दश्यां जवातरुम् | अमावस्यासु सर्वासु शेफालीतरुमुत्तमम् | स्पृष्ट्वा जपेद्दश दश वारान् सूर्योदये व्रती | कृष्णाष्टम्यां चतुर्दश्यां पूज्येदतियत्नतः | अष्टोत्तरशतं हुत्वा रत्रौ चापि जपेच्छतम् | एवं द्वादशमासेषु कृत्वा राज्यमवाप्नुयात् | कृतेनैतेन देवेशि ! प्रयोगो नाति यत्नतः | इन्द्रतुल्येन रिपुणा हृतं राज्यमवाप्नुयात् | वर्षमध्ये यदि रिपुर्बलवान् साधको भवेत् | तच्छक्तिनाशकामोऽत्र चरेद् यत् कथयामि ते | अमुकं स्तम्भय स्वाहा कालिका त्र्यक्षरीपुटम् | ब्राह्मणे गुरुवारे तु क्षत्रिये शुक्रवासरे | वैश्ये मङ्गलवारे च शूद्रेरविसुताहनि | पूर्वाह्णे प्रजपेन्मन्त्रसहस्रं निर्जनस्थले | प्. ५८२) एवं पञ्चदिने कृत्वा पूजयेद्घोरदक्षिणाम् | शत्रोर्नामाक्षरर्क्षे तु उन्मत्तमूलमुत्तमम् | उत्पाट्य परमेशानि ! कुङ्कुमेन विघर्षयेत् | चन्द्रचन्दनकर्पूरजातीलवङ्गसंयुतम् | कुचन्दनं जवां दूर्वामेकीकृत्य बलिं दिशेत् | मन्त्रेणानेन देवेशि ! रामतत्त्वाख्यमुद्रया | प्रणवं पूर्वमुच्चार्य कालिके ! कालरात्रिके ! | मद्दत्तं पदमुच्चार्य गृह्ण गृह्ण पदद्वयम् | अमुकस्य रिपोः कार्ययं विनाशय पदद्वयम् | छिन्धि छिन्धि मथ मथ मम राज्यं प्रदापय | ठद्वयेनैव मनुना अष्टम्यां बलिमादिशेत् | बलिदानेन देवेशि ! क्षीणशक्तिर्भवेद्रिपुः | आत्मीयराज्यरक्षार्थमक्षमस्तत्क्षणाद्भवेत् | एवं कृते वर्षमध्येऽवश्यं राज्यमवाप्नुयात् | प्राप्ते राज्ये वरारोहे ! कालिकां घोरनिस्वनाम् | पूजयेद्बहुजातीयैर्द्रव्यैश्च बलिभिः शुभैः | तोषयेद्ब्राह्मणावारीर्दीनान् धनगणैरपि | तदेव स्थिरराज्यः स्यान्नान्यथा विफलं भवेत् | न नारीं निन्दयेद्वाचा कर्म्मणा मनसापि वा | ब्राह्मणानपि देवेशि ! स्थिरराज्याय सर्वदा || अथ देवीषोडशयात्राः || वामकेश्वरतन्त्रे चतुःपञ्चाशत्पटले || भैरव उवाच || शृणु देवि ! प्रवक्ष्यामि यात्राविधिमनुत्तमम् | तव यात्रा महेशानि ! षोडशी परिकीर्तिता | द्वादशेष्वेव मासेषु अमावस्या प्रशस्यते | तस्यां पूजादिकर्माणि कुर्वाणो मोक्षमाप्नुयात् | कुलवारे कुलतिथौ पूजयेत् प्रजपेन्निशि | कुलवारौ तु विज्ञेयौ कुजमन्दौ महेश्वरि ! | चतुर्दश्यष्टमी चैव अमावस्याथ पूर्णिमा | नवमी च महादेवि ! तिथयः कुलसंज्ञकाः | तत्र संक्रान्तियोगेन महायोगः प्रकीर्तितः | अस्मिन् दिने महेशानि ! देवीपूजा सुखप्रदा | वैशाखे मञ्चयात्रा च चन्दनागुरुकल्पना | ज्यैष्ठे महास्नानयात्रा अम्बुवाचीदिनत्रयम् | अषाढे रथयात्रा च दिग्दिनव्यापिनी परा | श्रावणे जलयात्रा च वस्त्रभूषणचामरैः | प्. ५८३) भाद्रे यात्रा धूननाख्या चण्डिकाया दिनत्रयम् | आश्विने च महापूजा यात्रा यज्ञबलिप्रिया | कार्तिके दीपयात्रा च नवान्नमग्रहायणे | पौषे चाङ्गरागयात्रा वस्त्रालङ्कारभूषणैः | माघे मासि महादेवि ! रटन्ती च चतुर्दशी | दोलाकेलिः फाल्गुने च चैत्रे चतुष्टयौ | दूतीयात्रा रासयात्रा वासन्ती नीलयात्रिका | एवं यात्रा प्रोक्ता षोडशी भवमोचनी || देव्युवाच || संक्षेपात् कथिता देवे ! यात्रा च षोडशी प्रभो ! | केन वा क्रियते यात्रा विधानं ब्रूहि मे प्रभो ! | भैरव उवाच || शृणु देवि ! प्रवक्ष्यामि सारात्सारतरं वचः | यत् कृत्वा साधकश्रेष्ठः क्रियातीतो भवेत् प्रिये ! | गुर्वाज्ञया क्रियातीतश्चाभिषिक्तो जितेन्द्रियः | कामक्रोधलोभमोहमदमात्सर्यवर्जितः | गुरूपदिष्टमार्गेण देवीमालम्ब्य यत्नतः | पूजयेद्विधिवद्भक्त्या वाङ्मनः कायकर्मभिः | अत्मवत् पूजयेद्देवीं दिवारात्रिक्रमेण च | प्रातःकाले दन्तकाष्ठैर्मुखप्रक्षालनं चरेत् | धौतवस्त्रं परिधाप्य तैलाभ्यङ्गञ्च कारयेत् | सुगन्धिना जलेनैव देव्याः स्नानं प्रकल्पयेत् | पूजयेद्विधिवद्भक्त्या यथावित्तानुसारतः | पूजावसाने देवेशि ! भावयेद्वाक्यसम्भवैः | वाक्यसम्भवैः स्तवैरित्यर्थः | शाययित्वा विचित्रायां शययायां सुखहेतवे | तत उत्थाप्य मन्ध्यायां दीपैर्न्नीराजनञ्चरेत् | रात्रौ तिथिविशेषे च पूज्या त्वमसि साधकैः | अन्नं व्यञ्जनसंयुक्तं दधि दुग्धं सशर्करम् | पनसाम्रफलञ्चैव दाडिमं नागरङ्गकम् | यदुतत्कृटतमं लोके दद्यात् साधकसत्तमः | मधु मांसं पिष्टकञ्च पायसं घृतसंयुतम् | मत्स्यं प्रवीणं मुद्राञ्च चन्द्रविम्बनिभां पराम् | नारिकेलं तरम्बूञ्च खर्जूरं तालपिष्टकम् | पनसाम्रफलञ्चैव दाडिमं नागरङ्गकम् | ध्याननिष्ठो जपाविष्टस्ततो धीरो जितेन्द्रियः | वार्षिकीं प्रारभेद् यात्रां शृणु तत् सावधानतः || प्. ५८४) पञ्चपञ्चाशत् || वैशाखे पूर्णिमायाञ्च मञ्चं हस्तचौष्टयम् | दीर्घमायतमेवं तदुच्चमानं प्रकीर्त्तितम् | तत्र संस्थाप्य देवेशीं गीतवाद्यादिमङ्गलैः | चन्दनागुरुकर्पूरकुङ्कुमालक्तसिन्दूरैः | मृगनाभिमाक्षिकैश्च गात्रमार्जनमाचरेत् | स्नानञ्च कारयेद्देव्याः कर्पूरवासितैर्जलैः | मन्दिरे च ततो पूजयित्वा यथाविधि | होमं कृत्वा बलिं दत्त्वा सन्तोष्य भोजनादिभिः | कुमारीं पूजयित्वा च ब्राह्मणःनपि भोजयेत् | एवं विधिविधानज्ञो यात्रां कृत्वा विराजते | ज्यैष्ठे मासि महास्नानं कर्पूरादिसुवासिभिः | अष्टोत्तरशतैः पूर्णैः कलसैः स्नापयेत्ततः | वस्त्रैर्गात्रं मार्जयित्वा धूपयेद् घृतगुग्गुलैः | मञ्चाच्च मन्दिरे नीत्वा बलिं पूजाञ्च होमयेत् | गन्धाष्टकैरङ्गरागं कारयित्वा यथाविधि | विधिना कारयेद्देवि ! स्वीकुमारीद्विजार्चनम् | प्रसादं भक्षयेत् पश्चात् पुत्रदारस्वबन्धुभिः | इत्थं यात्राविधिं कृत्वा विहरेद् भैरवो यथा | आषाढेप्रथमे देवे ! अम्बु वाचीदिनत्रयम् | सङ्गोपन गृहे देवीं स्थापयेद्वस्त्रवेष्टनैः | रात्रौ महानिशायोगे पञ्चाचारेण देशिकः | पूजयित्वा बलिं दत्त्वा होमयित्वा विहारयेत् | शुक्लपक्षे द्वितीयायां रथे संस्थाप्य चण्डिकाम् | चालयेन्नृत्यगीतैश्च स्वेच्छाचारेण साधकः | तस्मात् पूजागृहे नीत्वा बलिहोमादिनार्चयेत् | स्त्रीकुमारीद्विजान् सर्वान् भोजयेदन्नसम्भवैः | वित्तशाष्ठ्यं न कुर्वीत साधकः स्थिरमानसः | श्रावणे जलयात्रा च वस्त्रचामरभूषणैः | सज्जीकृत्य शुभां नौकां साधको वाहयेत् स्वयम् | देवीं संस्थाप्य विधिना भगलिङ्गानुकीर्त्तनैः | ततः पूजागृहे नीत्वा पूजयेद्विधिपूर्वकम् | भाद्रे मासि त्रयोदश्यामारभ्य त्रिदिनं शुभम् | कुहौ वा पौर्णमास्यां वा धूनञ्च समाचरेत् | प्रत्यहं पूजयेद्रात्रौ बलिहोमादिकीर्त्तनः | नानाविधानि द्रव्याणि मनोऽभिलषितानि च | प्. ५८५) दत्त्वा स्त्रियः कुमारीश्च विप्रान् सर्वान् प्रतोषयेत् | आश्विने च महापूजां नवम्यामारभेत् सुधीः | प्रत्यहं पूजयेद्देवीं बलिहोममस्तवादिभिः | प्रत्यहं भोजयेद्विप्रान् कुमारीश्च सुवासिकाः | दिवार्च्या पशुवीरेण रात्रौ कौलानुसारतः | एवञ्च साधकश्रेष्ठो निर्वाणं मोक्षमाप्नुयात् | तत्राप्यशक्तो देवेशि ! त्रिदिनं पूजयेच्छिवाम् | कार्तिकेऽमातिथौ देवि ! दीपयात्रां समाचरेत् | रात्रौ महानिशायोगे दीपादिभिरङ्कृतम् | कृत्वा देवीगृहं पूजाबलिहोमादिनार्चयेत् | घृतप्रदीपाभावे तु तैलदीपं समाचरेत् | मार्गशीर्षे महादेवि ! नवान्नं विधिपूर्वकम् | मत्स्यं मांसं पायसञ्च दुग्धं दधि घृतं मधु | सूपं शाकं पिष्टकञ्च मिष्टान्नं व्रीहिसंयुतम् | तिललड्डुं नारिकेलं शर्करागुडमिश्रितम् | सर्वं नवं नवं दद्यात् पूजयेत् साधकोत्तमः | प्रसादं भक्षयेद्देव्याः पुत्रदारान्वितः सुधीः | पौषे नवानि वस्त्राणि नानालङ्कारणानि च | अङ्गरागविधिं कृत्वा दत्त्वा पूजाविधिं चरेत् | विना होमेन बलिना ब्राह्मणाराधनेन च | पूजा नैव महादेव्याः सत्यं सत्यं न संशयः | माघे मासि चतुर्दश्यां कृष्णपक्षे सुरेश्वरि ! | रटन्ती पापनाशार्थं पृथिव्यां पापिनं जनम् | तस्मिन् दिने महेशानि ! पूजयेद्विभवावधि | दानं कृत्वा ब्राह्मणेभ्यश्चण्डिकाप्रीतये ददेत् | श्रीतार्त्ताय क्षुधार्त्ताय दरिद्राय यतात्मने | अन्नं वस्त्रं सुवर्णञ्च देवीप्रीतिकरं परम् | फाल्गुने पूर्णिमायाञ्च मञ्चं कृत्वा त्रिखण्डकम् | तत्र देव्या आसनञ्च भूषयेद्वस्त्रवेष्टनैः | चतुर्दिक्षु पताकाञ्च रम्भाञ्च क्षुद्रघण्टिकाम् | दोलयेत् फाल्गुने देवीं दिवारात्रिप्रभेदतः | पूजयेद्भोजयेद्विप्त्रान् बन्धून् ज्ञातीन् सुतादिकान् | नृत्यगीतवाद्यभाण्डैस्तोषयेत् कालिकां सदा | चत्रे कृष्णचतुर्दश्यां दूतीयागविधिं चरेत् | प्. ५८६) रात्रौ देवीं पूजयित्वा नव कन्याः प्रपूजयेत् | तदभावै विप्रकन्यां सुवेशां यौवनान्विताम् | नानालङ्कारवस्त्राद्यैर्गन्धमाख्यानुलेपनैः | भूषयित्वा भोजयित्वा स्वयं भोजनमाचरेत् | कौलाचारेण देवेशि ! रात्रौ पूजाविधिं चरेत् | दूतीयागोक्तमन्त्रेण सर्वं पूजादिकं नयेत् | वासन्ती त्रिदिनं यावत् बलिहोमादिना यजेत् | पौर्णमास्यां रासयात्रां देव्याः कुर्यान्निशार्द्धके | पूर्ववन्मञ्चमास्थाप्य देवीं देव्यासनं यजेत् | सम्मुखे वाससंस्थानं भैरवीभैरवान्वितम् | कृत्वा तान् पूजयित्वा च भ्रामयेत् कुम्भचक्रवत् | कोलाहलं मृदङ्गादिवाद्यैर्नृत्यैः सुगीतकैः | कुर्यादानन्दहृदयः साधकः स्थिरमानसः | वित्ताशाठ्यं न कुर्वीत देवीयात्रा सुखप्रदा | संक्रान्त्यामारभेन्मन्त्री नीलयात्रां महेशितुः | धूपेन धूपयेद्देवि ! महाकालस्य तुष्टये | महाकालेन च समं रात्रौ देवीं प्रपूजयेत् | सवित्प्रधानैवेद्यं नानावस्तुसमन्वितम् | दत्त्वा स्तुत्वा नतो भूत्वा गानं कुर्यात् सबान्धवः | आनन्दोद्रिक्तहृदयो मन्त्री नर्त्तनमाचरेत् | शिवाबलिः प्रकर्त्तव्यो निशार्द्धे शिवतुष्टये | वैशाखे पूर्णिमाञ्चेत्याद्येतत्पर्ययन्तं कौलतन्त्रेण समानम् | एवं सांवत्सरीं यात्रां कृत्वा साधकसत्तमः | गुरोः प्रासादाद्देवेशि ! शिवतुल्यो न संशयः || इति देवीषोडशयात्राः || पृथ्वीविख्यातकीर्तिर्गुणिगण हृदयाम्भोजसूर्यप्रकाशः स्निग्धः सम्पूर्णचन्द्रप्रतिकृतिरमराचार्यशुद्धोपलब्धिः | जीयात् श्रीप्राणकृष्णाह्वय इह विबुधद्रुः सदीपासकानां भूयांसो मातृकाख्ये वपुषि समगमन् ब्राह्मणा यत्प्रसादात् || श्रीरामतोषणकृती जगतां हिताय श्रीप्राणकृष्णपरितोषनिदेशवर्ती | नत्वा सुचारुचरणाम्बुजामिष्टदेव्याश्चक्रे चतुर्थमिदमुत्तमकाम्यकाण्डम् || ग्रन्थिः शाखा प्रशाखा स्तवककिशलये सत्फलञ्च प्रसूनं सर्वं तत्काम्यकाण्डे रुचिरमतिफलं धीमतां दर्शनीयम् | प्. ५८७) विद्वांसः ! पश्यतेदं नयनमलहरं दिव्यदृष्टिप्रसादं नानासन्देहनाशि प्रमुद्दितहृदयाः सर्वलोकोपकर्त्तृ || इति प्राणकृष्णविश्वासानुमतायां श्रीरामतोषणविद्यालङ्कारभट्टाचार्ययविरचितायां श्रीप्राणतोषिण्यां काम्याभिधानं चतुर्थकाण्डं समाप्तम् || ########### END OF FILE #######